SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ दृष्टिः । अरतिरेव नैकाकिन्याः क्षाम्यत्यवस्थानम् । जीवितमेव कण्ठस्थानानापसरति । एवं वदन्तं तमादिदेश विश्रान्तये केयूरकम् । आत्मनापि गमनचिन्तां प्राविशत् । यदि तावदकथयित्वानभिपत्य चरणयोरनाघ्रातः शिरस्यगृहीताशीः सहसानुत्संकलित इव तातेनाम्बयोक्तमपक्रम्य गच्छामि, ततो गतस्यापि मम कुतः सुखम्, कुतः श्रेयः, कुतो वोच्चफैलावाप्तिः, कीदृशी वा हृदयनिर्वृतिः । अथवा तिष्ठतु तावदियमुत्तरकालागामिनी चिन्ता । अपक्रम्य गंत एव कथमहम्, यत्तातेन दुस्तराहवार्णवोत्तरणमहासेतुबन्धादवन्ध्यवाञ्छितफलप्रदानकल्पद्रुमादहितविक्रान्तियशोनिष्कान्तिद्वारार्गलदण्डादशेषभुवनभवनोत्तम्भनस्तम्भात्स्वभुजादवारोप्य मय्येव राज्यभार आरोपितः, तदनाख्याय पदमपि निर्याते मय्यवश्यमपरिमितकरितुरगरथगमनसंक्षोभितधरातलैः, आलोलकदलिकाकाननाकुलीकृतभास्वद्गभस्ति - *********** वपि निद्रा न गच्छतीति भावः । अरतिरिति । एकाकिन्या अद्वितीयाया अवस्थानमरतिरेवाधृतिरेव न शाम्यति न सहते । अरतिरेवैकाकिनी न मुञ्चतीति भावः । जीवितमेवेति । कण्ठस्थानान्निगरणस्थलाज्जीवितमेव प्राणितमेव नापसरति न दूरीभवति । प्राणाः कण्ठगता एव वर्तन्त इति भावः । एवं वदन्तं जल्पन्तं तं केयूरक विश्रान्तये विश्रामायादिदेशादेशं दत्तवान् । आत्मनापि स्वेनापि गमनचिन्ता प्राविशत्प्रवेशं कृतवान् । तच्चिन्ता प्रदर्शयन्नाह - यदीति चेदर्थे । तावदादावकथयित्वानापृच्छ्य चरणयोरनभिपत्यापतित्वा प्रणाममकृत्वा शिरस्युत्तमाङ्गेऽनाघ्रातो न चुम्बितोऽगृहीताशीरनात्ताशीर्वादः सहसैकपदेऽनुत्संकलित इव स्वेच्छाप्रवृत्तपुरुष इव तातेन पित्रा, अम्बया जनन्या उक्तं प्रतिपादितमपक्रम्योलध्य गच्छामि व्रजामि । ततो हेत्वर्थे । तस्माद्गतस्यापि मम कुतः सुखं सौख्यम्, कुतः श्रेयः कल्याणम्, कुतो वोच्चं महद्यत्फलं साध्यं तस्यावाप्तिः प्राप्तिः । कीदृशी हृदयस्य चित्तस्य निर्वृतिः संतुष्टिः । अथवेति पक्षान्तरे । उत्तरकाल आयतिस्तत्रागामिन्यागमनशीला येयं मानसिकी प्रत्यक्षा चिन्तार्तिस्तावत्सांप्रतं तिष्ठत्वास्ताम् । अपक्रम्येति । अपक्रम्य व्यावृत्य गत एव कथमहम्, तातेन पित्रादुःखेन तीर्यत इति दुस्तर एतादृशो य आहवार्णवः संग्रामसमुद्रस्तस्योत्तरण उल्लङ्घने महान्सेतुबन्धःपालिबन्धस्तस्मात् । अवन्ध्यं योग्यं यद्वाञ्छितफलं समीहितसाध्यं तस्य प्रदाने वितरणे कल्पद्रुमः कल्पवृक्षस्तस्मात् । अहितेति । अहितस्य शत्रोर्यद्विक्रान्तियशः पराक्रमाभिख्या तस्य निष्क्रान्तिद्वारं निर्गमप्रतोली तस्मिन्नर्गलादण्डः प्रतिषेधकाष्ठं तस्मात् । अशेषाणि समग्राणि यानि भुवनानि विष्टपानि तान्येव भवनं गृहं तस्योत्तम्भनं धारणं तत्र स्तम्भः स्थूणा तस्मात् । एवंविधात्स्वभुजात्स्वकीयबाहोरवारोप्योत्तार्य मय्येव मद्विषय एव राज्यभार आधिपत्यवीवध आरोपितो न्यस्तः, तत्तस्माद्धेतोरनाख्यायानापृच्छ्य पदमपि क्रममात्रमपि मयि निर्यात निर्गते सत्यवश्यं निश्चितमपरिमिता असंख्या ये करितुरगरथा गजाश्वस्यन्दनास्तेषां गमनं यानं तेन संक्षोभितं क्षोभं प्रापितं धरातलं वसुधातलं यैस्ते तथा तैः । आलोलानि चञ्चलानि यानि कदलिका पताका एव काननानि वनानि तैराकुलीकृता भास्वद्गभस्तयो रविकिरणा यैस्ते तथा तैः । ऊy - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 किं तर्हि मदलेखादयः सख्यस्ता मुञ्चन्ति ? अत एव अरतिस्तामेकाकिनी न त्यजति । सर्वदा तिष्ठतीत्यर्थः । 2 अग्रे आगामित्वात्परोक्षेति वक्तव्यम् । 3 अपक्रम्य स्वेच्छया पलाय्य कथमहं गतः अर्थात् गतः स्याम् गच्छेयम्, यतो हि मदुपरि पित्रा स्वभुजादवतार्य भार आरोपित इत्यग्रेण संबन्धः । पाठा०-१ एवंच. २ एनम्. ३ अनिपत्य. ४ उत्संकलित; उच्छृङ्खलित. ५ एव. ६ अम्बया वाक्रम्य; अम्बया वक्तव्यमपक्रम्य. ७ किं श्रेयः. ८ वा फलावाप्तिः, ९ गम्यत एव कथमयम्. १० तातेन. ११ दुस्तरदुःखार्णव. १२ अवध्य. १३ अहितजन. १४ अशेषभवन. १५ समारोपितः. १६ गज. (केयूरकेण सह संलापः उत्तरभागः। 525
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy