SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ हतोत्तरलायमानधवलकुसुमप्रकरशोभिनि वासभवनाङ्गणे क्षणमिवास्थाने समासनपार्थिवैः सह वैशम्पायनालापेनैव 'स्थित्वा द्वितीय एव यामे चलितव्यम् । सज्जीकुरुत साधनम् इत्यादिश्य बलाध्यक्षमृक्षोदय एव विसर्जिताशेषराजलोको वासभवनमध्यवसत् । अथातिचिरान्तरितोज्जयिनीदर्शनोत्सुको विनापि प्रयाणनान्या सकल एव कटकलोकः संवत्य प्रावर्तत गन्तुम् । आत्मनाप्यलब्धनिद्राविनोदोऽवतरत्येव तृतीये यामे तुरगकरिणीप्रायवाहनेनानतिबहुना राजलोकेन सह विरलकटकसमर्देन वर्मनाऽवहत् । अथाध्वनैव सह क्षीणायां यामवत्याम, रसातलादिवोन्मज्जत्सु सर्वभावेषु, उन्मीलन्तीष्विव दृष्टिषु, पुनरिवान्यथा सृज्यमाने जीवलोके, विभज्यमानेषु निम्नोन्नतेषु, विरलायमानेष्विव वनगहनेषु, संकुचत्स्विव तरुलतागुल्मेषु, गगनतलमारोहन्त्याः पदे इव बहुललाक्षारसालोहिते दिवसश्रियः, अवश्यायसेकानवपल्लव इवोद्भिद्यमाने पूर्वाशालतायाः, कमलिनीरागदायिनि दिवसकरबिम्बे विस्पष्टे, प्रभातसमये, कटकलोकेनैव सह परापतितवानुज्जयिनीम् । *********** एवोत्तरलायमान उत्कम्पायमानो यो धवलकुसुमप्रकरः श्वेतपुष्पनिकरस्तेन शोभिनि शोभायमाने वासभवनाङ्गणे निवासगृहाजिर आस्थान आस्थानसभायां समासनाः पार्श्ववर्तिनो ये पार्थिवा राजानस्तैः सह वैशम्पायनस्यालापेन किंवदन्त्या क्षणमिव क्षणसदृशं स्थित्वास्थाय द्वितीय एव यामे प्रहरे चलितव्यं प्रस्थातव्यम्, साधनं सैन्यं सज्जीकुरुत सज्जयत । बलाध्यक्ष सेनापतिमित्यादिश्येत्यादेशं दत्त्वा ऋक्षोदय एव नक्षत्रोदय एव विसर्जितो गृहगमनाय दत्ताज्ञः अशेषः समग्रो राजलोको येनैवंभूतो वासभवनमध्यमवसदध्यतिष्ठत् । अथेति प्रकारान्तरे । अतिचिरकालेनान्तरितं तिरोहितं यदुज्जयिन्याः पुष्पकरण्डिकाया दर्शनमवलोकनं तेनोत्सुक उत्कण्ठितः सकल एव समग्र एव कटकलोकः सैन्यजनः संवृत्य सज्जीभूयेत्यर्थः । विनापि प्रयाणनान्या यात्रापटहवादनं विनापि गन्तुं प्रावर्तत प्रवृत्तोऽभूत् । आत्मनापि स्वेनाप्यलब्धोऽप्राप्तो निद्रायाः प्रमीलाया विनोदो विलासो येनैवंभूतः । तृतीये तार्तीयीके यामे प्रहरेऽवतरत्येवावतारं प्राप्नुवत्येव, तुरगा अश्वाः, करिण्यो हस्तिन्यः, ता एव प्रायो बाहुल्येन वाहनं युग्यं यस्यैवंभूतेनानतिबहुना स्वल्पेन राजलोकेनोपजनेन सह विरलस्तुच्छः कटकस्य सैन्यस्य संमर्दः संबाधो यस्मिन्नेतादृशेन वर्मना मार्गेणावहदगमत् । अथेति प्रकारान्तरे । अध्वनैव मार्गेणैव सह यामवत्यां त्रियामायां क्षीणायां सत्या सर्वभावेषु समग्रपदार्थेषु रसातलादिव पातालादिवोन्मज्जत्सूपर्यागच्छत्सु, दृष्टिषु दृशून्मीलन्तीष्विव विकसन्तीष्विव, पुनरिव द्वितीयवारमिव जीवलोकेऽन्यथान्येन प्रकारेण सृज्यमाने निष्पाद्यमाने, निम्नानि चोचतानि च निम्नोत्रतानि तेषु भावेषु विभज्यमानेषु पृथविक्रयमाणेषु सत्सु, वनगहनेष्वरण्यगह्वरेषु विरलायमानेष्विवाऽनिबिडायमानेष्विव सत्सु, तरवो वृक्षाः, लता वल्लयः, गुल्मा गुच्छाः, तेषु, संकुचत्स्विव संकोचं प्राप्नुवत्स्विव, दिवसश्रियो वासरलक्ष्म्या गगनतलं व्योमतलमारोहन्त्या आरोहणं कुर्वन्त्या बहुषु निबिडो यो लाक्षारसो जतुद्रवस्तेनालोहित ईषद्रक्ते पदे इवै चरणन्यासे इव, पूर्वाशालतायाः प्राचीवल्ल्या अवश्यायो हिमं तस्य सेकासिञ्चनानवपल्लवे इव नवीनकिसलये इवोद्भिद्यमान उद्भेदं प्राप्यमाणे कमलिन्या मृणालिन्या रागदायिनि प्रीतिप्रदे दिवसकरबिम्बे सूर्यमण्डले सति विस्पष्टे, प्रभातसमये प्रत्यूषक्षणे कटकलोकेनैव सैन्यजनेनैव सहोज्जयिनी विशाला परापतितवान्प्राप्तवान । - - - - - - - - - - - - - - - - - - - टिप्प० -1 रजनीप्रारम्भ एवेत्यर्थः । 2 निम्नोत्रतेषु भागेषु प्रकाशोदयात्स्पष्टदर्शनेन विभज्यमानेषु पृथगुरूपेण दृश्यमानेषु सत्सु । 3 सूर्यविम्बस्य वासरलक्ष्मीपदत्वेन, आशालतापल्लवत्वेन चोत्प्रेक्षा । पाठा० -१ सज्जीभूय. २ सयोऽवतरनेव. ३ लाक्षारस. ४ कमलिनीराग. (चन्द्रापीडस्योज्जयिनीयात्रा उत्तरभागः। 565
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy