________________
म्पायनप्रत्यानयनाय चावश्यं देव्यपि विलासवती विसर्जयिष्यत्येवैनमिति निश्चयो मे । तद्यातु । किंत्वतिदूरं वत्सेन गन्तव्यम् । तद्गणकैः सहादरादार्यो दिवस लग्नं च गमनायास्य निरूपयतु, संविधानं च कारयतु' इत्येतदभिधाय शुकनासमुद्बाष्पलोचनश्चिरमिवं चन्द्रापीडमालोक्याहूय च विनयावनम्रमंसदेशे शिरसि बाह्वोश्च पाणिना स्पृशन्नादिशत् - ‘वत्स, गच्छ त्वमेव प्रविश्याभ्यन्तरं मनोरमासहिताया मातुरावेदयात्मगमनवृत्तान्तम् ।' इत्यादिश्य चन्द्रापीडमात्मना शुकनासमादाय स्वभवनमयासीत् ।
-
चन्द्रापीडस्तु तामक्लिष्टवर्णां कादम्बरीसंवरणसजमिव गमनाभ्यनुज्ञां हृदयेनोद्वहन्प्रहृष्टान्तरात्माप्यपहर्षदृष्टिः प्रविश्य कृतनमस्कारो मातुः समीपे समुपविश्यात्मदर्शनद्विगुणीभूतवैशम्पायनविरहशोकविह्वलां मनोरमामाश्वास्यावादीत् - 'अम्ब, समाश्वसिहि । वैशम्पायनानयनाय तातेन मे गमनमादिष्टम् । तत्कतिपयदिवसान्तरितं वैशम्पायनाननदर्शनोत्सवमविकल्पं त्वं मामेव विसर्जय' । सा त्वेवमभिहिता प्रत्युवाच - 'तात, किमात्मगमनवचसा
***********
यनेति । वैशम्पायनं प्रत्यानयनाय चानेतुं विलासवती देव्यप्येनं चन्द्रापीडं विसर्जयिष्यत्येव प्रेषयिष्यत्येवेति मे मम निश्चयो निर्णयोऽस्ति । तद्यातु गच्छतु । किंतु वत्सेन मत्सुतेनातिदूरमतिदविष्ठं गन्तव्यं यातव्यम् । तत्तस्माद्धेतोर्गणकैज्र्ज्योतिर्विद्भिः सहादरादार्यो भवानस्य चन्द्रापीडस्य गमनाय दिवसं दिनं लग्नं च मेषादिकं निरूपयतु विचारयतु । च पुनरर्थे । संविधानं गमनसामग्रीं च कारयतु विधापयतु । इत्येतत्पूर्वोक्तं शुकनासमभिधायोक्त्वा उदूर्ध्वं बाष्पो हर्षाश्रु ययोरेतादृशे लोचने यस्यैवंभूतस्तारापीडश्चिरमिव चन्द्रापीडमालोक्य निरीक्ष्याहूय चाह्वानं कृत्वा च विनयेनावनम्रमवनतं चन्द्रापीडमसदेशे स्कन्धदेशे शिरस्युत्तमाङ्गे बाह्वोर्भुजयोश्च पाणिना हस्तेन स्पृशन्स्पर्शं कुर्वन्नादिशत् । हे वत्स, गच्छ व्रज त्वमेव, मनोरमासहिताया मातुर्विलासवत्या अभ्यन्तरम् । गृहस्येति शेषः । प्रविश्य प्रवेशं कृत्वात्मगमनवृत्तान्तमावेदय ज्ञापय । इति चन्द्रापीडमादिश्येत्याज्ञां दत्त्वात्मना स्वयं शुकनासमादाय गृहीत्वा स्वभवनं स्वगृहमयासीदगच्छत् ।
-
चन्द्रापीडस्त्वक्लिष्टः शोभनो वर्णो रक्तपीतादिरक्षरं वा यस्यामेवंविधां कादम्बर्याः संवरणमङ्गीकरणं तस्य सजमिव मालामिव तां गमनाभ्यनुज्ञां यात्रानिर्देशं हृदयेन चेतसोद्वहन्धारयन्प्रहृष्टः प्रमुदितोऽन्तरात्मा यस्यैवंभूतोऽप्यपगतो हर्षो यस्या एतादृशी दृष्टिर्यस्यैवंविधः प्रविश्य प्रवेशं कृत्वा कृतनमस्कारो विहितप्रणामो मातुर्जनन्याः समीपे यथोचितप्रदेशे समुपविश्योपवेशनं कृत्वात्मनः स्वस्य दर्शनेनावलोकनेन द्विगुणीभूतो द्विगुणतां प्राप्तो वैशम्पायनस्य विरहः शोकस्तेन विह्वलां व्याकुलामेवंभूतां मनोरमामाश्वास्याश्वासनां कृत्वावादीदवोचत् । किमुवाचेत्याह - हे अम्ब हे मातः, समाश्वसिह्याश्वासनां कुरु । यतो वैशम्पायनस्यानयनं तदर्थं तातेन पित्रा मे मम गमनं यानमादिष्टं कथितम् । तत्तस्माद्धेतोः कतिपये च ये दिवसा वासरास्तैरन्तरितं व्यवहितं वैशम्पायनस्याननदर्शनं वक्त्रनिरीक्षणं तत्रोत्सवमुत्सवभूतमविकल्पं कल्पनारहितं मामेव त्वं विसर्जय गमनाज्ञां देहि । सा त्विति । सा मनोरमैवममुना प्रकारेणाभिहिता प्रोक्ता सती प्रत्युवाच प्रत्यब्रवीत् । किमुवाचेत्याह - तात । हे तात हे पुत्र, आत्मगमनवचसा स्वप्रयाणवाक्येन किं मां समाश्वासयसि समाश्वासनां करोषि । मे मम । खल्विति निश्चये । त्वयि भवति तस्मिंश्च वैशम्पायने को विशेषस्तदि -
I
टिप्पo - 1 अभ्यन्तरम् (प्रासादस्य ) प्रविश्य, आत्मवृत्तान्तं मातुरावेदय इत्येव ग्रन्थाशयः । 2 'मामेव' इति निरर्थकप्रायम् । अत एव '०त्सवं मामविकल्पं विसर्जय' इत्येव पाठो मनोरमः ।
पाटा० - १ उद्बाष्पलोचनम् २ इह. ३ उत्सुकं मामविकल्पं विसर्जय त्वम्.
(तारापीडस्याऽऽज्ञापनम्
उत्तरभागः ।
581