________________
पराधेन भीतमिव लज्जितमिव विलक्षमिव निभृतस्थितं केयूरकमन्तर्बाष्पोपरुध्यमानकण्ठः कथमपि स्खलिताक्षर प्रत्युवाच - ‘केयूरक !, येन प्रकारेणैवमेकान्तनिष्ठुरहृदयमात्मन्यनुत्पनरोगमेव मां संभाव्य देव्या कादम्बर्या दूरीकृतपुनर्मदागमनसंभावनया न त्वमागमनायादिष्टः, न संदिष्टं वा किंचिन्महाश्वेतया समुपहृतानुबन्धया, मदलेखया वा त्वन्मुखेन नोपालब्धोऽस्मि, तथा मयि पत्रलेखया सर्वमाख्यातम्, तदभिजाततया महानुभावत्वादुदारतया समानशीलतया दक्षिणतया चैकान्तपेशलतया च स्वभावस्यात्मानमात्मना न कलयति देवी कादम्बरी । चन्द्रमूर्ते लोकेनैव निश्चेतनस्य चन्द्रकान्ताख्यस्य पाषाणखण्डस्याभावोपगमनमेवायत्तम्, न पुनस्तत्कराकर्षणम् । नितरां पक्षपातिनोऽपि च मधुकरस्याभिगमनमेवाधीनम्, मकरन्दलाभे तु कलिकाश्रयिणी जृम्भैव प्रभवति । दिवससंतापक्लान्तेन चोन्मुखता कुमुदाकरेण करणीया, विकासयति पुनस्तं ज्योत्स्नाभिरामा रजन्येव । निर्भरमन्तःसरसतायां सत्या -
***********
प्रापितश्चन्द्रापीडः स्वयं कृता या पीडा तस्या अपराध आगस्तेन भीतमिव त्रस्तमिव, लज्जितमिव त्रपितमिव, विलक्षमिव वीक्षापन्नमिव, निभृतस्थितं निश्चलस्थितं केयूरकमन्तर्बाष्पेणोपरुध्यमानः कण्ठो यस्यैवंविधश्चन्द्रापीडः कथमपि महता कष्टेन स्खलिताक्षरं यथा स्यात्तथा प्रत्युवाच प्रोक्तवान् । किमुवाचेत्याह - केयूरक इति । हे केयूरक, येन प्रकारेणैवमेकान्तेन निष्ठुरं कठिनं हृदयं चेतो यस्यैवंविधमात्मनि कादम्बरीविषयेऽनुत्पन्नरागमजनितस्नेह मामेव संभाव्य ज्ञात्वा देव्या कादम्बर्या दूरीकृतः पुनर्द्धितीयवारं यन्मदागमनं तस्य संभावना तया त्वमागमनाय नादिष्टो न कथितः । तथा महावेतया किंचिन्न संदिष्टं न कथितम् । कीदृशया । समुपहृतो दूरीकृतोऽनुबन्धोऽत्याग्रहो यया सैवंविधया । मदलेखया वा त्वन्मुखेन त्वदाननेन नोपालब्धोऽस्मि नोपालम्भं प्रापितोऽस्मि । तथा मयीति । मद्विषयकं सर्वं पत्रलेखयाख्यातं कथितम् । तदिति । तत्पूर्वोक्तमभिजाततया कुलीनतया महाननुभावो माहात्म्यं यस्यातस्या भावस्तत्त्वं तस्मादुदारतया रूपानुगुणत्वेन समानं शीलं स्वभावो यस्यास्तस्या भावस्तत्ता तया दक्षिणतया सरलतया । 'दक्षिणे सरलोदारौ' इत्यमरः । स्वभावस्य प्रकृतेरेकान्तेने निश्चयेन पेशलतया हृद्यतया । अत्रात्मशब्दः स्वरूपवाची तेनात्मानं स्वं रूपं देवी कादम्बर्यात्मना स्वेनैव न कलयति न जानाति । यादृशं भङ्ग्या भणितं वेश्ययावबुध्यते, न तादृशं कुलस्त्रियेति भावः । तदेव दर्शयन्पुनः प्रकारान्तरेणात्मदोषं दूरीकुर्वन्नाह - चन्द्रेति । चन्द्रमूर्तेः शशाङकबिम्बस्यालोकेनैव प्रकाशेनैव निश्चेतनस्य चेतनारहितस्य चन्द्रकान्ताख्यस्य शशिमण्यभिधानस्य पाषाणखण्डस्य दृषच्छकलस्यान्भावस्य द्रवीभावस्योपगमनं प्रापणमेव आयत्तं स्वाधीनम् । न पुनस्तत्कराकर्षणं तत्किरणाक्षेपः । नितरामिति । नितरामत्यर्थं पक्षपातिनोऽपि वांजगामिनोऽपि, पक्षे पक्षपातिनोऽपि पक्षकारिणोऽपि, मधुकरस्य भ्रमरस्याभिगमनमेव संमुखागमनमेवाधीनमायत्तम् । तु पुनरर्थे । मकरन्दलाभे तु मकरन्दप्राप्तौ तु कलिका कोरकस्तामाश्रयतीत्येवंशीला जृम्भैव जृम्भणमेव प्रभवति समर्थीभवति । दिवसेति । दिवसस्य वासरस्य संतापस्तप्तिस्तेन क्लान्तेन पीडितेन कुमुदाकरेण कैरवसमुदायेनोन्मुखता संमुखता करणीया कार्या तं पुनर्विकासयति विकस्वरतां नयति ज्योत्स्ना कौमुदी तयाभिरामा मनोहरा रजन्येव निशैव । निर्भरमिति । निर्भरं यथा स्यात्तथान्तमध्ये सरसस्य भावः सरसता तस्यां सत्यामपि मधुमासो वसन्तस्तस्य लक्ष्मी श्रीस्तस्याः -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 एकान्तपेशलतया अत्यन्तमार्दवेन, अतिधीरतया वा । 2 व्यर्थान्वेषणं व्यर्थायितम् । अत्यन्तमनुकूलस्य, भृशं पक्षपोषकस्य वा, इत्येवार्थः । 3 विकासः ।
पाठा० - १ किमपि. २ अनुरागम्. ३ पुनफ़्रीकृतमदागमन. ४ समुपाहत. ५ तथानया. ६ आत्मना च. ७ आलोकेनापि. ८ जृम्भिका. ९ विकासयति न पुनस्तम्. .
चन्द्रापीडस्य प्रतिवचनम्
उत्तरभागः।
519