________________
व्याधतकेसरसटाविकरालवक्र हस्तानविस्फुरितशखगदासिचक्रम् । आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि ॥२॥ आर्यं यमर्चति गृहे गृह एव लोकः पुण्यैः कृतस्य यत एव ममात्मलाभः ।
*********** पाधिकसकललोकाभीष्टार्थदायकत्वेन प्रसिद्धावम्बाशंकरौ नमस्कुर्वे इत्यर्थः । अन्यतरनमस्कारेणैवाभीष्टसिद्धावुभयोपादानं शक्तेर्वागात्मकत्वाद्भगवतोऽर्थात्मकत्वादविकलशब्दार्थपरिस्फूर्त्यर्थमिति बोध्यम् । अहमित्यप्रयुञ्जानेन व्यङ्ग्यार्थ एव प्राधान्येन निरूप्यत इति ध्वनितम् । निर्गुणस्य वस्तुनो नमस्काराद्ययोग्यतया परमेश्वरपदोपादानेनैव तत्सिद्धे निगरणार्थकगिरिपुत्रीसाहित्येन कारणगुणा हीति न्यायेन तस्या अपि तथात्वात्तदाराधकस्यानायासेनैव वाणीनिगरणं भवतीति सूचितम् । तच्छब्दसंबन्धिभूतं यच्छब्दार्थमाह - ययोर्देहद्वयार्धघटनारचितमेक शरीरम् । अस्तीति शेषः । ययोः पार्वतीपरमेश्वरयोदेहद्वयस्य स्त्रीपुरुषरूपदेहद्वयस्यार्धं स्त्रीदेहार्धं पुरुषदेहार्धं च तयोर्घटना संघट्टस्ताभ्यां वा घटना निर्माणं तेन रचितम् । स्वयं निष्पादितमित्यर्थः । ननु विजातीयोत्पन्नत्वेन कथमेकत्वमित्यत आह - अन्विति । अनुपलक्षितोऽप्रतीयमानः संधिः परस्परसंधानम् । संयोजनमिति यावत् । तत्कृतो भेदः स्त्रीत्वपुंस्त्वरूपो यस्येति समासार्थः । द्व्यणुकादिप्रक्रमेणारम्भे स्यादयं दोषः । अस्य चार्धनारीश्वरलीलाविग्रहस्यैकस्यैवोपलम्भाद्भेदप्रत्ययाभावादिति भावः । एतेनोत्तरमात्मकृत्या संधितायाः पितृपूर्वकृतेरर्धनारीश्वरविग्रहवदभेदः संदर्भशुद्ध्या सूचितः । तेनालौकिकचमत्कारिता च । नतिफलं दर्शयति - सुदुर्घटेति । सुदुर्घटः कादम्बरीप्रत्यागतपत्रलेखाकथिततत्सदेशानां किंचिद्ग्रथनकाल एव दैवात्परं लोकं गते बाणेऽन्येन केनापि कविना तथा विरचयितुमशक्यः कथापरिशेषः । 'कृदभिहिते' इति न्यायेन परिशिष्यमाणा कथेत्यर्थः । तत्सिद्ध्यै स्वरूपनिष्पत्त्यै अयं भावः - पितुरूपरमे तत्कृतावुत्तरकथाविच्छेददर्शना दसमाप्तिरूपकलङ्कदूरीकरणाय पितृप्रसादप्राप्तवाग्वैभवस्तत्पुत्रस्तत्समाप्त्यै स्वयं यत्नं कृतवान् । स च तादृशपुरुषधौरेयाराधनं विना न सिद्ध्यतीति । एवंविधाम्बेश्वरसद्भावे प्रमाणमाह - सृष्टेरिति । सृष्टेर्जगतो गुरू पितरौ । उत्पत्तिमनिमित्तकारणभूतावित्यर्थः । नन्वीश्वरस्यैव निमित्तत्वं श्रुतं नाम्बाया इति चेत्, न तनीयांसमित्यायुक्त्यवष्टम्भेन शक्तिरहितस्य तत्रासामर्थ्यावधारणादिति दिक् ॥१॥
विघ्नसमसंख्यमङ्गलस्य कारणत्वावधारणाहुविघ्नशङ्कया कृतं नतिरूपं मङ्गलान्तरमुपनिबध्नाति - व्याधूतेति । तं नारायणमपि नमामीत्यन्वयः । तमङ्गीकृतमत्स्याद्यवतारं निरस्तसमस्तदुःखं नारायणमपि क्षीरशायिनमपि । एतेन स्वस्य तत्रागम्यत्वं सूचयति । नमामि । प्रह्वीभवामीत्यर्थः । नन्वगम्यत्वे कथं नमस्करणीयतेत्यत आह - येनेत्यादि । क्षीरशायिना स्वसेवार्थं नृसिंहरूपं परस्परविरुद्धजात्याश्रयं सगुणस्वरूपमाविष्कृतम् । प्रकटीकृतमित्यर्थः । एतेन कर्मारब्धत्वं निवारयति । ध्यानार्थं तत्स्वरूपं विशेषणद्वाराह - व्याधूतेत्यादिना । व्याधूतानां कम्पितानां केसराणां स्कन्धवालानां सटाश्रेणयोऽग्रभागा वा ताभिरभक्तानां विशेषेण करालं भीषणं वक्र मुखं यस्येति समासार्थः । तथा हस्ताग्रेषु विस्फुरितानि देदीप्यमानानि शङ्खगदासिचक्राणि पाञ्चजन्यकौमोदकीनन्दकसुदर्शनानि यस्य स इत्यर्थः । चतुर्भुजत्वमनेनोक्तम् । अज्ञानहिरण्यकशिपुध्वंस आद्यविशेषणेन, द्वितीयेन चासेः प्रत्यासन्नवधोपायत्वादितरेषामप्रत्यासन्नवधोपायत्वात्तादृशविघ्नध्वंसः सूचितः । प्रमाणमाह - विश्वेति । सर्वोत्पत्तिमनिमित्तमित्यर्थः ॥२॥ __ आर्यमिति । तं पितरमेवानतोऽस्मीत्यन्वयः । तं प्रसिद्धं पातीति व्युत्पत्त्या सर्वापद्रक्षक जनक बाणमानतोऽस्मि । नमस्कारेणाभिमुखीकरोमीत्यर्थः । एवकारेण नेदं पितृत्वमन्यत्रेति सूचयति । तच्छब्दसंबन्धिनमाह - लोक आर्यं यं गृहे गृह एवार्चतीति । लोकते गुणानिति व्युत्पत्त्या गुणग्राहको जनो गृहे गृह एव । एवकारः प्रातिस्विकतामाह । स्वस्वगृहे आर्य कर्णपथप्राप्तमर्चति । स्तौतीत्यर्थः । श्लेषोपबृंहितामेतद्गवीमाकर्ण्य श्रवणहृदयाह्लाददायितया मौलिमण्डलान्दोलनविरचनेन 'हृदि लग्नेन बाणेन' इत्यादिना । अद्य यावत्सहृदयहृदयः को वा तन्नोररीकरोतीति भावः । अन्यच्च पुण्यैरेव कृतस्य मम यत आत्मलाभः पुण्यैरेव धमैरेव । एतेन धर्ममा -
पाठा० - १ मया.
482
कादम्बरी।
कथायाम्