________________
त्रायशसे यशसे वा दोषगुणाश्रया वाऽफलवती । परत्र फलदायी कुत्रोपयुज्यते परमार्थः ? तदस्या दोषसंभावनायाः प्रायश्चित्तमार्यो दापयतु मे वैशम्पायनानयनाय गमनाभ्यनुज्ञां तातेन । नान्यथा मे दोषशुद्धिर्भवति । किं कारणम् । अनागते तु वैशम्पायने तातस्यानया संभावनया नापगन्तव्यम् । अपंगते च मयि वैशम्पायनेनोगन्तव्यम् । यद्यसावन्येनानेतुमेव पार्येत तदा तातस्याप्यनुल्लङ्घनीयवचनैरेवनिपतिसहसैरानीत एव स्यात् । तदार्यः कारयतु मे गमनानुज्ञया प्रसादम् । न च तुरंगमैर्गच्छतो मे दृष्टायां भूमौ स्वल्पोऽपि गमनपरिक्लेशः । वैशम्पायनमादायागतमेव मामवधारयत्वार्यः । अपि च बाह्यखेदादसह्योऽन्तःखेद एवैतद्वियोगजन्मा । अनुपदमेव स्कन्धावारमादायागच्छतीत्यमुना हेतुना विना तेनागतोऽहम् । अन्यथा जन्मनः प्रभृति कदा मया गतं स्थितं क्रीडितं हसितं पीतमशितं सुप्तं प्रबुद्धमुच्छ्रसितं -
***********
प्रसिद्धेः कथं तज्जनकत्वमिति चेन्न । अयं गुणवान्प्रसिद्धः, परमनेनेत्थं विहितम्, तर्हि महान्पापिष्ठः, इत्यायकीर्तिसद्भावात् । परत्र परलोके फलदायी फलप्रदः परमार्थस्तत्त्वं कुत्रोपयुज्यते कुत्रोपयोगी स्यात् । न कुत्रापीत्यर्थः । दोषसंभावनाया नैर्मल्योपायं प्रदर्शयन्नाह - तदस्या इति । तदिति तत्तस्माद्धेतोरस्याः पूर्वोक्ताया दोषसंभावनाया वैशम्पायनस्यानयनं तस्मै गमनं यानं तस्याभ्यनुज्ञाज्ञा तां प्रायश्चित्तं प्रायः पापं तस्य चित्तं विशोधनम् । 'प्रायः पापं विनिर्दिष्टं चित्तं तस्य विशोधनम्' इति कृष्णभठ्या प्रक्रियाटीकायाम् । तातेनार्यो दापयतु । प्रेरणे द्विकर्तृकता प्रसिद्धैवेत्यदोषः । एतद्व्यतिरेकेण न शुद्धिरित्याशयेनाह - नान्यथेति । मे मम दोषशुद्धिर्नान्यथा नान्यप्रकारेण भवति । तत्र किं निदानमित्याह - किमिति । तत्र किं कारणं किं निमित्तम् । तदेव स्पष्टयन्नाह - अनागत इति । तु पुनरर्थे । अनागतेऽनायाते वैशम्पायने तातस्य पितुरनया संभावनया नापगन्तव्यं न दूरीभवितव्यम् । अपगते च याते च मयि सति वैशम्पायनेनागन्तव्यम् । आयातव्यमित्यर्थः । अन्यः कश्चित्तदानयनं करिष्यतीत्यारेकां दूरीकुर्वन्नाह - यदीति । यद्यसौ वैशम्पायनोऽन्येन मदितरेणानेतुमेव पार्येत शक्येत, तदा तातस्यापि तारापीडस्याप्यनुल्लङ्घनीयमनाक्रमणीयं वचनं वचो यैरवंभूतैरवनिपतिसहसैरानीत एव स्यात् । तत्तस्मादार्यो गमनस्यानुज्ञयाज्ञया प्रसाद प्रसन्नतां कारयतु । तातेनेति शेषः । तव गच्छतो भूयान्क्लेशो भावीत्याशयेनाह - नचेति । दृष्टायां निरीक्षितायां भूमौ तुरंगमैरश्चैर्गच्छतो व्रजतो मे मम स्वल्पोऽपि गमनपरिक्लेशः प्रयाणखेदो न च स्यात् । आर्यो भवान्वैशम्पायनमादाय गृहीत्वागतमेवायातमेव मामवधारयत्वाकलयतु । बाह्यखेदापेक्षयाभ्यन्तरखेदाधिक्यं प्रदर्शयन्नाह - अपि चेति । बाह्यखेदादेतद्वियोगजन्मा वैशम्पायनविरहोत्पनोऽन्तःखेद एवासह्योऽसहनीयः । तर्हि तं मुक्त्वा त्वमेकाकी कथमत्रागत इत्याशकां निरस्यन्नाह - अनुपदमिति । अनुपदमनुचरणन्यास स्कन्धावारं सैन्यमादाय गृहीत्वागच्छत्यायाति । इत्यमुना हेतुना निमित्तेन तेन वैशम्पायनेन विनाहमागत आयातः । अन्यथेति । उक्तवैपरीत्य आजन्मनः, प्रभृति जन्मदिनादारभ्य कदा वैशम्पायनेन विना मया गतं यातम्, स्थितमवस्थितम्, क्रीडितं रमितम्, हसितं हास्यं कृतम्, पीतं पानं कृतम्, अशितं भक्षितम्, सुप्तं शयितम्, -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 दोषसंभावनायाः प्रायश्चित्त(शोधन)भूतां वैशम्पायनानयनाय गमनाभ्यनुज्ञा तातेन (पितृद्धारा) आर्यो मे दापयतु, इति स्पष्टा योजना प्रहेलिका कृताऽत्र । 2 'एभिरवनिपतिसहसैः' इत्युचितः पाठः । 'एभिः' इत्यनेन स्कन्धावारस्थितैरेतैरानेतुं शक्य एवाऽभविष्यदित्यर्थः स्फुटीभवति ।
पाठा० -१ आगत. २ नागन्तव्यम्. ३ एभिरवनिपति. ४ अभ्यनुज्ञया. ५ कष्टायाम् दुष्टायाम्. ६ स्वप्नेऽपि. ७ एवमेतद्वियोगजन्मा; एव मे तद्वियोगजन्मा. ८ अन्यदा.
चन्द्रापीडस्य यात्रानुमतियाचनम्
उत्तरभागः।
579