SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अथ दूरत एव प्रसृतिद्वन्द्वसंस्थितैश्च पुज्यमानैश्च पुञ्जितैश्चाबद्धमण्डलैचोपविष्टैः वलितैश्च दत्तकतिपयशून्यपदैश्च निवर्त्यमानैश्चागच्छद्भिश्चोन्मुखैश्चाधोमुखैचोद्धाष्पदृष्टिभिश्च विवर्णदीनवदनैश्च महाकष्टशब्दमुखरैश्च दुःखाधिक्याहितमौनश्च मुनिभिरपि मुमुक्षुभिरपि वीतरागैरपि निःस्पृहैरप्युदासीनैरपि दुर्जनैरपि स्नेहपरवशैः पितृभिरिव सुहृद्भिरिव स्निग्धबन्धुभिरिव च नगरीनिर्गतैराया॑पृच्छ्यमानं कथ्यमानं च विचार्यमाणं चानुभाव्यमानं च वैशम्पायनवृत्तान्तमेव समान्ताच्छुश्राव । शृण्वंश्च चकार चेतसि - ‘बाह्यस्य तावज्जनस्येयमीदृशी समवस्था किं पुनर्येनासावकेन लालितः संवर्धितो वा बालचाटवोऽस्यानुभूताः । तदतिकष्टं मे वैशम्पायनेन विना तातस्य शुकनासस्याम्बाया मनोरमाया वा दर्शनम् इत्येवं चिन्तयनासानिहितोद्धाष्पदृष्टिरदृष्टसर्ववृत्तान्त एव विवेशोज्जयिनीम् । अवतीर्य च स राजकुलद्वारि प्रविशनेवार्यशुकनासभवनं सह देव्या विलासवत्या गतो - *********** अथेति । उज्जयिनीगमनानन्तरं दूरत एव दविष्ठादेव प्रसृतः पाणिः प्रसृतिस्तस्य द्वन्द्वेन संस्थितैरूव॑दमैनियोजिताञ्जलिभिरित्यर्थः । पुज्यमानैः संघीक्रियमाणैश्च पुञ्जितैः संघीकृतैश्चाबद्धं कृतं मण्डलं यैरेवंविधैश्चोपविष्टैर्निषण्णैश्च वलितैर्गतैश्च दत्तानि कतिपयानि कियन्ति शून्यपदानि यैरेवंभूतैश्च निवर्त्यमानैः पश्चादागच्छद्भिश्चागच्छद्भिः समागच्छद्भिश्चोन्मुखैरूद्मननैश्च, अधोमुखैींचैर्मुखैश्च, उदूधैं बाष्पो यास्वेवंविधा दृष्टयो येषामेवंविधैश्च, विवर्णानि विच्छायानि दीनानि करुणानि वदनानि मुखानि येषामेतादृशैश्च, महान्तो ये कष्टशब्दा हाहाप्रभृतयस्तैर्मुखरैर्वाचालैश्च, दुःखाधिक्येनाहितं विहितं मौनं यैरेवंविधैश्च मुनिभिरपि मुमुक्षुभिरपि वाचंयमैरपि वीतरागै रागरहितैराप्तैरपि निःस्पृहैर्निरीहैरपि, उदासीनैर्मध्यस्थैरपि, दुर्जनैः खलैरपि, स्नेहपरवशैः प्रीतिपराधीनैः, पितृभिरिव जनकैरिव, सुहृद्भिरिव मित्रैरिव, स्निग्धबन्धुभिरिव हितकृद्भ्रातृभिरिव च नगर्या उज्जयिन्या निर्गतैर्बहिरागतैः पूर्वोक्तजनैरा, पीडयापृच्छ्यमानं पृच्छाविषयीक्रियमाणं कथ्यमानमुच्यमानं च विचार्यमाणं च विचारविषयीक्रियमाणं चानुभाव्यमानं भावनाविषयीक्रियमाणं च वैशंपायनस्य वृत्तान्तमुदन्तमेव समन्तात्सर्वत्र शुश्रावाकर्णयामास । श्रृण्वंश्चेति चेतसि चित्ते चकार । बाह्यस्य बहिःस्थस्य तावज्जनस्य लोकस्येदृशी समवस्था दशा येनासौ वैशम्पायनोऽङ्केन क्रोडेन लालितः पालितः संवर्धितो वृद्धि प्रापितः । अस्य वैशम्पायनस्य बालचाटवः शिशुचाटवः । 'चटु चाटु प्रियप्रायम्' इति हैमः । अनुभूता अनुभवविषयीकृतास्तेषां किं पुनर्भण्यते । तत्तस्माद्धेतोर्मे मम वैशम्पायनेन विना तातस्य शुकनासस्य अम्बाया मनोरमाया वा दर्शनमवलोकनमतिकष्टमतिकृच्छ्रम् । इत्येवं पूर्वोक्तप्रकारेण चिन्तयन्ध्यायन्नासायां गन्धज्ञायां निहिता स्थापितोद्धाष्पा दृष्टियेन । अदृष्टोऽनिरीक्षितः सर्ववृत्तान्तो येनैवंभूत एवोजयिनी विशालां विवेश प्रविष्टवान् ।। अवतीर्यावरोहणं कृत्वा च स चन्द्रापीडो राजकुलद्वारि नृपकुलप्रतोल्यां प्रविशन्नेव प्रवेशं कुर्वन्नेवार्यशुकना - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'दूरत एव प्रभृति द्वन्द्वस्थितैश्च पुञ्जितैश्च इत्यादिः पाठः । वैशम्पायनवृत्तान्तचर्चाय लोकानां नानविधाऽवस्थितिः । दूरत एव प्रभृति दूरादेव आरभ्य केचिद् द्वन्द्वस्थिताद्वाभ्यां मिलित्वा स्थिताः, केचित् पुजिताः, इत्याद्याशयः । 2 'निवर्तमानैः आगत्य परावर्तमानैः, सहसा अनिष्टवार्ताश्रवणशङ्कयेत्यर्थः । पाठा० - १ प्रभृतिद्वन्द्वस्थितैः. २ पुञ्ज्यितैश्च पुज्यमानैश्च. ३ मण्डलैश्चो_श्च. ४ चलितैश्च वलितैश्च. ५ अधिक. ६ निःसङ्गरपि. ७ निस्पृहैः. ८ चाकर्ण्यमानं च. ९ चानुवर्ण्यमानं च. १० यैः. ११ बाल. १२ नासाग्र. स 566 कादम्बरी। । कथायाम्-)
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy