________________
कदाचिद्गुणीभवत्येवमयमविनयनिष्पन्नो दोष एव । आनीयतां तावदसौ । बुद्ध्यामहे किमर्थमयमेवंविधस्तस्य वयसोऽनुचितोऽपि संवेग उत्पन्नः । ततो यथायुक्तं विधास्यामः ।'
इत्युक्तवति तारापीडे पुनः शुकनासोऽभ्यधात्- ' अत्युदारतया वत्सलत्वाच्चैवमादिशति देवः । अन्यदतः परं किमिवास्य विरूपकं भवेत्, यद्युवराजमुत्सृज्य क्षणमप्यन्यत्रावस्थानमात्मेच्छया चेष्टितम् ।'
इत्युक्तवति शुकनासे कशयेवान्तस्ताडितो दोषसंभावनयाऽनया पितुरुद्वाष्पदृष्टिरुपविष्ट एवोपसृत्य चन्द्रापीडः शनैः शनैः शुकनासमवादीत् - 'आर्य, यद्यपि निरुक्तितो वेद्मि न मदीयेन दोषेण नागतो वैशम्पायन इति, तथापि तातेन संभावितमेव । कस्य वापरस्य संभावना नोत्पन्ना । मिथ्यापि तत्तथा यथा गृहीतं लोकेन, विशेषतो गुरुणा । प्रसिद्धिर
·
अपि गुणे निक्षेपमाशङ्कयन्नाह - कदाचिदिति । एवं तादृक्कारणमपेक्ष्यायमविनयनिष्पन्त्रोप्रश्रयजनितो दोष एव कदाचिद्गुणीभवति । गुणः स्यादित्यर्थः । अथ कर्तव्यमाह - आनीयतामिति । तावदादावसौ वैशम्पायन आनीयतामानयनविषयीक्रियतामिति । बुद्ध्यामहे जानीमहे । वयमिति शेषः । अयमेवंविध ईदृशस्तस्य वैशम्पायनस्य वयसोऽवस्थाया अनुचितोऽप्ययोग्योऽपि किमर्थं किंप्रयोजनाय संवेगः सर्वपरित्यागलक्षण उत्पन्नः प्रादुर्भूतः । ततस्तत्प्रयोजनं ज्ञात्वैव यथायुक्तं यथोचितं तद्विधास्यामः करिष्यामः ।
इति पूर्वप्रतिपादितप्रकारेण तारापीड उक्तवति सति पुनर्द्वितीयवारं शुकनासोऽभ्यधादब्रवीत् । किमभ्यधादित्याशयेनाह - अतीति । अत्युदारस्य भावोऽत्युदारता तयातिस्फारतया वत्सलत्वाच्च हितकारित्वाच्च देवस्तारापीड एवं पूर्वप्रतिपादितमादिशति कथयति । अनेन विरुद्धं न कृतमिति नृपोक्तं प्रतिक्षिपन्नाह - अतः परमिति । अतः परमन्यद्भवदपि किमिव विरूपकं विरुद्धं भवेत् । एतदेव विशदीकुर्वन्नाह - यदिति । यद्यस्माद्धेतोर्युवराजं चन्द्रापीडमुत्सृज्य त्यक्त्वात्मेच्छया स्वातन्त्र्येण क्षणमन्यत्रान्यस्मिन्स्थलेऽवस्थानमुपवेशनमाचेष्टितमाचरितम् । अतः परं विरुद्धं किं भवेदित्यर्थः ।
इति शुकनास उक्तवति कथितवति सत्यनया पितुर्दोषसंभावनया कशयेव चर्ममय्या रज्ज्वेवान्तर्मध्ये ताडितो व्यथित उदूर्ध्वं बाष्पो नेत्राम्बु यस्यामेवंविधा दृष्टिर्यस्यैवंभूत उपविष्ट एवासीन एवोपसृत्योपसरणं कृत्वा चन्द्रापीडः शनैः शनैर्मन्दं मन्दं शुकनासमवादीदब्रवीत् । किमवादीदित्याशयेनाह - आर्य इति । हे आर्य हे पूज्य, यद्यपि निरुक्तितस्त्वदुक्तित एवाहं वेद्मि जानामि । न मदीयेन मामकीनेन दोषेण वैगुण्येन वैशम्पायनो नागत इति, तथाप्येवं सत्यपि तातेन पित्रा संभावितमेव संभावनाविषयीकृतमेव । मद्वैगुण्यमिति शेषः । अपरस्य कस्य वा संभावना नोत्पन्ना । मिथ्यासंभावने न दोष इत्याशयेनाह - मिथ्यापीति । मिथ्याप्यसत्यमपि तत्तथा सत्यमेव । तत्रार्थे हेतुमाह-यथेति । यथा गृहीतं यथा श्रुतं लोकेन जनेन, विशेषतो गुरुणा पित्रादिना, निर्णीतेरर्वाक्तत्तथैव स्यात् । परमार्थतस्तदसत्यं जनप्रसिद्धौ किं स्यादित्याशयेनाह - प्रसिद्धिरिति । दोषो वैगुण्यम्, गुणा औदार्यादयः, त एवाश्रय आधारो यस्या एवंविधा प्रसिद्धिः प्रवादोऽर्फलवती निःप्रयोजनात्रास्मिल्लोकेऽयशसेऽकीर्तये स्यात् । ननु दोषाश्रयप्रसिद्धेरयशोजनकत्वं प्रसिद्धं परं गुणाश्रय
578
टिप्प० - 1 ‘प्रसिद्धिरत्राऽयशसे यशसे वा दोषगुणाश्रया फलति' इत्येव पाठः । दोषगुणौ आश्रित्य उत्पन्ना प्रसिद्धिः (कश्चित्प्रवादः) अत्र संसारे अयश यशसे वा फलति कल्पते । दोषाश्रया प्रसिद्धिः अयशसे, गुणाश्रया तु यशसे प्रभवतीति सुस्पष्ट आशयः ।
पाटा० - १ गुणो भवति. २ इतः परम् ३ यदद्य ४ निरुक्ततः
-
कादम्बरी ।
कथायाम्