________________
तत्र च ‘देव, गमनाय नमस्करोति युवराजः' इत्यावेदिते द्वाररक्षिणा प्रविश्य क्षोणीतलनिवेशितशिरसा शयनवर्तिनो ननाम दूरस्थित एव पितुः पादौ । अथ तथा प्रणतमालोक्य किंचिदुन्नमितपूर्वकायः, शयनगत एवाहूय तं पिता चक्षुषा पिबन्निव, प्रेम्णा परिष्वज्य गाढमिव सहसोद्गताविरलँबाष्परयपर्याकुलाक्षोऽन्तःक्षोभीवेगक्षिप्ताक्षरमवादीत्- 'वत्स, पित्राहं दोषेषु संभावित इत्येषा मनागपि मनसि वत्सेन दुःखासिका न कार्या । विनयाधानात्प्रभृति सम्यक्परीक्षितोऽस्यस्माभिः । परीक्ष्य च गुणगणैरेवाधिगम्यो राज्यभारस्त्वय्यारोपितो न तनयस्नेहादेव । राज्यं हि नामैतत्पृथ्वीभारेणेवातिदुरूद्वहम्, महिभृत्संबाधतयैवातिसंकटम्, कुटिलनीतिप्रचारेणैवातिदुःसंचारम् चतुःसमुद्रव्याप्त्यैवातिमहत्, महासाधनप्रसाध्यतयैवातिदुःसाध्यम्, अपर्यवसानकार्यतन्त्रजालेनैवातिगहनम्, -
***********
तत्र चेति । तत्र वासभवने । हे देव ऐश्वर्यादिगुणैर्विराजमान्, गमनाय यात्रायै युवा चासौ राजा चेति युवराजश्चन्द्रापीडो नमस्करोति प्रणमति । इति द्वाररक्षिणा द्वारपालेनावेदिते ज्ञापिते सति प्रविश्य प्रवेशं कृत्वा । अन्तर्वासभवनमित्यर्थः । क्षोण्याः पृथिव्यास्तल उपरितनो भागस्तत्र निवेशितं स्थापितं यच्छिर उत्तमाङ्गं तेन करणभूतेन शयनवर्तिनः शय्यागतस्य पितुर्जनकस्य पादौ चरणौ दूरस्थित एव विप्रकृष्टगत एव ननाम प्रणतवान् । अथेति । अथानन्तरं तथा प्रणतं पूर्वोक्तरीत्या नतं युवराजमालोक्य निरीक्ष्य किंचिदीषदुन्नमित ऊर्वीकृतः पूर्वकायः प्रथमशरीरभागो येन स शयनगत एव शय्यास्थित एवाहूयाह्वानं कृत्वा तं युवराज पिता जनकश्चक्षुषा नेत्रेण पिबनिव । आदरेणावलोकनं पानमुच्यत इति भावः । प्रेम्णा प्रीत्या गाढमिव गाढसदृशं परिष्वज्यालिङ्गय सहसा झटित्युद्गत उत्पनो योऽविरलो निबिडो बाष्पोऽश्रु तस्य रयो वेगस्तेन पर्याकुले व्याप्ते अक्षिणी यस्य स तथा । अन्तश्चेतसि यः क्षोभस्तस्यावेगस्त्वरिः (त्वरा) तेन क्षिप्ताक्षरमविस्पष्टाक्षरं यथा स्यात्तथावादीदब्रवीत् । तदाह - वत्सेति । हे वत्स हे पुत्र, पित्रा जनकेनाहं दोषेष्वपराधेषु संभावितो गणित इत्येषा मनागपि किंचिदपि मनसि चित्ते वत्सेन दुःखमास्तेऽस्यामिति दुःखासिका चिन्ता न कार्या । विनयेति । विनयो गुरूणामभ्युत्थानादिस्तस्याधानं शिक्षणं तत्प्रभृति तद्दिनादारभ्य सम्यक्प्रकारेणास्माभिः परिक्षितोऽसि परीक्षाविषयीकृतोऽसि । परीक्ष्य चेति । परीक्षां कृत्वैव च गुणा गाम्भीर्यादयस्तेषां गणाः समूहास्तैरेवाधिगम्यः प्रापणीयो राज्यभारस्त्वय्यारोपितः, न तनयनेहादेव नाङ्गजप्रीतेर्गुणवत्त्वादेव त्वयि राज्यभार आरोपितोऽस्ति । न पुत्रस्नेहादेवेति भावः । अथ राज्यस्वरूपं निरूपयन्नाह - राज्यमिति । नामेति कोमलामन्त्रणे । हीति निश्चये । एतद्राज्यमाधिपत्यं पृथ्वीभारेणैव वसुधावीवधेनैवातिदुरुद्वहं दुःखेनोद्घोढुं शक्यम् । तथा महीभृतां राज्ञां संबाधतया संघट्टतयैवातिसंकटमतिसंबाधम् । तथा कुटिला वक्रा या नीति राजस्थितिस्तस्याः प्रचारेणैव प्रसरणेनैव अतिदुःसंचारं दुःखेन संचरितुं शक्यम् । तथा चत्वारो वेदप्रमिता ये समुद्रा जलधयस्तेषु व्याप्त्यैव व्यापकतयैवातिमहदत्यायतम् । तथा महासाधनं महासैन्यं तेन प्रसाध्यतयैवातिदुःसाध्यमतिदुःखेन साधयितुं शक्यम् । तथाऽपर्यवसानान्यनन्तानि कार्याणि कृत्यानि यत्रैवंभूतं तन्त्रजालं स्वराष्ट्रचिन्तासमूहूं तेनैवातिगहनमिति । 'निबिडं तन्त्रं स्वराष्ट्रचिन्ता स्यात्' इति हैमः । उत्तुङ्ग उच्चो यो वंशोऽन्यस्तत्र प्रतिष्ठिततयैव -
- - - - - - - - - - - - - - - - - टिप्प० - 1 विनयाधानं शिक्षादानं तत्प्रभृति तदारभ्य । 2 महीभृद्भिः पर्वतैः राजभिश्च संबाधतया संकुलतया । 3 उत्तुङ्गा ये वंशाः वेणवः कुलानि च तेषु प्रतिष्ठिततया, इत्युभयार्थस्वारस्यम् ।
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ निवेशितशिराः. २ गाढमप्रौढ. ३ उद्भूत. ४ बाष्पपर्याकुल. ५ क्षोभविक्षिप्त. ६ अहं दोषेऽपि; अनर्हदोषेषु. ७ पृथिवी. ८ समुद्रपर्यन्तभुवनव्याप्त्यैव. ९ दुःसाधनम्.
(पितुः शिक्षा
उत्तरभागः।
1587)