________________
'साधु चिन्तितं देवेन । अनेन तु सहृदयेन हृदये समारोपिता एव सर्वविद्याः, संभाविता एव सर्वाः कलाः, स्वीकृता एव सर्वप्रजाः, गृहीता ऐव सर्वदिग्वधूनां कराः, स्थापितैव निश्चला कुटुम्बिनीपदे राजलक्ष्मीः, ऊद्वैव चतुरुदधिमेखलाकलापभूषणा भूः । किमतः परमवशिष्यते, येनानेन न परिणीयते' इत्यभिहितवति शुकनासे लज्जावनम्रवदनश्चन्द्रापीडश्चकार चेतसि - 'अहो संवादः, येन मे कादम्बरीसमागमोपायचिन्तासमकालमेवेदृशीतातस्य बुद्धिरुत्पन्ना । तद्यदुच्यते - अन्धकारे प्रविष्टस्यालोकः, वनगहनप्रविष्टस्य देशिकदर्शनम्, महार्णवपतितस्य यानपात्राभ्यागमनम्, नियमाणस्योपर्यमृतवृष्टिरिति, तदेतँदापतितं मयि । सर्वथा वैशम्पायनदर्शनमात्रकान्तरिता वर्तते मे कादम्बरीप्राप्तिः' इत्येवं चिन्तयत्येव चन्द्रापीडे क्षितिपतिरुत्तस्थौ । उत्थाय च तमेव विनयावनंतपूर्वकायं समवलम्ब्यासदेशे सकलमेदिनीभारोतहनगुरुणा दोर्दण्डेन शनैः शनैः संचरशुकनासेनानुगम्यमानो विलासवतीभवनमगमत् । गत्वा च ससंभ्रमकृताभ्युत्थानामिन्दूदयावलोकनविलोलामिव समुद्रवेलां -
***********
किमुवाचेत्याह - साध्विति । साधु शोभनं चिन्तितं विचारितं देवेन स्वामिना । सहृदयेन सज्जनेनानेन तु चन्द्रापीडेन हृदये सर्वविद्याः कलादिकाः समारोपिता एव प्राप्ता एव । सर्वाः कला विज्ञानानि संभाविता एव ज्ञाता एव । सर्वप्रजाः समग्रप्रकृतयः स्वीकृता एव । एवाङ्गीकृता एव । सर्वदिग्वधूनां समग्रककुत्रारीणां कराः पाणयो गृहीता एव ग्रहणविषयीकृता एव । कुटुम्बिनीपदे जायास्थाने राज्यलक्ष्मीनिश्चला स्थिरा स्थापितैव न्यस्तैव । चतुरुदधयश्चतुःसमुद्रास्त एव मेखलाकलापो भूषणं यस्यामेवंविधा भूः पृथ्वी ऊदैव परिणीतैव । अतोऽपरमन्यत्किमवशिष्यत उर्वरितं भवति, येनानेन न परिणीयते न पाणिग्रहणं क्रियते । इत्यभिहितवतीत्युक्तवति शुकनासे लज्जया त्रपया अवनम्रं नतं वदनं यस्यैवंविधश्चन्द्रापीडश्चेतसि चित्ते चकाराकरोत् । अहो संवादो विसंवादाभावः । येन कारणेन मे मम कादम्बर्याः समागमोपायचिन्तासमकालमेव तातस्य पितुरीदृशी बुद्धिरुत्पन्ना । तद्यदुच्यते प्रतिपाद्यते जनैस्तदेतन्मय्यापतितमागतम् । तत्किमित्याह - अन्धकार इति । अन्धकारे तिमिरे प्रविष्टस्य निविष्टस्यालोकः प्रकाशः । वनस्यारण्यस्य गहनं गह्वरं तत्र प्रविष्टस्य देशिकदर्शनं स्वदेशोत्पन्नजनावलोकनम् । महार्णवः समुद्रस्तस्मिन्पतितस्य यानपात्रस्य पोतस्याभ्यागमनं प्राप्तिः । प्रियमाणस्य मरणं व्रजत उपर्यमृतवृष्टिः सुधासेक इति सर्वथा सर्वप्रकारेण वैशम्पायनस्य दर्शनमात्रकमवलोकनमात्रकं तेनान्तरिता व्यवहिता मे मम कादम्बरी प्राप्तिर्वर्तते इत्येवं चिन्तयत्येव विचारयत्येव चन्द्रापीडे क्षितिपतिस्तारापीड उत्तस्थावुत्थितवान् । उत्थाय चोत्थानं कृत्वा । तमेवेति । सकला समग्रा या मेदिनी वसुधा तस्या भारो वीवधस्तस्योदहनेन धारणेन गुरुणा गरिष्ठेन दोर्दण्डेन भुजदण्डेन विनयेनावनतो नम्रीभूतः पूर्वकायो देहादिभागो यस्यैवंभूतं तमेव चन्द्रापीडमेवासदेशे स्कन्धप्रदेशे समवलम्ब्यालम्बनीकृत्य शनैः शनैर्मन्दं मन्दं संचरन्ब्रजशुकनासेनानुगम्यमानोऽनुयायमानो विलासवतीभवनं पट्टाराज्ञीसदनमगमज्जगाम । गत्वा चेति । गत्वा च गमनं कृत्वा च ससंभ्रम संभ्रमेण सहकृतं विहितमभ्युत्थानमुत्थानं ययैवंविधाम् । अत एवोत्प्रेक्षते - इन्दूदयस्य चन्द्रोदयस्यावलोकनं निरीक्षणं तेन विलोला चञ्चलां समुद्रस्य जलधेलामिवाम्भसो वृद्धिमिव विला -
- टिप्प० - 1 'आदेशकदर्शनम् इति पाठे मार्गप्रदर्शकस्य दर्शनमित्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ सर्वाः प्रजाः. २ एव दिग्व. ३ बदनेन. ४ तदुच्यते. ५ अन्धकार. ६ अभ्यागमः. ७ प्रियमाणस्येवानने चोपरि. ८ एव. १ अवनम्र..
538
कादम्बरी ।
कथायाम्