________________
बिम्बेव पौर्णमासी निशा, निशितपरशुपातोत्कम्पिनी लतेव वेपिताधरकिसलया, लिखितेव स्त्रीस्वभावविरुद्धेन चेतसा तस्थौ । तथावस्थितां च तामुन्मुक्तार्तनादा सपादपतनं मदलेखाब्रवीत् - 'प्रियसखि, प्रसीद । उत्सृजेमं मन्युसंभारमरटैन्ती । बाष्पमोक्षेणामुच्यमानेऽस्मिन्नियतर्मेतिभारोत्पीडितं तटाकमिव सरेसमृदु नियतं सहस्रधा स्फुटति ते हृदयमित्यपेक्षस्व देवीं मदिरां देवं च चित्ररथम् । त्वया विना कुलद्वयमपि नास्ति इत्युक्तवती मदलेखां कादम्बरी विहस्याब्रवीत् ‘अय्युर्मत्तिके, कुतोऽस्य मे वज्रसारकठिनस्य हतहृदयस्य स्फुटनम्, येन्नालोक्यैवं सहसधा स्फुटितम् । अपि च या जीवति तस्याः सर्वमिदम्, माता पिता बन्धुरात्मा सख्यः परिजन इति । मया पुनर्ह्रियमाणया जीवितभूतं कथंकथमपि समासादितमिदं प्रियतमशरीरं यज्जीवदजीवद्वा संभोगेनानुमरणेन वा द्विधापि सर्वदुःखानामेवोपशान्तये । तत्किमिति देवेनागच्छता मदर्थं प्राणांश्चोत्सृजता सुदूरमारोपितं गुरुतां च नीतमात्मानमश्रुपात -
अक्षिणी चक्षुषी यया सा तथा शुचा श्यामं क्रोधेनारुणं रक्तमाननं मुखं यस्याः सा तथा । केव । ग्रहेण राहुणा राहुग्रासेनोपरक्तमिन्दुबिम्बं चन्द्रमण्डलं यस्यामेवंविधा पौर्णमासीनिशेव । निशितस्तीक्ष्णो यः परशुः कुठारस्तस्य पातः पतनं तेनोत्कम्पितुं शीलं यस्याः सा तथैतादृशी लतेव वल्लीव । वेपितः कम्पितोऽधरकिसलय ओष्ठपल्लवो यस्याः सा तथा । लिखितेव चित्रितेव स्त्रीस्वभावश्चञ्चलप्रकृतिस्तस्या विरुद्धेन स्थैर्येण चेतसा चित्तेन तस्थावित्यन्चयस्तु पूर्वमेवोक्तः । तथावस्थितां तेन प्रकारेणासेदुषीं च तां कादम्बरीमुन्मुक्त आर्तनादः करुणध्वनिर्यया सैवंभूता मदलेखा सपादपतनं यथा स्यात्तथाब्रवीदवोचत् । किं तदित्याह - प्रियेति । हे प्रियसखि, प्रसीद प्रसन्ना भव । इमं मन्युसंभारमुत्सृज त्यज । किं कुर्वन्ती । अरटन्ती रुदनमविदधती । बाष्पमोक्षेण कृत्वास्मिन्मन्युभारेऽमुच्यमानेऽतिभारेणातिवीवधेनोत्पीडितं दुःखितं सरसं च तन्मृदु च सरसमृदु । रसोपयुक्तं सुकुमारं चेत्यर्थः । तटाकमिव कासार इव नियतं निश्चितं ते तव हृदयं भुजान्तरं सहसधा स्फुटति । भविष्यद्वर्तमाना । स्फुटिष्यतीत्यर्थः । तटाकमपि रसः पानीयं तेन सुतं मृदु च स्यादिति तदुपमानम् । 'रसो जलं रसो हर्षः' इति कोषः । इति हेतोः । अवेक्षस्व विलोकय । देवीं मदिरां निजजननीं देवं च चित्ररथं स्वजनकम् । त्वया विना कुलद्वयमपि मातृपक्षः पितृपक्षश्च नास्ति न विद्यते । इत्युक्तवतीमिति निवेदितवतीं मदलेखां कादम्बरी विहस्य स्मितं कृत्वाब्रवीत् ।
1
अयि उन्मत्तिके, मे ममास्य वज्रस्य पवेः सारं मध्यं तद्वत्कठिनस्य कठोरस्य हतहृदयस्य कुतः स्फुटनं द्वैधीभावो यन्त्रैवमालोक्यं निरीक्ष्य सहस्रधा स्फुटितम् । अपि चेति युक्त्यन्तरे । या जीवति प्राणिति तस्याः स्त्रियो माता जननी, पिता जनकः, बन्धुः स्वजनः, आत्मा जीवः, सख्यो वयस्याः, परिजनः परिच्छद इति सर्वमिदं स्यात् । मया पुनः कादम्बर्या म्रियमाणया प्राणान्परित्यजन्त्या कथं कथमपि इदं प्रियतमशरीरं जीवितभूतं प्राणभूतं समासादितं प्राप्तं यज्जीवद्वाऽजीवद्वा संभोगेन मैथुनेनानुमरणेन वा सहगमनेन द्विधाप्युभयप्रकारेणापि सर्वदुःखानामेव समग्रकृच्छ्राणामेवोपशान्तये निवृत्तये । मदर्थं मत्कृते देवेन चन्द्रापीडेनाऽऽगच्छतागमनं कुर्वता प्राणांश्चासूंश्चोत्सृजता परित्यजता सुदूरमत्युच्चैरारोपितमारोहणं कारितम् । गुरुतां च नीतं महत्त्वं च प्रापितम् ।
टिप्प० - 1 ‘इति' पदं विरूपमेवात्र । 'स्फुटति ते हृदयमिदम् । अपेक्षस्व०... ' इत्युचितः पाठः ।
पाटा० - १ तथास्थितां तु. २ एनम् ३ आरटन्ती; अनारटन्टी. ४ अतिजलभार. ५ मृदुसरसम्. ६ हृदयमिदम् ७ अपि. ८ उन्मत्तके. ९ आलोक्यैव यत्र.
(अनुमरणार्थं विलापः
-
उत्तरभागः ।
621