SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सैव तदवाप्तिं प्रत्युत्सुकतेत्युपगतं सकलमेव । केवलमसंजातपक्षतया मे तस्मिन्समये पूर्वजन्मोपात्ता शरीरचेष्टा नासीत् । तथा चाविभूतसकलान्यजन्मवृत्तान्तः समुत्सुकान्तरात्मा किं मातापित्रोः, किं तातस्य तारापीडस्य, किमम्बाया विलासवत्याः, किं वयस्यस्य चन्द्रापीडस्य, उत प्रथमसुहृदः कपिजलस्य, आहोस्विन्महाश्वेताया इति. नाज्ञासिषमेवं कस्य कस्य कथं वा स्मृतवानस्मीति । तथा चोत्सुकान्तरात्मा महीतलनिवेशितशिराश्चिरमिव स्थित्वा भगवन्तं जाबालिं निजाविनयश्रवणलज्जया विलीयमान इव विशन्निव पातालतलं कथमपि शनैःशनैर्व्यज्ञपयम् - 'भगवन्, त्वत्प्रसादादाविर्भूतज्ञानोऽस्मि संवृत्तः । स्मृताः खलु मया सर्व एव पूर्वबान्धवाः । मूढतायां च यथैव तेषां स्मरणं नासीत्तथैव विरहपीडापि । अधुना पुनस्तान्स्मृत्वा स्फुटतीव मे हृदयम् । न च तान्स्मृत्वापि तथा, यथा चन्द्रापीडम्, यस्य मदुपरतिश्रवणमात्रकात्स्फुटितं हृदयम् । तत्तस्यापि जन्माख्यानेन प्रसादं करोतु भगवान् । येनायं तिर्यग्योनिवासोऽपि मे तेन सहैकत्र वसतो न पीडाकरः संजायते इति । *********** प्रथमप्रतिपादित एव महाश्वेतायामनुरागोऽनुरतिरनु पश्चात्प्रेम, सैव तस्या महाचेताया अवाप्तिं प्राप्तिं प्रत्युत्सुकतौत्सुक्यमिति सकलमेव समग्रमेवोपगतं प्राप्तम् । असंजातपक्षतयाऽप्रादुर्भूतवाजतया मे मम तस्मिन्समये पूर्वजन्मोपात्ता शरीरचेष्टा चलनादिका नासीत्राभवत् । तथा चाविर्भूतः प्रकटीभूतः प्रादुर्भूतः सकलः समस्तोऽन्यजन्मवृत्तान्तो भवान्तरोदन्तो यस्यैवंभूतः समुत्सुकान्तरात्मोत्कण्ठितान्तरात्मा किं शुकनासमनोरमयोर्मातापित्रोः, किं तातस्य तारापीडस्य, किमम्बाया विलासवत्याः, किं वयस्यस्य मित्रस्य चन्द्रापीडस्य, उत प्रथमसुहृद आद्यमित्रस्य कपिजलस्य आहोस्विन्महाचेताया इत्येवं कस्य कस्यैतन्मध्यवर्तिनः कथं वा केन प्रकारेण वा स्मृतवानस्मि स्मरणं कृतवानस्मीति नाज्ञासिषं नावबोधिषम् । तथा चोत्सुकान्तरात्मा महीतले पृथ्वीतले निवेशितं शिरो येन स चिरमिव बहुकालमिव स्थित्वास्थाय भगवन्तं जाबालिं निजस्य स्वस्याविनयस्य श्रवणमाकर्णनं तस्माद्या लज्जा त्रपा तया विलीयमान इव लीनतामापाद्यमान इव पातालतलं रसातलं विशनिव प्रवेश कुर्वनिव कथंकथमपि महता कष्टेन शनैःशनैर्व्यज्ञपयं विज्ञप्तिमकार्षम् । हे भगवन्, त्वत्प्रसादात्त्वदनुग्रहादाविर्भूतं प्रकटीभूतं ज्ञानं यस्यैवंभूतोऽहं संवृत्तो निष्पन्नोऽस्मि । खलु निश्चयेन मया सर्व एव पूर्वबान्धवाः स्मृताः प्रथमस्वजनाः स्मृताः स्मरणविषयीकृताः । मूढतायां मूर्खतायामज्ञानतायां च यथैव तेषां स्मरणं नासीत्तथैव विरहपीडापि वियोगबाधापि नासीत् । अधुना पुनस्तान्पूर्वोक्तान्स्मृत्वा मे मम हृदयं वक्षः स्फुटतीव स्फोटं प्राप्नोतीव । नच तान् मत्पूर्वबान्धवान् स्मृत्वापि स्मरणविषयत्वेऽपि तथा । स्फुटतीति शेषः । यथा चन्द्रापीडं । स्मृत्वेति योज्यम् । यस्य चन्द्रापीडस्य मदुपरतिश्रवणमात्रकात् मत्संबन्धिनी या उपरतिः स्नेहोपरमस्तस्याः केवलश्रवणेनैव हृदयमन्तःकरणं स्फुटितं शकलायितम् । तत्तस्मात्कारणात्तस्यापि चन्द्रापीडस्यापि जन्माख्यानेन भवान्तरकथनेन भगवान्प्रसादमनुग्रहं करोतु विदधातु । येन कारणेनायं तिर्यग्योनिवासोऽपि मे मम तेन सहैकत्रैकस्मिन्स्थले वसतो न पीडाकरो न व्यथाकृत्संजायते भवतीति । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 सर्वत्र मातुः स्मरतीतिवत् शेषे षष्ठी । 2 मम उपरतिः मृत्युः तस्य श्रवणमात्रकात्, इत्यर्थः । पाठा० - १ कस्य कथं वा; कस्य कस्य कथं कथं वा. २ च मे. ३ स्मृत्वा स्मृत्वा. ४ तथान्यत्. ५ मात्रात्. ६ दयां करोतु भगवांस्तस्यापि जन्माख्यानप्रसादप्रदानेन. चन्द्रापीडादीनां जन्मप्रश्नः उत्तरभागः।
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy