________________
मात्रेण लघुकृत्य पातयामि । कथं स्वर्गगमनोन्मुखस्य देवस्य रुदितेनामङ्गलं करोमि । कथं वा पादधूलिरिव पादावनुगन्तुमुद्यता हर्षस्थानेऽपि रोदिमि । किं मे दुःखमेवंविधम् । अधुना तु मे सर्वदुःखान्येव दूरीभूतानि । किमद्यापि रुद्यते । यदर्थं कुलक्रमो न गणितः, गुरवो नापेक्षिताः, धर्मो नानुरुद्धः, जनवादान्न भीतम्, लज्जा परित्यक्ता, मदनोपचारैः सखीजनः खेदितः, दुःखिता मे प्रियसखी महाश्वेता, तस्याः कृते प्रतिज्ञातमन्यथा जातं मयेत्येतदपि चेतसि न कृतम्, तस्मिन्मदर्थमेवोज्झितप्राणे प्राणेश्वरे, प्राणान्प्रतिपालयन्ती त्वयैवं किमुक्ताहम् । अस्मिन्समये मरणमेव जीवितम् । जीवितं पुनर्मरणम् । तद्यदि ममोपरि स्नेहं करोषि मत्प्रियं हितं वा, तन्ममोपरि स्नेहाबद्धयापि प्रियसख्या तथा कर्तव्यं यथा न तातोऽम्बा चे मच्छोकादात्मानं परित्यजतः, यथा च मयि, वाञ्छितं मनोरथं त्वयि पूरयतः, परलोकगताया अपि मे जलाञ्जलिदानाय पुत्रकस्त्वयिभवः । यथा च मे सखीजनः परिजनो वा न स्मरति, शून्यं वा मद्भवनमालोक्य न दिशो गृह्णन्ति तथा करिष्यसि ।
***********
ममात्मानमश्रुपातमात्रेण नेत्राम्बुनिर्गमनेन तत्किमिति किमर्थं लघूकृत्य पातयामि । स्वर्गगमन उन्मुखस्याभिमुखस्य देवस्य चन्द्रापीडस्य रुदितेनाश्रुपातेन कथममङ्गलमशिवं करोमि । पादधूलिरिव चरणरज इव पादावनुगन्तुमुद्यता कथं वा हर्षस्थाने रोदिमि रुदनं करोमि एवंविधं किं मे दुःखम् । अधुना तु मे मम सर्वदुःखान्येव दूरीभूतानि । किमद्यापि मया रुद्यते । यदर्थं यत्कृते कुलक्रमोऽन्वयस्थितिर्न गणितो नापेक्षितः । गुरवो हिताहितप्राप्तिपरिहारोपदेष्टारो नापेक्षिता न समीहिताः । धर्मो नानुरुद्धो न नियन्त्रितः । जनवादात्कौलीनान भीतं न त्रस्तम् । 'स्यात्कौलीनं लोकवादे' इत्यमरः । लज्जा त्रपा परित्यक्ता मुक्ता । मदनोपचारैः कामोपशमनक्रियाभिः सखीजनः खेदितः खेदं प्रापितः । दुःखिता पीडिता मे मम प्रियसखी महाश्वेता । तस्या महाश्वेतायाः कृते प्रतिज्ञातमङ्गीकृतं तदन्यथा वैपरीत्येन जातं मयेत्येतदपि चेतसि न कृतम् । मदर्थं कादम्बर्या एवोज्झितप्राणे त्यक्तजीविते तस्मिंश्चन्द्रापीडाख्ये प्राणेवरे प्राणानसून्प्रतिपालयन्ती रक्षन्ती त्वयैवं भवत्या किमुक्ताहं किं भणिता । अस्मिन्समये सांप्रतकाले मरणमेव जीवितं प्राणत्यागमेव प्राणितम् । जीवितं पुनर्मरणं प्राणत्यागः । त्रपाजनकत्वात् । तयदि ममोपरि स्नेहं प्रीति मत्प्रियं मदल्लभं हितमायतिसुन्दरं वा त्वं करोषि विदधासि तन्मम कादम्बर्या उपरि यः स्नेहः प्रेम तेनाबद्धया संदानितयापि प्रियसख्या वल्लभवयस्या (स्यया) तथा कर्तव्यं तथा विधेयं यथा तातचित्ररथोऽम्बा मदिरा च मच्छोकान्मदिरहजनितदुःखादात्मानं न परित्यजतः प्राणमोक्षणं न कुरुतः । यथा मयि वाञ्छितं मनोरथमभिलषितं कामं त्वयि पूरयतः परिपूर्णीकुरुतः । परलोकगताया अन्यभवं प्राप्ताया अपि मे मम जलाञ्जलिदानाय मृतस्य पानीयप्रदानायर्यायं पुत्रकस्त्वयि भवः । यथा च मे मम सखीजनः परिजनो वा परिच्छदलोको वा दुःखाभिभूतो भृत्यजनो न स्मरति न स्मृतिगोचरीकरोति । शून्यं रिक्तं वा मद्भवनं मद्गृहमालोक्य निरीक्ष्य दिशो न गृह्णन्ति । अन्यत्र न यान्तीत्यर्थः । त्वं मद -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 मदलेखया प्राणांस्त्यजन्ती एवमुक्ता, न तु प्रतिपालयन्ती । अत एव 'त्वयैव किं वक्ष्येऽहम्' इत्येव पाठः । 2 नीचैर्दत्ते पाठान्तरेऽपि सहृदयैर्देया दृष्टिः । 3 तन्ममोपरीत्यस्याऽऽब्रेडनं दृष्ट्वा पाठान्तरमनुसंधेयम् । 4 'अयम् कः ? अत एव नीचैः पाठान्तरमेव सम्यक् ।
पाठा० - १ जनापवादात्. २ मम. ३ अस्मिंस्तु. ४ मरणमेव श्रेयो न जीवितं मे सर्वप्रकारलज्जाकरं तु जीवितं न पुनर्मरणम्. ५ तन्मदीयमप्यात्मनि स्नेहमारोप्य. ६ वा. ७ अवाञ्छितम्. ८ येन परलोकगताया अपि मे जलाञ्जलिदायी पुत्रको भविष्यति. ९ वापि. १० भवनम्.
622
कादम्बरी।
कथायाम्