________________
नैरलंकृता मेदिनी । नाकल्पस्थायि दिशोयायि यशो विप्रकीर्णम् । न गुरवोऽनुवृत्त्या सुखं स्थापिताः । न स्निग्धबन्धूनामुपकृतम् । न प्रणयिनो निर्विशेषविभवतां नीताः । न साधवः परिवर्धिताः । नानुजीविनः संविभक्ताः । ने दृष्टाः श्रुता वाऽङ्गनाः । न जातेन जीवलोकसुखान्यनुभूतानि । न तेन पुरुषार्थसाधनानां धर्मार्थकामानामेकोऽपि हि प्राप्तः । किमेतत्तेन कृतम् ?' इत्याक्षिप्तचेताश्चिन्तयचिरमिव तस्मिन्नेव तरुतले स्थित्वा शून्यहृदयोऽपि यथाक्रियमाणप्रसादसमानसंभावनासंभावितं विसैसर्ज सकलमेव राजकम् । उत्थाय तत्क्षणकृतमुत्तम्भिततुङ्गतरतोरणाबद्धचन्दनमालमुभयपाधै स्थापितोत्पल्लवमुखपूर्णहेमकलशम्, द्वारात्प्रभृति सिक्तमृष्टभूविभागम्, अन्तर्बहिश्च प्रकीर्णसुरभिकुसुमप्रकरम्, इतस्ततः संचरता कर्मान्तिकलोकेन गृहीतविविधभृङ्गारम्, मणिचामरतालवृन्तरत्नपादुकाद्युपकरणपाणिभिरिवनिताभिचाकीर्णम्, वितानतलवर्तिना मदामोदाधिवासितदिगाननेन राजहस्तिना गन्धमादनेन सनाथीक -
***********
नालंकृता न विभूषिता । आकल्पस्थाय्यायुगान्तस्थायि दिशोयायि दिग्गमनशीलं च यशः श्लोको न विप्रकीर्णं न विस्तारितम् । गुरवो हिताहितोपदेष्टारोऽनुवृत्त्यानुकूल्येन सुखं यथा स्यात्तथा न स्थापिता नैकत्र स्थिति कारिताः । स्निग्धाः स्नेहवन्तो ये बन्धवो भ्रातरस्तेषां नोपकृतमुपकृतिर्न कृता । प्रणयिनः सुहृदो निर्विशेषविभवतामशेषैर्यतां न नीता न प्रापिताः । साधवः सज्जना न परिवर्धिता न वृद्धिं प्रापिताः । अनुजीविनः सेवका न संविभक्ता न संविभागीकृताः । न कामुकतया दृष्टा वीक्षिताः श्रुता आकर्णिता वाङ्गनाः स्त्रियः । जातेनोत्पन्नेन सता जीवलोकसुखानि सांसारिकसौख्यानि नानुभूतानि । न भुक्तानीत्यर्थः । तेन वैशम्पायनेन पुरुषार्थसाधनानां पुरुषार्थकरणानां धर्मार्थकामानां मध्य एकोऽप्यन्यतरोऽपि न प्राप्तः । तेन वैशम्पायनेनैतत्किं कृतं किं विहितम् । इति पूर्वोक्तप्रकारेणाक्षिप्तचेता व्याकुलहृदयश्चिरमिव बहुकालसदृशं चिन्तयन्ध्यायंस्तस्मिन्नेव पूर्वोक्त एव तरुतले वृक्षतले स्थित्वा शून्यं हृदयं चेतो यस्यैवंभूतोऽपि यथायोग्यं क्रियमाणा विधीयमाना प्रसादो वस्त्रादिप्रदानम्, समानमत्यादरः, तयोः संभावना चिन्तना तया संभावितं संस्कृतं सकलमेव समग्रमेव राजकं राजसमूह विससर्ज गृहगमनाय निदेशं दत्तवान् । उत्थायोत्थानं कृत्वा तत्क्षणं तत्कालं कृतं विहितमुत्तम्भितं नियन्त्रितं तुङ्गतरमुच्चस्तरं यत्तोरणं तत्राबद्धा चन्दनमाला यस्मिन् । उभयेति । उभयपार्शयोमिदक्षिणयोः स्थापितो विन्यस्त उदूर्ध्वं पल्लवो मुखे यस्यैवंभूतः पूर्णहमकलशो यस्मिन् । द्वाराप्रभृति प्रतोल्या आरभ्य सिक्तः सिञ्चितो मृष्टः शोधितो भूमिभागो यस्मिन् । अन्तर्बहिश्च प्रकीर्णोऽवध्वस्तः सुरभिकुसुमानां सुगन्धपुष्पाणां प्रकरः समूहो यस्मिन् इतस्ततः संचरता भ्रमता कर्मान्तिकलोकेन सेवकजनेन गृहीतो विविधोऽनेकविधो भृङ्गारः कनकालुका यस्मिन् । मणीति । मणिखचिता एताः चामराणि वालव्यजनानि, तालवृन्तानि व्यजनानि, रत्नानां मणीनां पादुका ‘पावडी' इति प्रसिद्धा आदौ यस्मिन्नेतादृशमुपकरणमुपस्करः पाणौ हस्ते यासामेवंविधाभिरिवनिताभिर्वेश्याभिराकीर्णं भृतम् । वितानेति । वितानमुल्लोचस्तस्य तलमधोभागस्तत्र वर्तिना मदस्य दानस्य य आमोदः परिमलस्तेन अधिवासितं सुरभीकृतं दिशै आननं येनैवभूतेन राजहस्तिना नृपकरिणा गन्धमादनेन सनाथीकृतं सहितमेकपाधं यस्मिन् । अपरपार्थेऽपि तदितरपार्थेऽपि कल्पितं विरचितमिन्द्रायुधस्यावस्यावस्थानमुपवेशनस्थलं यस्मिन् । उपवाहयितुं - - - - - - टिप्प० - 1 सम्यक् स्वधनांशदानेन परितोषिताः । 2 एतस्मात्पूर्वं 'नाभ्यागताः कृता निस्तृषः' इति पाठोप्यावश्यकः । अभ्यागताः याचका मनोरथपूरणेन निस्तृषो निर्लालसा न कृता इत्यर्थः । 3 दिशामिति बहुवचनं युक्तम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ विशेष. २ न दृष्टश्रुताभ्यागता. कृताः निस्तृषः न; नाभ्यागताः कृता निस्तृषः. न. ३ काममोक्षाणाम्. ४ चिरमेव. ५ विसw. ६ संमृष्ट. ७ दिङ्मण्डलेन.
(चन्द्रापीडस्य चेतसि चिन्ता
उत्तरभागः।
559