________________
पससार वासरः । अनुरागपताकेवोल्लेसदपरसंध्यावधूत्रपावरणायेव वितस्तार वासतेयी । चन्द्रोदयाभिरामं च समग्रमेव जंगदभवत् । एवं च भरेणावतीर्णायां रजन्यां चन्द्रापीडश्चिराभिलषितमुन्मीलितनयनकुवलयमुत्सस्तनीवीप्रसृतकरनिवारणानुबन्धमनुभूतप्रत्यालिङ्गनसुखर्मभिप्रार्थितसुरतपरिसमाप्तित्रपासुभगं कादम्बरीप्रथमसुरतसुखमनुभूयैकदिवसमिव दशरात्रं स्थित्वा परितुष्टहृदयाभ्यां श्वशुराभ्यां विसर्जितः पितुः पादमूलमाजगाम ।
आगत्य च समकालमेवानुभूतक्लेशं राजलोकमात्मसमं कृत्वा, समारोपितराज्यभारः पुण्डरीके, परित्यक्तसर्वस्वकार्ययोः पित्रोः पादावनुचरन् कदाचिदत्यद्भुतोत्फुल्लनयननैगमजनावलोकितो जन्मभूमिस्नेहादुज्जयिन्याम्, कदाचि द्गन्धर्वराजगौरवेणानुपमरमणीयतममहिम्नि हेमकूटे, कदाचिदमृतपरिमलाधिवाससुरभिशिशिरसर्वप्रदेशहारिणि रोहिणीबहुमानेन चन्द्रलोके, कदाचिदहर्निशोत्फुल्लसहसपत्रनिर्वहोदवाहिनि पुण्डरीकप्रीत्या लक्ष्मीनिवाससरसि,
*****
वोपपादयितुं निष्पादयितुं वासरो दिवसोऽपससारापसृतो बभूव । अनुरागस्यानुरतेः पताकेव वैजयन्तीवोल्लसन्ती यापरसंध्या पश्चिमसंध्या सैव वधूः स्त्री तस्यास्त्रपा लज्जा तस्या आवरणायाच्छादनायेव वासतेयी रात्रिर्वितस्तार प्रससार । चन्द्रोदयेन शशाङ्कप्रकाशेनाभिरामं मनोहरं च समग्रमेव सकलमेव जगदभवत्संजज्ञे । एवममुना प्रकारेण भरेण संभारेणावतीर्णायां संजातायां रजन्यां त्रियामायां चन्द्रापीडश्चिरकालं यावदभिलषितं वाञ्छितमुन्मीलितानि विकसितानि नयनकुवलयानि नेत्रोत्पलानि यत्र तत् । उत्सस्ता शिथिलिता श्लथीजाता या नीव्युच्चयस्तस्यां प्रसृतो विस्तृतो यः करो हस्तस्तस्य निवारणं दूरीकरणं तदेवानुबन्धः प्रतिबन्धो यत्र तदनुभूतं साक्षात्कृतं प्रत्यालिङ्गनसुखं तया दीयमानोपगूहनसातं यस्मिंस्तत्तथा अभिप्रार्थिताभियाचिता सुरतस्य संभोगस्यापरिसमाप्तिर्यस्यामेवंविधा या त्रपा लज्जा तया सुभगं मनोहरमेतादृशं कादम्बर्याः प्रथमं सुरतस्य सुखं सातमनुभूय साक्षात्कृत्यैकदिवसमिव दशरात्रं दशदिवसं स्थित्वास्थाय परितुष्टहृदयाभ्यां संतुष्टचित्ताभ्यां वराभ्यां चित्ररथहंसाभ्यां विसर्जितो दत्ताज्ञः पितुस्तारापीडस्य पादमूलं चरणसमीपमाजगामाययौ ।
आगत्य चागमनं कृत्वा च समकालमेवैकवारमेवानुभूतः क्लेशो दुःखं यैरेवंभूतं राजलोकं नृपजनमात्मसमं निजसदृशं स्वतुल्यं कृत्वा विधाय पुण्डरीके समारोपितो न्यस्तो राजभार आधिपत्यधूर्येन सः । परित्यक्तमुज्झितं सर्वं स्वकार्यं सांसारिककृत्यं याभ्यां तौ माता च पिता च पितरौ । एकशेषः । तयोः पित्रोः पादौ चरणावनुचरन्सेवयन् । कदाचित्कस्मिंश्चिदवसरेऽत्यद्भुतोत्फुल्लनयना विकसितनेत्रा ये नैगमजना वणिग्जनास्तैरवलोकितो वीक्षितो जन्मभूमिस्नेहादुत्पत्तिवसुधाप्रीतेरुज्जयिन्यां विशालायाम् । कदाचित्कस्मिंश्चित्प्रस्तावे गन्धर्वराजस्य गौरवेणात्यादरेणानुपमो मनोहरो रमणीयतमोऽतिशयेन रन्तुं योग्यो महिमा माहात्म्यं यस्मिन्नेतादृशे हेमकूटे । कदाचिद्रोहिणीबहुमाननेन ब्राह्मी.... कारेणामृतस्य पीयूषस्य परिमल आमोदस्तस्याधिवासेन संस्कारेण सुरभिः सुगन्धो यः शिशिरः शीतलः सर्वप्रदेशः समग्रस्थलं तेन हारिणि मनोहरे चन्द्रलोके । कदाचिदहर्निशमहोरात्रमुत्फुल्लानि विस्मेराणि सहसपत्राणि तेषां निवहः समूहो यस्मिन्नेतादृशमुदं जलं वहतीत्येवंशीले । उदकस्योदादेशः । पुण्डरीकप्रीत्या पुण्डरीकस्नेहेन लक्ष्म्या रमाया निवाससरस्यवस्थानसरसि कासारे । क्वचित्
708
-
-
टिप्प० 1 वस्तुतस्तु - 'अनुरागकवोष्णतया (अनुरागेण च अस्तकालिकलौहित्येन च, ईषदुष्णतया च ईषदविनयोन्मुखतया च ) अपरसन्ध्यावधूत्रपावरणायेव वितस्तार तमोवासो वासवी ।' इत्युचितः पाठः । सन्ध्यया सह स्नेहवशात् वासवी (प्राची) अन्धकाररूपं वसनं विस्तारितवती । अन्धकाराविभविन अविनयोन्मुखायाः सन्ध्याया लज्जां निवारयामासेत्याशयः । 2 द्विवचनमुचितम् । 3 प्राप्तसुखं समृद्धियुक्तं च । 4 उदकं जलं वहतीत्येव वक्तव्यम्. पेषंवासेत्यादिना उदकस्योदादेशः ।
पाटा० - १ उल्ललास. २ वा रजनी; तमोवासो वासवी. ३ अप्रार्थित. ४ रमणीयतर; रमणीयता. ५ मोद; निवहौध.
कादम्बरी ।
कथायाम्