________________
म्पायनवियोगादुद्विग्नस्य गमनमेकाकिनस्ते समुत्प्रेक्ष्येति । न पुनर्वेशम्पायनवृत्तान्तादात्मन एव दुःखिततयेति । न चैवंविधया पीडया वैशम्पायनानयनाय गच्छतस्ते मे गमनं विनिवारयितुं पारयति वाणी । हृदयं पुनर्नेछत्येव त्वदीयं गमनम् । तदीदृशीं मे पीडां विभाव्य यथा पुरा स्थितं न तथा क्वचिदासंगमावध्यतिदीर्घकालमायुष्मता स्थातव्यम् । अस्य चार्थस्य कृते साञ्जलिबन्धेन शिरसाभ्यर्थये वत्सम्' इत्यादिशन्तीं स्वमातरं सुदूरं प्रसारितावनम्रमूर्तिश्चन्द्रापीडो व्यजिज्ञपत् - 'अम्ब, तदा दिग्विजयप्रसङ्गास्थितम् । अधुना पुनरयमेव कालक्षेपो यावत्तमुद्देशं परापतामि । तत्पुनश्चिरागमकृता ने भावनीया मनागपि हृदये पीडी त्वया' इत्येवं विज्ञप्ता चन्द्रापीडेन संनिरुध्योद्वाष्पवेगान् कथं कथमपि संस्तभ्यात्मानं निर्वर्तितगमनमङ्गला, गलता प्रसवेण सिञ्चन्ती, शिरसि चोपाघ्राय गोद सुचिरमालिङ्गय, गच्छद्भिरिव प्राणैः कृच्छ्रान्मुमोच'त माता । मुक्तश्च मात्रा पितुः प्रणतये वासभवनमगमत् ।
***********
स्वस्यैव दुःखिततया पिडिततया पुनर्न मम हृदयपीडेत्यर्थः । एवंविधयैतादृश्या पीडया वैशम्पायनानयनाय गच्छतो व्रजतस्ते तव गमनं विनिवारयितुं निषेधयितुं न वाणी वाक्पारयति समर्था भवति । हृदयं चेतः पुनस्त्वदीयं तावकीनं गमनं नेच्छत्येव नाभिलषत्येव । तत्तस्माद्धेतोर्मे ममेदृशी पीडां विभाव्य ज्ञात्वा यथा येन प्रकारेण पुरा पूर्वं स्थितं विलम्बितं क्वचित्कस्मिंश्चित्स्थले संगमो मेलापस्तस्यावधिर्मर्यादा आसंगमावधेरासंगमावधि इत्यव्ययीभावः । अतिदीर्घकालमतिचिरकालमायुष्मता भवता न तथा स्थातव्यं स्थेयम् । अस्य च पूर्वोक्तस्यार्थस्य कृतस्य कृते सहाञ्जलिबन्धेन वर्तमानः साञ्जलिबन्धः । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । तेनैवंभूतेन शिरसोत्तमाङ्गेन वत्सं सुतमभ्यर्थयेऽभियाचे इति पूर्वोक्तमादिशन्ती कथयन्तीं स्वमातरं स्वजननी सुदूरं सुतरां दूरं प्रसारिताऽवनम्रावनामिता मूर्तिर्येनैवंभूतश्चन्द्रापीडो व्यजिज्ञपद्विज्ञप्तिमकार्षीत् । तदेवाह - हे अम्ब इति । हे मातः, तदा तस्मिन्काले दिशां विजय आत्मसात्करणं तस्य प्रसङ्गः संबन्धस्तस्मात्स्थित विलम्बितम् । अधुना सांप्रतं पुनरयमेव कालक्षेपः समयविलम्बो यावद्यावता कालेन तमुद्देशं वैशम्पायनालंकृतप्रदेशं परापतामि गच्छामि । तत्तस्माद्धेतोः पुनश्चिरेण बहुकालेनागमनं तेन कृता विहिता या पीडा सा मनागपि हृदये चेतसि न भावनीया न विचारणीया । चन्द्रापीडेनेति विज्ञप्ता कथिता विलासवत्युद्धाष्पवेगानुदश्रुप्रवाहान्सनिरुध्यावष्टभ्य कथंकथमपि महता कष्टेनात्मानं स्वं संस्तभ्य पतन्तं निवार्य, निर्वर्तित विहितं गमनमङ्गलं प्रयाणश्रेयो ययैवंभूता । किं कुर्वती । गलता क्षरता प्रसवेण स्तनोद्गतदुग्धेन सिञ्चन्ती सेचनं कुर्वन्ती । अनेन स्नेहाधिक्यमाविष्कृतम् । शिरसि चोपाघ्राय सुचिरं बहुकालं गाढं दृढमालिङ्ग्याश्लिष्य माता विलासवती गच्छद्भिनिःसरद्भिः प्राणैरसुभिरिव कृच्छ्रात्कष्टात्तं चन्द्रापीडं मुमोच तत्याज । मुक्तश्च मात्रा जनन्या पितुस्तारापीडस्य प्रणतये नमस्कृतये वासभवनं निवासगृहमगमदगच्छत् ।
- - - टिप्प० -1 'आसङ्गमावध्य दीर्घकालम् इति पाठः । आसङ्गम् आसक्तिम् आवध्य आस्थाय दीर्घकालं न स्थातव्यमिति तदर्थः । 2 'सनिरुध्य बाष्पवेगान् इत्येव पाठः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ अन्तः; उत; पुनः पुनः. २ दुःखितयेति. ३ विज्ञाय. ४ आसंगमावध्यदीर्घकालम्. ५ व्यज्ञपयत्. ६ मातः; अहं च मातः. ७ स्थितोऽस्मि. ८ अयमेव मे; इयानेव मे. ९ मनागपि हृदये न भावनीया; मनागपि न हृदये भावनीया. १० अम्बया पीडा; त्वया पीडा. ११ बाष्प. १२ मङ्गलप्रसवेण; मङ्गलाङ्गलताप्रसवेण. १३ गाढं गाढम्. १४ तम्.
586
कादम्बरी।
कथायाम्