________________
मातृगृहस्य पृष्ठतस्तिष्ठति । पृच्छति च देवीम् - 'किमेभिः कथितम् ? जीवति मे वत्सो वैशम्पायनः ? स्वस्थशरीरो वा ? ढौकितो वा पुनर्युवराजस्य । क्व वर्तते । तावागमिष्यतो वा कियद्भिर्दिवसैः' इति । राजा तु तदुपरतिवार्ताया अपि कष्टतममाकर्ण्य दीर्ण इव शुचा, शतगुणीभूतशोकोत्प्लुताङ्गी विलासवतीमवादीत् - 'देवि, न श्रुतं किंचिदपि वत्सयोः प्रियसख्या ते । अन्यतश्च श्रुत्वा कदाचिज्जीवितेनैव वियुज्यते । तदुत्तिष्ठ । स्वयमेव धैर्यमालम्ब्य सर्ववृत्तान्तानुकथनेन संस्थापय प्रियसखी तेथा यथार्यशुकनासेन सह यातव्यम्' इत्येवमुत्थाप्य सपरिजनां विलासवती व्यसर्जयत् । आत्मनापि शुकनासेन सह गमनसंविधानमकारयत् ।
अथ तथा प्रस्थिते राजनि राजानुरागाच्चन्द्रापीडस्नेहेन चाश्चर्यदर्शनकुतूहलाय प्रथमगतपितृपुत्रभ्रातृमित्रस्वजनदर्शनाय च गृहरक्षकवर्जमुज्जयिन्याः सकल एव लोको गन्तुमुदचलत् । राजा तु शीघ्रगमनविघातहेतून्समस्तानेव निवर्त्य प्रलघुपरिकरः पिबन्निव पन्थानम्, एकदिवसेनैव परापतितुमीहमानः, स्तोकत एवाध्वनः प्रभृत्युत्ताम्यता हृदयेन ‘कियत्यध्वन्ययापि वर्तामहे, कति -
***********
गता न प्राप्ता । तदेषा मनोरमा मातृगृहस्य पृष्ठतः सदनस्य पृष्ठिविभागतस्तिष्ठति स्थितास्ते । देवीं विलासवती च पृच्छति प्रश्नं करोति । एभिलेखहारिभिः किं कथितं किं प्रतिपादतं सदेशहारकैः किमुक्तम् । मे मम वत्सो वैशम्पायनो जीवति प्राणिति स्वस्थं नीरुजं शरीरं यस्यैवंभूतो वा ढौकितो वा मिलितो वा पुनर्युवराजस्य चन्द्रापीडस्य । क्व वर्तते तिष्ठति । कियद्भिर्दिवसैस्तौ द्वौ चन्द्रापीडवैशम्पायनावागमिष्यत आगमनं करिष्यत इति । राजा तु तदुपरतिवार्ताया मृत(ति)वार्तायाः किंवदन्त्या अपि केष्टतममतिकष्टं समाकर्ण्य शुचा दीर्ण इव शीर्ण इव शतगुणीभूतो यः शोकस्तेनोप्लुतं व्याप्तमग यस्याः सैर्वविधां विलासवतीमवादीदब्रवीत् । हे देवि, ते तव प्रियसख्या मनोरमया वत्सयोः पुत्रयोश्चन्द्रापीडवैशम्पायनयोः किंचिदपि न श्रुतं नाकर्णितम् । अन्यतः परेभ्यः श्रुत्वाकर्ण्य कदाचिज्जीवितेनैव प्राणितेनैव वियुज्यते मुच्यते । तत्तस्मात्कारणादुत्तिष्ठोत्थानं कुर्वभ्युत्थानं निष्पादय । स्वयमेवात्मनैव धैर्यमालम्ब्य सर्ववृत्तान्तस्य समग्रोदन्तस्यानुकथनेन पश्चात्कथनेन प्रियसखीं तथा संस्थापय संस्थापनां कुरु यथार्यशुकनासेन सह यातव्यं गन्तव्यं भवति । इत्येवंप्रकारेणोत्थाप्य सपरिजनां सपरिच्छदां सपरिवारां विलासवतीं व्यसर्जयत्तत्र गमनायाज्ञां दत्तवान् । आत्मनापि शुकनासेन सह गमनसंविधानं प्रयाणसामग्रीमकारयच्चलनविधिं व्यधापयनिष्पादयत् ।
अथ तथा प्रस्थिते तेन प्रकारेण चलिते राजनि नृपे, राज्ञोऽनुरागात्स्नेहाप्रीतेः, चन्द्रापीडस्य स्नेहेन प्रेम्णा चाश्चर्यस्य दर्शनमवलोकन तस्मिन्कुतूहलं कौतुकं तस्मै, प्रथममादौ गता ये पितरो जनकाः, पुत्राः सुताः, भ्रातरो बान्धवाः, मित्राणि सुहृदः, स्वजना ज्ञातयः, तेषां दर्शनायावलोकनाय च गृहरक्षकवर्जं सद्मरक्षकान्विहायोज्जयिन्या विशालायाः सकल एव लोको गन्तुं गमनायोदचलदुदपतत् । राजा तु नृपोऽपि शीघ्रं यद्गमनं तस्य विधातहेतगमनप्रतिबन्धकारिणः समस्तानेव सर्वानेव निवर्त्य विसW. प्रलघपरिकरः स्वल्पपरिवारः पन्थानं मागं पिबनिव पान कर्वन्निव । एकदिवसेनैव परापतितं प्राप्तमीहमानोऽभिलषमाणोऽभिवाञ्छमानः स्तोकत एवाध्वनो मार्गाप्रभृति च हृदयेनोत्ताम्यतोत्तपता वक्षसोत्तपताद्यापि कियत्यध्वनि वर्तामहे - - - - - - - - - - टिप्प० - 1 मरणवार्तातोऽपि अतिकष्टकरं मनोरमाया वाक्यं समाकयेत्यर्थः । उत, न केवलं वैशम्पायनस्य मरणमेव, परं ततोपि कष्टतरं महाश्वेतोपसर्पणादिकं समाकर्येत्यर्थः ।
-
-
-
-
-
-
-
पाठा० -१ का वार्ता क्व वा वर्तते. २ उत्प्लुताक्षीम. ३ वत्सयोः कृते किंचिदपि. ४ संस्तम्भय. ५ तथापि. ६ निर्वर्त्य.
(सपरिकरस्य राज्ञो गमनम् ।
उत्तरभागः।