________________
स्पृशन्ती पार्थस्थितां मदलेखामवादीत् - 'प्रियसखि मदलेखे, न वेद्मि किं रुचेर्वशादुत निर्विकारतति, अहं तु तादृशीमेवेमां तनुमवलोकयामि । तत्त्वमपि तावदादरतो निरूपय' इति । एवमुक्ता मदलेखा तां प्रत्यवादीत् - 'प्रियसखि, किमत्र निरूपणीयम् । अन्तरात्मनो विरहाद्व्यापारमात्रकमस्यामुपरतम् । अन्यत्तादृशमेवेदं व्याकोशशतपत्राकारं मनागप्यनुन्मुक्तं श्रिया वदनम् । तथा च संवेल्लिताग्रभागः स्निग्धः कुन्तलकलापः । तथैवेयमिन्दुशकलानुकारिणः कान्तिर्ललाटस्य । तादृशमेवेदमामुकुलितनीलोत्पलद्युतिहारि कर्णान्तायतं लोचनद्वयम् । तथैव चेावहसतोऽपि विकसिताविवोद्भासितकपोलमूलौ सृक्कोपान्तौ । तादृश एवाभिनवकिसलयच्छविरधरः । तथैव चेदं विद्रुमालोहितनखाङ्गुलीतलं पाणिपादम् । तदेवेदमविगलितसहजलावण्यसौकुमार्याणां सौष्ठवमङ्गानाम् । तत्सत्या सा भारती, कपिञ्जला -
***********
कारालेखितमिव चन्द्रापीडशरीरमवलोक्य निरीक्ष्य शनैःशनैर्मन्दमन्दं पाणिना हस्तेन स्पृशन्ती स्पर्श कुर्वन्ती पार्थस्थितां मदलेखामवादीदभ्यधात् । किमुवाचेत्याह - हे प्रियसखि मदलेखे, अहं न वेद्मि न जाने । किं रुचेर्वशादभिलाषवशतः, उत निर्विकारतया निर्विकृतितया चेति । अहं तु तादृशीमेव पूर्वविलोकितामेवेमां तनुमवलोकयामि पश्यामि । तत्त्वमपि तावदादरतः संभ्रमतो निरूपय विलोकयेति । एवमुक्ता प्रतिपादिता मदलेखा ता प्रत्यवादीप्रत्यवोचत् - हे प्रियसखि कादम्बरी, किमत्र निरूपणीयं विलोकनीयम् । अन्तरात्मनोऽन्तर्वर्तिजीवस्य विरहाद्वियोगाद्व्यापारमात्रक परिस्फुरणादिकमस्यां चन्द्रापीडस्य तनावुपरतं स्थितम् । अन्यत्तादृशमेव पूर्वावलोकितसदृशमेव । एतदेव स्पष्टयन्नाह - इदमिति । व्याकोशं विकसितं यच्छतपत्रं पद्मं तस्याकार आकृतिर्यस्यैवंविधं मनागपीषदपि श्रियानुन्मुक्तमत्यक्तमिदं प्रत्यक्षगतं वदनं मुखम् । 'सहसपत्र कमलं शतपत्रं कुशेशयम्' इत्यमरः । तथा च सवेल्लितश्चञ्चलोऽग्रभागो यस्यैवंभूतः स्निग्धः सचिक्कणः कुन्तलकलापः केशसमूहः । 'चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः' इत्यमरः । तथैव चेयमिन्दुशकलं चन्द्रखण्डमनुकरोत्येवंशीलस्य ललाटस्यालिकस्य कान्तिर्युतिः । तादृशमेवेदमामुकुलितमाकुड्मलितं यनीलोत्पलं नीलपमं तस्यद्युति हरतीत्येवंशीलं कर्णान्तं यावदायतं विस्तीर्ण लोचनद्वयं नेत्रयुग्मम् । तथैव चाहसतोऽपि हास्यमकुर्वतोऽपीमौ विकसिताविव विनिद्राविवोद्भासिते कपोलमूले याभ्यां ताबुद्भासितकपोलमूलौ । एवंभूतौ सृक्कयोरोष्ठप्रान्तयोरुपान्तौ समीपौ । सृक्कशब्दोऽदन्तः क्लीबश्च । 'प्रान्तावोष्ठस्य सृक्किणी' इत्यमरः । तादृश एवाभिनवो नूतनो यः किसलयः पल्लवस्तद्वच्छविः कान्तिर्यस्यैवंभूतोऽधर ओष्ठः । तथैव पूर्ववदेवेदं विद्रुमं हेमकन्दलस्तद्वदालोहितं रक्तं नखा नखराः अङ्गुलयः करशाखास्तलमधोभागः । नखाश्चाङ्गुलयश्च तलं चेतीतरेतरद्वन्द्वः ! एतादृशौ पाणिपादौ यस्य तत् । 'द्वन्द्वश्च प्राणि-' इत्येकवद्भावः । तदेवेदमविगलितमच्युतं यत्सहजलावण्यं स्वाभाविकलवणिमा तेन सौकुमार्याणां मृदूनामङ्गानां हस्तपादानां सौष्ठवं शोभनत्वम् । तत्तस्माकारणात्सा भारती वाणी सत्या यथार्था, कपिज्जलेनावेदितो निवेदितश्च शापवृत्तान्तः सत्य इति संभावयामि संभा -
-
-
-
-
-
-
-
टिप्प० -1 आकार इवाकारो यस्येत्यर्थः । 2 सवेल्लित आकुञ्चित इत्यर्थो वाच्यः । 3 धन्यधन्यो भवान्, 'चिक्कणः' इत्येव मुखारविन्दाद्वक्तव्यम् 'चिक्कणो
- - - - - - मसृणः स्निग्धः' इति ह्यमरः । 4 स्वयमेकवद्भावः सूच्यते, तथापि 'प्राणिपादौ लिख्यते ? अस्पष्टश्च विग्रहः, तस्मात् - 'विद्रुमवदालोहितं नखाङ्गलितलं यस्य तथाविधं पाणिपादमिति वक्तव्यम् । 5 न विगलितं स्वाभाविकं लावण्यस्य सौकुमार्यं येषाम् ।
पाटा० - १ आभाष्येदमब्रवीत् - मदलेखे. २ विरहानव्यापारमात्रकमस्याः परमन्यत्. ३ सकोश. ४ तथायं तथैवायम्. ५ लोचनयुगलम्. ६ एतौ. ७ विहसितो. ८ तथैव चेदम्. ९ अङ्गाना लावण्यम्. १० असौ.
(शरीरस्य निर्विकारतया सर्वेषां प्रमोदः ।
उत्तरभागः।
637