________________
विलासवतीमूर्ध्वस्थित एवावादीत् - 'देवि, पश्यैषा त्वमपि वधूमुखावलोकनसुखस्य कृते न ताम्यसीत्युपालभमाने देवीम्, वत्सस्य यौवनारम्भसूत्रपातरेखा, आवयोस्तारुण्यदुर्विलसितनिवर्तनाज्ञा, विजृम्भमाणा श्मश्रुरांगशोभा विवाहमङ्गलसंपादनायादिशति । त्वमपरं किमादिशसीति प्रष्टव्या । तदादिशतु देवी कथ्यमानेऽपि किमपरम् । अद्याप्यपहरसि वदनमन्यतो व्रीडया । पृष्टा वा कर्तव्यं नाज्ञापयसि । वरमातासि संवृत्ता । जानामि चन्द्रापीडस्योपर्यप्रीतिरेषा, यदेवमेतत्कार्येष्वनादरोऽवधीरणा च' इत्येवंविधैर्नर्मप्रायैरालापैः सुखायमानचेताश्चिरमिव स्थित्वा शरीरस्थितिसंपादनाय निरंगमत् ।
चन्द्रापीडोऽपि शुकनासमुखेनैव वैशम्पायनप्रत्युद्गमनायात्मानं मोचयित्वा जननीभवन एव निर्वर्तितशरीरस्थितिर्वेशम्पायनप्रत्युद्गमनसंविधानविनोदेनैव तं दिवसमनयत् । अवतीर्णायां च तस्यां यामिन्यां सुहृद्दर्शनौत्सुक्येन शयनगतोऽपि जाग्रदेव समधिकमिव यामद्वयं -
***********
सवतीमूर्ध्वस्थित एव शुकनासोऽवादीदब्रवीत् । किमवादीदित्याह - देवीति । हे देवि हे स्वामिनि, पश्य विलोकय । एषा विलासवती त्वमपि भवत्यपि वधूमुखस्यावलोकनसुखं निरीक्षणसौख्यं तस्य कृते न ताम्यसि न खेदं करोषि । इति देवी विलासवतीमुपालभमानेवोपालम्भं ददानेव वत्सस्य चन्द्रापीडस्य यौवनारम्भस्य सूत्रपातरेखेव रेखा । नवीनप्रारम्भे शिल्पिभिः सूत्रपातरेखा क्रियत इति सर्वसंमतम् । आवयोः शुकनासराज्ञोस्तारुण्यस्य यौवनस्य दुर्विलसितानि दुश्चेष्टितानि तेभ्यो निवर्तनस्य दूरीभवनस्याज्ञेव आज्ञा । अत्र सर्वत्र रूपकम् । एवंविधा विजृम्भमाणा विस्तारं प्राप्यमाणा श्मश्रुरागशोभा कूर्चरागच्छविर्विवाहलक्षणं यन्मङ्गलं शुभक्रिया तस्य संपादनाय करणायादिशति कथयति । त्वं विलासवत्यपरमन्यत्किमादिशसि कथयसीति प्रष्टव्या पृच्छाविषयीकार्या । तत्तस्माद्धेतोः कथ्यमानेऽऽप्युच्यमानेऽपि किमप्यपरमन्यदेवी किमादिशतु किं कथयतु । अद्यापि वीडया लज्जयान्यतो वदनं मुखमपहरसि तिर्यग्मुखं स्थापयसि । पृष्टा वा पृच्छाविषयीकृता वा कर्तव्यं कृत्यं नाज्ञापयसि नाज्ञां ददासि । त्वं वरमाता संवृत्ता जातासि । अहं जानाम्याकलयाम्येषा चन्द्रापीडस्योपर्यप्रीतिररुचिः, यदेवमेतत्कार्येषु पूर्वोक्तकृत्येष्वनादरोऽनुत्साहोऽवधीरणावज्ञा च । एवंविधैरेतादृशैर्नर्मप्रायैर्वर्करसदृशैः । 'बर्करः पशुनर्मणोः' इति हैमानेकार्थः । आलापैः संभाषणैः सुखायमानं सुखकृच्चेतो यस्यैवंविधश्चिरमिव चिरसदृशं स्थित्वा शरीरस्थितेतेहस्थितेः संपादनं करणं तस्मै निरगमनिर्ययौ ।।
चन्द्रापीडोऽपि शुकनासमुखेनैव, न तु स्वमुखेन, वैशम्पायनस्य प्रत्युद्गमनमभिमुखयानं तस्मा आत्मानं स्वं मोचयित्वा मोक्षणं कारयित्वा जननीभवन एव मातृगृह एव निर्वतिता निष्पादिता शरीरस्थितिदेहधारणात्मिका येन स वैशम्पायनप्रत्युद्गमनस्य संविधानं करणं तदेव विनोदः क्रीडा तेनैव तं दिवसमनयत्प्रापयत् । अवतीर्णायामागतायां तस्यां यामिन्यां रात्रौ सुहृदो मित्रस्य । 'सुहृदुईदौ मित्रामित्रयोः इति निपातः । तस्य दर्शनमवलोकनं तत्रौत्सुक्यमुत्सुकत्वं तेन शयनगतोऽपि शय्याप्राप्तोऽपि जाग्रदेव जागरूक एव समधिकमिवंसमधिकसदृशं यामद्वयं प्रहरयुग्म स्थित्वावस्थानं कृत्वा चन्द्रपादैः शशिकिरणैर्द्विगुणीकृतो द्विगुणतां नीतो मन्मथस्य कन्दर्पस्योत्साहः प्रगल्भता यस्यैवंविधश्चन्द्रापीडो गमनस्य संज्ञा ज्ञापनं तदर्थं यः शङ्खनादो जलजध्वनि - - - - - - - - - - - - - -- - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 आवयोः तव (राज्याः) मम चेत्यर्थः । 2 परिहासबहुलैरित्येवार्थः समुचितः । परिहासस्त्वत्र - चन्द्रापीडस्योपरि तवाऽप्रीतिरित्युक्त्वा उभयोः प्रणयकलहोत्पादनरूपः । 3 अगमयदित्यर्थ उचितः । 4 किञ्चिदधिकं यामद्वयमित्याशयः ।
पाटा० - १ देव. २ त्वमपि च. ३ उत्ताम्यसि. ४ एव. ५ विलसितेच्छाविनिवर्त. ६ राजि. ७ निरगात्.
(चन्द्रापीडस्यौत्सुक्यम् ।
। उत्तरभागः।।
(539)
539