SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ महाश्वेताया वा । यदैव पत्रलेखां मेघनादाय समर्प्य प्रतिनिवृत्य मयायं देवस्योजयिनीगमनवृत्तान्तो निवेदितः, तदैवोधं विलोक्य दीर्घमुष्णं च निःश्वस्य सनिर्वेदम् ‘एवमेतत्' इत्युक्त्वोत्थाय महाश्वेता पुनस्तपसे स्वमेवाश्रमपदमाजगाम । देव्यपि कादम्बरी झटिति हृदये द्रुघणेनेवाभिहता ह्यतर्कितापतिताशनिनेव मूर्ध्नि ताडिता, अन्तःपीडाकूणननिमीलितेन चक्षुषा मूर्छितेव, मुषितेव, परिभूतेव, वञ्चितेव च, उन्मुक्तेव चान्तःकरणेन, अविदितमहाश्वेतागमनवृत्तान्ता, चिरमिव स्थित्वोन्मील्य नयने, विलक्षेव, लज्जितेव, विस्मृतेव, विस्मयस्तब्धदृष्टिः 'महाश्वेतायाः कथय' इति सासूयमिव मामादिश्य, मदलेखायां पुनर्वलितमुखी सविलक्षस्मितम् ‘मदलेखे, अस्ति केनचिदपरेणैतत्कृतं करिष्यते वा यत्कुमारेण चन्द्रापीडेन' इत्येवमभिदधत्युत्थाय निवारिताशेषपरिजनप्रवेशा शयनीये निपत्योत्तरवाससोतमाङ्गमवगुण्ठ्य निर्विशेषहृदयवेदना मदलेखामप्यनालपन्ती सकलमेवं तं दिवसमस्थात् । परेाश्च प्रातरेवोपसृतं माम् । ‘एवं दृढतरशरीरेषु प्रियमाणेष्विव भवत्स्वहमीदृशीमव - *********** नास्ति न विद्यते । तन्निदानमाह - यदैवेति । यदैव यस्मिन्नेव क्षणे पत्रलेखां मेघनादाय समर्प्य समर्पणं कृत्वा प्रतिनिवृत्य परावृत्य मया केयूरकेण देवस्य भवत उज्जयिन्यामवन्त्यां यद्गमनं तस्य वृत्तान्त उदन्तो निवेदितः कथितः, तदैव तस्मिन्नेव क्षण ऊर्ध्वं विलोक्य निरीक्ष्य दीर्घमायतमुष्णं च निःश्वास मुक्त्वा सनिर्वेदं स्वावमाननसहितं यथा स्यात्तथा । एतदेवमेव निश्चयेन चन्द्रापीडो गत इत्युक्त्वोत्थानं कृत्वा महाश्वेता पुनस्तपसे तपोऽर्थं स्वमेवात्मीयमेवाश्रमपदं स्थानमाजगामाययौ । कादम्बर्यपि सकलमेव तं दिवसमस्थादतिष्ठदिति दूरेणान्वयः । इतः कादम्बरी विशेषयन्नाह - झटिति तत्कालं हृदये स्वान्ते द्रुघणेन घनेनाभिहतेव ताडितेव । अतर्कितमचिन्तितमापतितो योऽशनिवज्र तेन मूर्ध्नि मस्तके ताडितेवाभिहतेव । अन्तःपीडा मानसी व्यथा तया कूणनं क्रन्दनं तेन निमीलितेन मुद्रितेन चक्षुषा नेत्रेण मूर्छितेव मोहं प्राप्तेव । मुषितेव गृहीतसर्वस्वेव । परिभूतेव पराभवं प्रापितेव । वञ्चितेव वञ्चनाविषयीकृतेव । अन्तःकरणेन चित्तेनोन्मुक्तेव । अविदितोऽज्ञातो महाश्वेताया गमनवृत्तान्तो यया सर्वभूता कादम्बरी चिरमिव बहुकालमिव स्थित्वा नयने नेत्रे उन्मील्योन्मुद्य, विलक्षेव वीक्षापनेव, लज्जितेव त्रपितेव, विस्मृतेव विस्मरणं प्राप्तेव, विस्मय आश्चर्यं तेन स्तब्धा दृष्टिर्यस्या एवंभूता महाश्वेतायाः कथय निवेदय । चन्द्रापीडो गत इति शेषः । इति सासूयं सेयं मामादिश्य प्रतिपाद्य, मदलेखायां विषये पुनर्वलितं मुखं यस्या एवंविधा सती विलक्ष यस्मितं तेन सह वर्तमानं यथा स्यात्तथा हे मदलेखे, केनचिदनिर्दिष्टनाम्ना परेणेतद्गमनलक्षणं कृतमस्ति । करिष्यते वा यत्कुमारेण चन्द्रापीडेन कृतमिति । एवमभिदधती कथयन्त्युत्थायोत्थानं कृत्वा निवारितो दूरीकृतोऽशेषपरिजनस्य समग्रसेवकलोकस्य प्रवेशो यया सा शयनीये शय्यायां निपत्य पतनं कृत्वोत्तरवाससोत्तरीयवस्त्रेणोत्तमाङ्ग शिरोऽवगुण्ठ्याच्छाद्य निर्गतो विशेषो यस्या एवंविधा हृदयवेदना चित्तपीडा यस्यास्ताम् । समानदुःखामित्यर्थः । एवंभूतां मदलेखामप्यनालपन्त्यभाषयन्ती सकलमेव तं दिवसमस्थादित्यन्वयस्तु प्रागेवोक्तः । परेधुश्चेति । अपरदिने प्रातरेव प्रभात एवोपसृतमागतं मामित्युपालभमानेवोपालम्भं ददानेव । इतीति किम् । एवं पूर्वोक्तप्रकारेण दृढतरमतिशयेन कठिनं शरीरं येषामेवंभूतेषु भवत्सु केयूरकप्रभृतिषु । उत्प्रेक्षते - प्रियमाणेष्विव मरणं प्राप्यमाणेष्विवाह कादम्बरीदृशीमवस्था दशामनुभवाम्यनुभवविषयीकरोमि । पार्थवर्तिभिः - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अप्रतिभेव । 2 महाश्वेतायाः कारणादेव ममेवं दशा, यतस्तयैव कुमारोऽत्रानीतः । अत एव तस्यै ममेमा दशां निवेदेयेति सासूयमुच्यते । 3 अतो 'ध्रियमाणेष्वेव' इत्युचितः पाठः । अर्थात् भवत्सु वर्तमानेष्वेव । पाठा० - १ समागतेन. २ प्रतिनिवर्त्य. ३ अयोधनेन. ४ शुष्काशनिना. ५ मिलितेन. ६ उन्मत्ता. ७ लक्षितेव. ८ अपरेयुः. ९ दृढशरीरेषु. १० म्रियमाणेष्विव. (कादम्बरीदशानिवेदनम् उत्तरभागः । 1507 507
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy