________________
एवात्मानमन्तरेऽर्पितवान् । ‘एवमम्लानमालतीकुसुमकोमलतनौ निघृणं प्रहरन लज्जसे' इत्युपालभमान इव दिवसमुत्तरलतारयान्तर्बाष्पया दृष्ट्या कुसुमचापम्, पुनः स्मरशरप्रहारमूर्छितां संज्ञामिव लम्भयितुं तामवयवरुवाह स्वेदजललवानुत्ससर्ज च दीर्घदीर्घानिःश्वासमारुतान् । तच्चेतनालम्भमुदित इव च सर्वाङ्गीणं क्षणमपि न मुमोच रोमाञ्चम् । सह्यते हृदयेन वेदना न वेति तद्वार्ता प्रष्टुमिव नियुक्तेन मनसा शून्यतामधार्षीत् । तत्प्रतिवार्ताकर्णनायेव च गृहीतमौनः सर्वदेवातिष्ठत् । तदाननालोकनान्तरितमिव सर्वमेव नाद्राक्षीत् । चन्द्राबिम्बेऽपि नास्य दृष्टिररमत । तदालापपूरितश्रोत्रेन्द्रिय इव न किंचिदपरमन्तःकर्णं कृतवान् । वीणाध्वनयोऽप्यस्व बहिरेवासन् । सुभाषितान्यपि न प्रवेशमलभन्त । सुहृद्वाचोऽपि परुषा इवाभवन् । बान्धवजनजल्पितान्यपि नासुखायन्त । भावावगमभीत्येव यथापूर्वं न कस्यचिद्दर्शन -
***********
स्तत एव तद् दिवसादेवात्मानमन्तरे मध्येऽर्पितवान्दत्तवान् । एवमिति । अम्लानं सद्यस्क यन्मालत्याः कुसुमं पुष्पं तद्वत्कोमला सुकुमारा या तनुः शरीरं तस्यां निघृणं निष्कृपमेवममुना प्रकारेण । दिवसमित्युपलक्षणमहोरात्रस्य । तेनाहोरात्रं प्रहरंस्ताडयन लज्जसे न त्रपां प्राप्नोति । उप्राबल्येन तरला चञ्चला तारा कनीनिका यस्यां सा तया । अन्तर्मध्ये बाष्पोऽश्रु यस्यामेवंविधया दृष्ट्या नेत्रेण कुसुमचापं कंदर्पमित्युपालभमान इवोपालम्भं ददान इव । एतेनात्यन्तदैन्यमाविष्कृतम् । स्वेदो धर्मस्तदेव जलं तस्य लवा विपुषस्तानवयवैरुपनैरुवाहावहत् । च पुनरर्थे । अतिशयेन दीर्घा दीर्घदीर्घास्तानेवभूतानिःश्वासमारुतानुत्ससोन्मुमोच । किं कर्तुम् । उत्प्रेक्षते - पुनरिवार स्मरस्य शरा बाणास्तैः प्रहारस्ताडनं तेन मूर्छिता मोहप्राप्तां तां कादम्बरी संज्ञचेतना लम्भयितुमिव प्रापयितुमिव । यथान्यः कश्चिन्मूर्छितस्य स्वेदजललववत्स्वल्पजलं निःश्वाससमानमारुतांश्च मुञ्चतीति वस्तुगतिः । स चन्द्रापीडः सर्वाङ्गे भवः सर्वाङ्गीणस्तं रोमाञ्चं रोमोद्गम क्षणमपि न मुमोच । क्षणमात्रं तद्विरहितो नाभूदित्यर्थः । उत्प्रेक्षते - तस्याः कादम्बर्याश्चेतना चैतन्यं तस्या आलम्भः प्राप्तिस्तेन मुदित इव हर्षित इव । सह्यत इति । स मनसा शून्यतामधार्षीदभार । किंलक्षणेन मनसा । तस्यै कादम्बर्यै इति वार्ता प्रष्टुं नियुक्तेनेव प्रेषितेनेव । इतीति किम् । हृदयेन वेदना पीडा सह्यते न वेति । तदिति । गृहीतं मौनभाषणं येनैवंविधः सर्वदा निरन्तरमतिष्ठदस्थात् । उत्प्रेक्षते - तस्याः कादम्बर्याः प्रतिवार्ता प्रत्युत्तरं तस्या आकर्णनायेव । श्रवणायेवेत्यर्थः । तदाननेति । स सर्वमेव नाद्राक्षीनापश्यत् । किंलक्षणं सर्वम् । उत्प्रेक्षते - तस्या आननं मुखं तस्यालोकनं वीक्षणं तेनान्तरितमिव व्यवहितमिव । चन्द्रबिम्ब इति । चन्द्रबिम्बेऽपि शशिमण्डलेऽप्यस्य चन्द्रापीडस्य दृष्टिश्चक्षु रमत न चिरमस्थात् । विरहोत्कर्षे तापकारित्वात् । तदालापेति । स चन्द्रापीडः किंचिदप्यपरं शब्दजातं कर्णस्यान्तरन्तःकर्णं न कृतवान् । द्विकर्मकोऽयं धातुः । उत्प्रेक्षते - तस्याः कादम्बर्या आलापस्तेन पूरितं भृतं श्रोत्रेन्द्रिय यस्यैवंविध इव । कर्णानां करणत्वं दर्शयन्नाह - वीणेति । वीणानां वल्लकीनां ध्वनयः शब्दा अस्य चन्द्रापीडस्य बहिरेव बाह्यभूता एवासत्रभूवन् । सुभाषितानीति । सुभाषितानि समीचीनोक्तयस्तान्यपि प्रवेशं मध्यगमनावकाशं नालभन्त न प्राप्नुवन् । सुहृदिति । सुहृदां मित्राणां वाचो वाण्योऽपि परुषा इव कठिना इवाभवन् । बान्धवेति । बान्धवजनस्य बन्धुलोकस्य जल्पितान्यपि कथितान्यपि नासुखायन्त । सुखमिवाचरन्ति सुखायन्ते । अद्यतन्यामात्मनेपदेऽसुखायन्त इति रुपम् । भाव इति । यथा येन प्रकारेण पूर्वं विरहदशाया अग्दिर्शनं नादानं ददौ तथेदानीमपि । तत्रो - टिप्प० - 1 विभिन्नवचनयोः कोयमुपमानोपमेयभावः ? कचार्थः ? अस्तु. सुखं वेदयन्ते सुखायन्ते इति विग्रह उचितः । 'सुखादिभ्यः कर्तृवेदनायाम् इति क्यङ् । शुकोक्तौ कवेरुक्तौ वा नेयमद्यतनी घटना । 2 विरहदशायाः पूर्वं यथा दर्शनमदात् तथा इदानीं न ददावित्यर्थः । पाठा० - १ तनोः. २ अन्तर्बाष्पार्द्रया; स्नुतबाष्पाभ्या. ३ लवम्. ४ हृदयवेदना. ५ चास्य दृष्टिारमत. ६ परिपूरित. ७ किंचिदपि.
चन्द्रापीडस्य विरहावस्था
उत्तरभागः ।।
501