________________
एवं च विहतसर्वबाह्यप्रतिक्रियस्य हृदयेऽप्यसुखायमानसकलान्यविनोदस्य तामेवाभिध्यायतस्तामेवोठप्रेक्षमाणस्य तामेवाभिलषतस्तामेव पश्यतैस्तामेवालपतस्तामेवालिङ्गतस्तया सह तिष्ठतस्तां प्रकोपयतस्तामनुनयतस्तस्याः पादयोः पततस्तया सह केलिं कुर्वतस्तां रममाणस्य मुक्तसर्वान्यक्रियस्य दिवाप्यनुन्मीलितलोचनस्य रात्रावप्यनुपजातनिद्रस्य सुहृज्जनमर्यैसंभाषयतः कौर्योपगतानप्यजानतो गुरुजैनमप्यनमस्यतो धर्मक्रियामप्यकुर्वाणस्य सुखादप्यनर्थिनो दुःखादप्यनुद्विजमानस्य मरणादप्यबिभ्यतो गुरुभ्योऽप्यपेतलज्जस्यात्मन्यपि विगलितस्नेहस्य किं बहुना कादम्बरीसमागमेऽप्यनुद्यमस्य केवलर्मस्य मुहुर्मुहुर्मूर्च्छार्पेगमच्छलेन जीवितोत्सर्गयोग्यांमिव कुर्वतो विहस्तेनापि प्रतिपन्नविविधोपकरणेन, गलितनयेनपयसाप्युच्छु -
ण्यम्` इत्यन्ये । मणिवेदिकायाः कुट्टिमानि बद्धभूमयो नितम्बेनारोहेण । एवं चेति । एवममुना प्रकारेण विहता निराकृता सर्वबाह्या बहिर्भूता · प्रतिक्रिया प्रतीकारो यस्य स तस्य । पुनः कीदृशस्य । राज्ञो हृदयेऽपि चित्तेऽप्यसुखायमानो दुःखवदाचरमाणः सकलः समग्रोऽन्यविनोदोSन्यक्रीडा यस्य स तस्य । तां कादम्बरीमेवाभिध्यायतश्चिन्तयतः । तामेवोठप्रेक्षमाणस्योत्प्रेक्षाविषयीक्रियमाणत्योट्याबल्येन विलोकमानस्य । तामेवाभिलषतोऽभिवाञ्छतः स्पृहयतः । तामेव पश्यतो विलोकयतः । तामेवालपतः संभाषणं कुर्वतस्तामेवालापं कुर्वतः । तामेवालिङ्गतः परिष्वजत आलिङ्गनं कुर्वतः । तया गन्धर्वराजपुत्र्या सह तिष्ठतः स्थितिं कुर्वतः । तां प्रकोपयतो रोषयतः । तामनुनयतः प्रसन्नीकुर्वतः । तस्या गन्धर्वपुत्र्याः पादयोः क्रमयोश्चरणयोः पततः पतनं विदधतः । तया सह केलिं रतिक्रीडां कामकेलिं प्रेमक्रीडां कुर्वतः । रममाणस्य क्रीडां कुर्वतः । मुक्तास्त्यक्तास्त्याजिताः सर्वाः समग्रा अन्यक्रिया इतरव्यापारा येन स तस्य मुक्तसर्वान्यक्रियस्य । दिवापि वासरेऽपि दिवसेऽप्यनुन्मीलिते मुद्रिते लोचने यस्य स तथा तस्य । रात्रावपि निशायामपि यामिन्यामप्यनुपजाताऽप्राप्ता नागता निद्रा प्रमीला यस्य स तथा तस्य । सुहृज्जनमपि मित्रजनमपि वल्लभजनमप्यसंभाषयतोऽनालापयतः । कार्यार्थमुपगतं प्राप्तमप्यजानतोऽज्ञातवतः । गुरुजन पूज्यजनमपि वृद्धजनमप्यनमस्यतो नमस्कारमकुर्वतः । धर्मक्रियामपि सुकृतकृत्यान्यपि पुण्यकृत्यान्यप्यकुर्वाणस्याविदधानस्य । सुखादपि सौख्यादप्यनर्थिनोऽनभिलाषुकस्य । दुःखादपि कृच्छ्रादपि कष्टादप्यनुद्विजमानस्यानुद्वेगं प्राप्यमाणस्य । मरणादपि मृत्योरप्यबिभ्यतो भयमकुर्वतः । गुरुभ्योऽपि धर्मोपदेशकेभ्योऽप्यपेतलज्जस्य विगतत्रपस्य त्यक्तलज्जस्य । आत्मन्यपि स्वस्मिन्नपि विगलितो गतः स्नेहो हार्दं यस्य स तथा तस्य । किं बहुना कथनेन । कादम्बरीसमागमेऽप्यनुद्यमस्यानुद्यतस्य गतोद्यमस्य केवलमस्य राज्ञो मुहुर्मुहुवारंवारं मूर्च्छाया मोहस्योपगमच्छलेनागमनमिषेण जीवितस्योत्सर्गस्त्यागस्तस्य योग्यामिव कुर्वतो विहस्तेनापि व्याकुलेनापि प्रतिपन्नमङ्गीकृतं विविधमुपकरणं तन्त्रं येन स तेन । अत्रापिशब्दो विरोधालंकृतिद्योतनार्थः । यो विहस्तो भवति स प्रतिपन्नोपकरणो न स्यादिति विरोधः । तत्परिहारस्तु विहस्तो व्याकुल इत्यर्थात् । ‘विहस्तव्याकुलौ व्यग्रे' इति हैमः । गलितं सस्तं नयनपयो नेत्रजलं यस्यैवंभूतेना
टिप्पo - 1 ल्यब्लोपे पञ्चमी । सुखजनकं प्राप्यापि अनर्थिनः अर्थमभिलाषं न वहतः, इत्यर्थः । 2 जीवितोत्सर्गयोग्यां कां कुर्वतः ? 'मुहुर्मूर्च्छापगमनच्छलेन जीवितोत्सर्गयोग्यामिव तनुं कुर्वतः' इति पाठः । अस्य बाह्यस्तापप्रतीकारो विहतोभवत्, तथा आन्तरिकश्चापि लज्जानमनादिको व्यापारो निवृत्तः । किं बहुना, कादम्बरीप्राप्त्युद्य मोपि विगतः । ततश्च शून्यात्मकस्यास्य तनुः त्यागयोग्या जातेत्यर्थः । अत एव विहस्तेत्यादिविशेषितेन आप्तपरिजनेन उपचर्यमाणस्यापि देहः काष्ठमयो जातः, यस्य हि कामानलो दाहहेतुर्बभूव, कथाशेषतां जगामेति सर्वस्याशयः ।
-
पाठा० - १ उत्प्रेक्ष्यमाणस्य २ लिखतः ३ तामेव लपतः; तामालपतः ४ असंभाषितः. ५ कार्यापगतमपि ६ गुरून्. ७ अस्नेहस्य. ८ एव. ९ उपगमन. १० इव तनुम्. ११ सलिलेन.
शुकस्य राज्ञश्च शरीरत्यागः
उत्तरभागः ।
697