________________
तैकपार्श्वम्, अपरपार्थेऽपि कल्पितेन्द्रायुधावस्थानम्, उपवाह्यकरेणुकाक्रान्तबाह्याङ्गणम्, अशेषद्वारावहितबहुवेत्तृलोकम्, महत्त्वाद्गम्भीरतयानेकसत्त्वशरणतया च महाजलनिधिमनुकुर्वाणम् - तथा हि सवेलावनमिव येमावस्थितानेककरिघटापरिकरण, अन्तःप्रविष्टमहाशैलमिव गन्धमादनेन, सकल्लोलमिव संचरत्संभ्रान्तकान्तिकलोकोर्मिपरम्पराभिः, सावर्तमिव प्राहरिकजनमण्डलावस्थानैः, सलक्ष्मीकमिव वराङ्गनाभिः, सरत्नमिव महापुरुषैः, सहसमालमिव सितपताकाभिः, सफेनपटलमिव कुसुमप्रकरैः, हरिमिवानन्तभोगपरिकरं कायमानमविशत् ।
प्रविश्य चागृहीतप्रतिकर्मतया मलिनवेशाभिरुद्विग्नदीनमुखीभिरितस्ततो वैराङ्गनाभिर्यामिकलोकेन कन्तिकैश्च प्रणम्यमानस्तूष्णीमिवालोककारकेणे मदामोदेनावेदिते निसृष्ट -
***********
योग्या उपवाह्या याः करेणुका हस्तिन्यस्ताभिराक्रान्तं व्याप्तं बाह्याङ्गणं यस्मिन् । अशेषेति । अशेषाणि समग्राणि यानि द्वाराणि तेष्ववहितः स्थापितो बहुवेतृलोको यस्मिन् । महत्त्वादायतत्वाद्गम्भीरतयाऽलब्धमध्यतयानेके ये सत्त्वाः प्राणिनस्तेषां शरणतयाश्रयतया च महाजलनिधि महासमुद्रमनुकुर्वाणं विडम्बमानम् । तत्सादृश्यादिति भावः । तदेव दर्शयन्नाह - तथा हीति । सह वेलावनेन वर्तमानमिव । केन । यामावस्थिताश्चतुष्किकास्थिता या अनेककरिघटास्तासां परिकरेणोपस्करेण । उच्चैस्त्वसाम्यात्करिघटानां वनसाम्यम्; परिकरस्य श्वेतत्वसाम्याद्वेलायाः सादृश्यम् । अन्तःप्रविष्टो मध्यगतो महाशैलो महान्पर्वतो यस्मिन्नेवभूतमिव । केन । गन्धमादनेन । गन्धमादननाम्ना गजेनेत्यर्थः । उच्चत्वकृष्णत्वसाम्याद्गन्धमादनस्य पर्वतोपमानम् । सह कल्लोलेन तरङ्गेण वर्तमानमिव । काभिः । संचरन्त इतस्ततो भ्रमन्तः संभ्रान्ताश्चकिता ये कर्मान्तिकलोकाः सेवकजनास्त एवोर्मिपरम्पराः ताभिः । सहावर्तेन पयसां भ्रमेण वर्तमानमिव । कैः । प्राहरिका ये जनास्तेषां मण्डलेनावस्थानैरुपवेशनैः । सह लक्ष्म्या वर्तमानमिव । काभिः । वराङ्गनाभिर्वरयोषिद्भिः एतेन तासां लक्ष्मीतुल्यता सूचिता । सह रत्नेन मणिना वर्तमानमिव । कैः । महापुरुषैः सत्पुरुषैः । एतेन महापुरुषाणां रत्नसादृश्यमाविष्कृतम् । सह हंसमालया सितच्छदपङ्क्त्या वर्तमानमिव । काभिः । सितपताकाभिः श्वेतवैजयन्तीभिः । तासां हंसपङ्कितसादृश्यादिति भावः । सह फेनपटलेन वर्तमानमिव । कैः । कुसुमानां पुष्पाणां प्रकरैः समूहैः । हरिमिवं कृष्णमिव । अनन्तः । संख्यातुमयोग्यो यो भोगस्तस्य परिकरः परिवारो यस्मिन् । हरिपक्षेऽनन्तस्य शेषनागस्य भोगः शरीरं तदेव परिकरो यस्येत्यर्थः । एवंविधं कार्यमानमविशत् । प्रवेशं चकारेत्यर्थः ।
प्रविश्य च प्रवेशं कृत्वा चागृहीतमनात्तं प्रतिकर्माङ्गसंस्कृतं याभिस्तासां भावस्तत्ता तया मलिनः श्यामो वेषो नेपथ्यं यासां ताभिः । उद्विग्नमुद्धेगं प्राप्तमत एव दीनं स्वल्पतया दृश्यमानं मुखं यासामेवंविधाभिः । इतस्ततः संचरद्भिरिति शेषः । वराङ्गनाभिर्वरयोषिद्भिर्यामिकलोकेन चतुष्किकास्थितजनेन कर्मान्तिकैश्च दासादिभिश्च प्रणम्यमानो नमस्क्रियमाणस्तूष्णीमिव जोषमिवालोककारकेण जनोत्सारकवेत्रिणा मदो दानं तस्यामोदेन परिमलेन चावेदिते ज्ञापिते गन्धमादने गजविशेषे निसृष्टा दत्ता शून्योपयोगरहिता दृष्टिदृग्येनैवंभूतः - - - - - - - - - - - - - - - - - - --
- - - - -
- - - - - - - - - - टिप्प० - 1 अयं लेखकदोषः स्याद् यत् 'वेत्रिलोक' इति स्थाने 'वेत्तृ' इति दृश्यते । अस्तु. वेत्री राजप्रासादे वेत्रदण्डधारी । 2 'सहरिमिवानन्तभोगपरिकरैः' इत्येव पाठो योग्यः । पूर्व महाजलनिधिसाम्यस्य प्रकान्तत्वात् 'हरिमिव' इत्युक्तौ स्वातन्त्र्येण हरेः साम्ये सिद्धे पूर्वप्रकान्तस्य तस्य स्पष्टमसंगतिः । अनन्तैः भोग्यवस्तूनां परिकरैः समारम्भैः सहरिमिव (हरिणा शयानेन नारायणेन सहितमिव) । पक्षेऽर्थष्टीकायाम् । 3 पटमण्डपम् । 4 राज्ञां समीपे 'आलोकय' इति आलोकं दर्शनं जनयति स आलोककारकः तेनेव हस्तिनो मदामोदेन आवेद्यमाने सूच्यमाने ।
पाठा०-१ अवस्थित. २ यामकस्थित. ३ वाराङ्गनाभिः. ४ च.
(560
कादम्बरी।
कथायाम्