________________
कपोलेषु सान्द्रेण शाखिषु तनुना तृणोपलेषु, उल्बणेन तालीवनेषु, यथाधाराश्मपतनमाकर्ण्यमानेन सर्वप्रकारमधुरेण हृदयप्रवेशिना धारारवेणोत्कलिकाकलितो न रात्रौ न दिवा न ग्रामे नारण्ये नान्तर्न बहिर्न वने नोपवने न वर्त्मनि नावासे न वहन तिष्ठन्न वैशम्पायनस्मरणेन न कादम्बरीसमागमानुध्यानेन कथंचिदपि न क्वचिदपि निर्वृतिमेवाध्य
गच्छत् ।
अनधिगतनिर्वृतिश्चातिकष्टतया वज्रानलस्येव जलदसमयेन्धनस्य मदनहुतभुजो भस्मसात्कर्तुमेवोद्यतस्य धीरस्वभावोऽपि प्रकृतिमेवोत्ससर्ज । प्लावितसकलधरातलैर्धाराजलैरप्यशोष्यत । योतितदशदिशा शतहदालोकेनापि मूर्छान्धकारेऽक्षिप्यत । आह्लादितजीवलोकैर्जलदानिलैरप्यदह्यत । पयोभारमेदुरैर्घनैरपि तनुतामानीयत । पाटलितशाद्वलैः शक्रगोपकैरपि पाण्डुतां प्रत्यपद्यत कुसुमधवलैः कुटजैरपि रागपरवशोऽक्रियत । तथापि सकलजगज्जी -
***********
तृणानामुपलाः समूहास्तेषु तनुना तुच्छेन, तालीवनेषल्बणेनोग्रेण, धारयाश्मपतनं यथा भवति तथाकर्ण्यमानेन श्रूयमाणेन, सर्वप्रकारैर्मधुरेण मिष्टेन, हृदयप्रवेशिना चित्तप्रविष्टेन, धारारवेण जलसंपातध्वनिनोत्कलिका हल्लेखस्तेन कलितो व्याप्त एवंभूतश्चन्द्रापीडो न रात्रौ निशायाम्, न दिवा दिवसे, न ग्रामेऽवसथे, नारण्ये वने, नान्तरे मध्ये गृहस्य, न बहिर्गृहादन्यत्र, न वने कानने, नोपवने नगराभ्यर्णवर्तिवाटिकायाम्, न वर्त्मनि मार्गे, नावासे सौधे, न वहन्गच्छन्, न तिष्ठन् स्थितिं कुर्वन्, न वैशम्पायनस्य स्मरणेन, स्मृत्या, न कादम्बर्याः समागमस्य मेलापकस्यानुध्यानेनानुचिन्तनेन कथंचिदपि महता कष्टेन न क्वचिदपि न कुत्रापि निर्वृतिमेव चित्तस्वास्थ्यमेवाध्यगच्छदप्रापत् ।
अनधिगताऽप्राप्ता निर्वृतिश्चित्तस्वास्थ्यं यस्यैवंभूतश्चातिकष्टतयातिकृच्छ्रतया वज्रानलस्येव भिदुराग्नेरिव जलदकालः प्रावृट् तस्य समयोऽवसरः स एवेन्धनमिमा यस्यैवंभूतस्य मदनहुतभुजः कामाग्नेर्भस्मसात्कर्तुमेवोद्यतस्य कृतोद्यमस्य धीरस्वभावोऽपि स्थैर्यप्रकृतिरपि प्रकृतिमेव स्वभावमेव चन्द्रापीड उत्ससर्ज तत्याज । तदेव दर्शयन्नाह - प्लावितेति । प्लावितं जलसात्कृतं सकलं धारातलं यैरेवंभूतैर्धाराजलैरप्यशोष्यत शोष प्राप्तवान् । अपिशब्दः सर्वत्र विरोधालंकृतिद्योतनार्थः । योतिताः प्रकाशिता दश दिशो येनैवंभूतेन शतहदालोकेन विद्युत्प्रकाशेनापि मूर्छा मोहः सैवान्धकारं तमिसं तस्मिन्नक्षिप्यत चिक्षिपे । आह्लादितः प्रमोदितो जीवलोको यैरेवंभूतैर्जलदानिलैझंझावायुभिरप्यदह्यत प्राज्वल्यत । पयोभारेण जलवीवधेन मेदुरैः पुष्टैरपि घनैर्मेधेस्तनुतां क्षीणतामानीयताप्राप्यत । पाटलितानि श्वेतरक्तीकृतानि शादलानि शादहरितानि यैरीदृशैः शक्रगोपकैरप्यग्निरजोभिरपि पाण्डुतां धवलतां प्रत्यपद्यत स्वीचक्रे । 'श्वेतरक्तस्तु पाटलः' इत्यमरः । कुसुमैः पुष्पैः कृत्वा धवलैः शुभैरेतादृशैः कुटजैर्गिरिमल्लिकाभिरपि रागपरवशोऽनुरक्त्यधीनोऽक्रियताकल्प्यत । तथाप्येवं सत्यपि सकल - ---------- टिप्प० - 1 समूहार्थे उपलोऽप्रसिद्धः । अत एव 'तृणोलपेषु तृणेषु उलपेषु (गुल्मायितासु लतासु) 'गुल्मिन्युलप इत्यपि इत्यमरः । 2 अश्मपतने वक्ष्यमाणं माधुर्यं न भवति, अत एव 'यथाधारासंपतनम् इत्युचितः पाठः । 3 न वर्त्मनि नावासे इत्यादि पूर्वं सप्तम्यन्तमुपात्तम्, अग्रेपि 'न क्वचिदपि' इति अधिकरणनिर्देशेनैवोपसंहारः कृत इति ‘स्मरणेन' 'अनुध्यानेन' इति तृतीयान्तपाठः स्थूल एव । 'न वैशम्पायनस्मरणे, न कादम्बरीसमागमानुध्याने, न कथंचिदपि' इत्येव पाठः । 4 ईदृशस्य मदनहुतभुजः अतिकष्टतया अतिक्लेशदायकत्वेन, इत्यन्वयः । 5 'बीरबहुट्टी' इति भाषाख्यातैवर्षाकीटैः । 6 'तथाहि इति पाठ उचितः।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ पल्वलेषु. २ तृणोलपेषु. ३ यथाधारापतन; यथाधारासंपतन. ४ हृदयं प्रविशता धारा. ५ सकलधाराजलैः. ६ तथा च.
(प्रावृषा कुमारस्य वैकल्यम् ।
उत्तरभागः।
599