SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ वा विना वैशम्पायनेन ? यच्च श्रुत्वा तस्मादेव प्रदेशान्न गतोऽस्मि, तन्मा तेनैव तुल्योऽभूवमिति । तदप्रतिगमनदोषाद्रक्षन्तु मामार्याः । इत्यभिहितवति चन्द्रापीडेऽन्तःपीडोपरागरक्ते रक्ततामरसानुकारिणि मुखे सपक्षपातां षट्पदावलीमिव दृष्टिं निवेश्य ‘एवं गमनाय विज्ञापयति युवराजः । किमाज्ञापयति देवः' इति शनैः शनैः शुकनासो राजानमप्राक्षीत् । तथा पृष्टश्च शुकनासेन किंचिदिव ध्यात्वा तारापीडः प्रत्यवादीत् - 'आर्य, मया ज्ञातमेतेष्वेव दिवसेषु संपूर्णमण्डलस्येन्दोर्योत्स्नामिव करावलम्बिनीं वत्सस्य वधू द्रक्ष्यामीति, यावदयमपरोऽन्तर्हिताशापथो जलदकाल इव प्रत्यूहकारी वैशम्पायनवृत्तान्तो विलोमप्रकृतिना विधात्राऽन्तरा पातितः । यथा चायुष्मताभिहितमेवैतत् । न तमन्यः शक्नोत्यानेतुम् । न च तेन विनायमत्र स्थातुम् । तदवश्यमेव तावन्निस्तरितव्यो व्यसनार्णवोऽमुना पोतेन । वैश - *********** प्रबुद्धं जागरितम्, उच्छ्रसितं वसितं वा । यच्चेति । यद्वैशम्पायनवृत्तान्तं श्रुत्वाकर्ण्य तस्मादेव प्रदेशात्तवृत्तान्तश्रवणस्थलादेवाहं न गतोऽस्मि । तदहं मा तेनैव वैशम्पायनेन तुल्यः सदृशोऽभूवं भवेयमिति । गुरोर्निदेशव्यतिरेकेण तदवस्थाने मद्गमने चोभयोः सादृश्यं स्यादिति भावः । तत्तस्माद्धेतोरप्रतिगमनदोषात्तत्पृष्टिप्रधावनाभावदूषणादार्या मां रक्षन्तु । इत्यभिहितवतीत्युक्तवति चन्द्रापीडेऽन्तःपीडान्ताधिस्तस्या उपराग उपप्लवस्तेन रक्ते लोहितेऽत एव रक्तं यत्तामरसं कमलं तस्यानुकारिण्यनुकरणशील एवंविधे मुख आनने सह पक्षपातेन वाजपातेन तदङ्गीकारेण वा वर्तते या सा सपक्षपाता तामेतादृशीं षट्पदावलीमिव भ्रमरपङ्क्तिमिव दृष्टिं दृशं निवेश्य संस्थाप्यैव पूर्वोक्तप्रकारेण गमनाय यात्रायै युवराजश्चन्द्रापीडो विज्ञापयति विज्ञप्तिं करोति । देवो भवान्किमाज्ञापयति किमाज्ञां दत्त इति शनैःशनैर्मन्दमन्दं शुकनासो राजानं तारापीडमप्राक्षीदपृच्छत् । शुकनासेन तथा तेनैव प्रकारेण पृष्टश्च किंचिदिव क्षणमात्रं ध्यात्वा विमृश्य तारापीडः प्रत्यवादीप्रत्यब्रवीत् । किमब्रवीदित्याशयेनाह - आर्य इति । हे आर्य हे पूज्य, इति मया यावज्ज्ञातमवबुद्धम् । इतियोत्यमाह - एतेष्विति । एतेष्वेव वर्तमानेष्वेव दिवसेषु वासरेषु संपूर्णमण्डलस्यान्यूनबिम्बस्येन्दोश्चन्द्रस्य ज्योत्स्नामिव करावलम्बिनी हस्तावलम्बिनीं वत्सस्य पुत्रस्य । चन्द्रापीडस्येत्यर्थः । वधं स्नुषां द्रक्ष्याम्यवलोकयामि । तावदयमपरो भिन्नोऽन्तर्हितस्तिरोहित आशा वाञ्छा दिक्च तस्याः पथो मार्गो येनैवंभूतो जलदकाल इव मेघसमय इव प्रत्यूहकारी विघ्नकारी विघ्नजनको वैशम्पायनवृत्तान्तो मन्त्रिसुतोदन्तो विलोमप्रकृतिना प्रतिकूलाभिप्रायेण विधात्रा विधिनान्तरा मध्ये पातित आनीतः । विज्ञप्तिसाफल्यं दर्शयन्नाह - यथेति । यथा येन प्रकारेण चायुष्मता भवताभिहितं प्रतिपादितं तदेतदेवमेवेत्थमेव । तदेव दर्शयति - नेति । तं वैशम्पायनोऽन्य आनेतुमानयनं कर्तुं न शक्नोति । तेन वैशम्पायनेन विनायं चन्द्रापीडोऽत्र स्थातुमत्रावस्थानं कर्तुं न च शक्नोति । तत्तस्माद्धेतोरमुना गमनलक्षणेन पोतेन प्रवहणेन तावदादाववश्यमेव व्यसनार्णवः कष्टसमुद्रो निस्तरितव्यो निस्तारं प्रापयितव्यः । तव प्रसूरपि गमनप्रतिबन्धकारिणी भविष्यतीत्यपि नाशङ्कनीयमित्याह - वैशम्पा - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'रक्षतु मामार्यः' इत्येकवचनमेव ग्रन्थशैलीसमुचितम्, पूर्वमपि 'अवधारयत्वार्यः' इत्यादि प्रोक्तम् । 2 'सपयःपाताम्बुदावलीमिव' इत्यपि पाठो मनोरमः । पयःपातेन (वर्षणेन) सहिताम् मेघावलीमिव, सवदश्रुजलामिति यावत् । 3 करेभ्यः किरणेभ्य आपातिनी ज्योत्स्ना । करे हस्ते आपातिनी (कृतपाणिग्रहणा) वधूः । पाटा० - १ यश्च. २ तस्मात्. ३ चन्द्रापीडेऽन्तःपीडोपरागरक्ततामरसानुकारिणि; चन्द्रापीडेऽपि रागरक्ते रक्ततामरसानुकारिणि. ४ षट्पदालीम्; अम्बुदावलीम्. ५ एव. ६ मे दुष्कृतिना. I IIIIIIIIIII (580 कादम्बरी। कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy