SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ वेदितश्च शापवृत्तान्त इति संभावयामि' इत्युक्तवत्यां मदलेखायामानन्दनिर्भरा महाश्वेतायै दर्शयित्वा चन्द्रापीडचरणतलनिबद्धजीविताय राजपुत्रलोकायापि दर्शितवती । स तु विस्मयोत्फुल्ललोचनः सर्व एवावनितलनिवेशितशिराः प्रणम्य चन्द्रापीडचरणौ रचिताञ्जलिर्जानुद्वयेनावनौ स्थित्वा कादम्बरी व्यज्ञापयत् - 'देवि, त्वत्प्रभावोऽयं यदेवास्मानपुण्यवतः परित्यज्य दूरं गतस्यापि देवस्य तादृशमेवेदं प्रसन्नेन्दुमण्डलद्युतिहारि वीक्ष्यते वदनम् । तथैव चेदं चरणयुगलमवभाति पुरेव प्रोत्फुल्लतामरसच्छायम् । तथैव च पुनः प्रसादानुभवप्रत्याशालालसं हृदयम् । अन्यच्चैतन्मनुष्यलोकेषु केनं कदा वा दृष्टं श्रुतमनुभूतं वा यदस्माभिः पुण्यवद्भिः इत्यभिहितवति राजलोके ससखीजना संपरिजना चोत्थाय स्वयमेवावचित्य देवतार्चनकुसुमानि स्नात्वा निर्वर्तितचन्द्रापीडशरीरपूजासंस्कारा शरीरस्थितिकरणायादिदेश सकलमेव राजलोकम् । निर्वर्तितस्नानाशने च तस्मिन्नात्मनापि महाश्वेतयोपनीतानि तयैव सह परिवारा फलान्युपभुक्तवती । कृताहारा च पुनस्तथैव चन्द्रापीडचरणावकेनोद्वहन्ती तमपि दिवसमनयत् । *********** वनां करोमि । इत्युक्तवत्यामिति प्रतिपादितवत्यां मदलेखायामानन्देन प्रमोदेन निर्भरा कादम्बरी महाश्वेतायै दर्शयित्वा दर्शनं कारयित्वा चन्द्रापीडस्य चरणतले निबद्धं जीवितं प्राणितं यस्य स तथा तस्मै राजपुत्रलोकायापि दर्शितवती दर्शनं कारितवती । ___ स तु राजपुत्रलोको विस्मयेनाश्चर्येणोत्फुल्ले विकसिते लोचने यस्य सः । सर्व एव समग्र एवावनितले निवेशितं स्थापितं शिर उत्तमाङ्ग येन स तथा । चन्द्रापीडचरणौ प्रणम्य नमस्कृत्य रचिताञ्जलिनियोजितकरो जानुद्वयेन नलकीलयुग्मेनावनौ पृथिव्यां स्थित्वा कादम्बरी व्यज्ञापयद्विज्ञप्तिमकार्षीत् । कां विज्ञप्तिं चकारेत्याशयेनाह - देवीति । हे देवि कादम्बरि, अयं त्वत्प्रभावो भवत्या एव माहात्म्यं यदेवास्मानपुण्यवतः सुकृतरहितान्परित्यज्य दूरीकृत्य दूरं दविष्ठं गतस्यापि प्राप्तस्यापि देवस्य तादृशमेवेदं प्रसन्नं निर्मलं यदिन्दुमण्डलं चन्द्रबिम्ब तस्य द्युतिं कान्तिं हरतीत्येवंशीलं वदनं मुखं वीक्ष्यतेऽवलोक्यते । तथैवेदं चरणयुगलं पादयुग्ममवभाति शोभते । कीदृशम् । पुरेव पूर्ववदेव प्रोत्फुल्ल विकसितं यत्तामरसं कमलं तद्वच्छाया कान्तिर्यस्य तत् । तथैव च पुनः प्रसादस्यानुभवप्रत्याशालाल लम्पटं हृदयं चेतः । अन्यच्चैतन्मनुष्यलोकेष्वैदयुगीनमर्त्यलोकेषु केन वा कदा वा कस्मिन्काले वा दृष्टमवलोकितं श्रुतमाकर्णितं यदस्माभिः पुण्यवद्भिरनुभूतं साक्षात्कृतम् । इत्यभिहितवति कथितवति राजलोके सह सखीजनेन वर्तते या सा ससखीजना, सहपरिजनेन परिच्छदेन वर्तते या सा सपरिजना चोत्थायोत्थानं कृत्वा स्वयमेव देवतानामर्चनं पूजनं तदर्थं कुसुमानि पुष्पाण्यवचित्यावचयं कृत्वा स्नात्वा स्नानं विधाय निर्वर्तितो विहितश्चन्द्रापीडशरीस्य पूजासंस्कारो यया सा । तत्र पूजार्चा, संस्कारोऽधिवासनम् । सकलमेव समग्रमेव राजलोकं शरीरस्य स्थितिर्यस्मात्तच्छरीरस्थितिर्भोजनं तस्य करणं विधानं तदर्थमादिदेशादेशं दत्तवती । निर्वर्तिते विहिते स्नानाशने येन स तथा तस्मिन् । तस्मिंश्च राजलोके सत्यात्मनापि स्वेनापि महाश्वेतयोपनीतान्यानीतानि तया महाश्वेतया सह तथैव सपरिवारा फलान्युपभुक्तवती । कृतो विहित आहारो ययैवंविधा च पुनस्तथैव पूर्ववदेव चन्द्रापीडचरणावङ्केनोत्सङ्गेनोद्वहन्ती धारयन्ती तमपि दिवसमनयद्यापितवती । पाठा० - १ व्यज्ञपयत्। व्यजिज्ञपत्. २ तथैव. ३ प्रसन्नमिन्दुः प्रसन्नप्रभमिन्दुः. ४ अविकारि. ५ प्रणम्यते. ६ पुनःपुनः. ७ अनुभवन. ८ मानुष्येषु एतन्मनुष्येषु. ९ कदा वा; केन कदा. १० सपरिवारा. ११ उचितदेवतार्चनकुसुमा. १२ निवर्तित. १३ उपयुक्तवती. १४ अङ्के कृत्वोद्वहन्ती. 638 कादम्बरी। कथायाम्-)
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy