________________
मङ्गले प्रणामायोपगतं चन्द्रापीडं पीडयान्तर्विलीयमानेव बाष्पोत्पीडमपारयन्ती निवारयितुमत्यायताभ्यामपि नेत्राभ्यां कृतप्रयत्नाप्यमङ्गलशङ्कया विलासवती तं मैन्युरागावेगगद्गदिकोपरुध्यमानाक्षरमवादीत् -
'तात, युज्यते ह्यङ्कलालितस्य गर्भरूपस्य प्रथमगमने गरीयसी हृदयपीडा, यस्मिन्प्रथममेवाकादपैति । मम पुनर्नेदृशी प्रथमगमनेऽपि ते पीडा समुत्पन्ना, यादृशी तव गमनेनाधुना । दीर्यत इव मे हृदयम् । समुत्पाट्यन्त इव मर्माणि । उत्क्वथ्यत इव शरीरम् । उत्प्लवत इव चेतः । विघटन्त इव संधिबन्धनानि । निर्यान्तीव प्राणाः । न किंचित्समादधाति धीः । सर्वमेव शून्यं पश्यामि । न पारयाम्यात्मानमिव हृदयं धारयितुम् । धृतोऽपि बलादागच्छति मे बाष्पोत्पीडो मुहुर्मुहुः । समाहितापि मङ्गलसंपादनाय ते चलति मतिः । न जानाम्येव किमुत्पश्यामीति । किं निमित्तं चेयमीदृशी मे हृदयपीडेत्येतदपि न वेद्मि । किं बहुभ्यो दिवसेभ्यः कथमप्यागतो मे वत्सो झटित्येव पुनर्गच्छतीति । किं वैश
***********
सत्या प्रस्थानमङ्गले सति गमनश्रेयसि सति, प्रणामाय नमस्कारायोपगतमागतं चन्द्रापीडं पीडया बाधयान्तर्विलीयमानेव विलयं प्राप्यमाणेवात्यायताभ्यामतिविस्तीर्णाभ्यामपि नेत्राभ्याममङ्गलशङ्कयाऽश्रेयसारेकया कृतप्रयत्नापि विहितोद्यमापि बाष्पोत्पीडमथुप्रवाहं निवारयितुं दूरीकर्तुमपारयन्त्यशक्नुवती एवंविधा विलासवती तत्र स्थितत्वाद्वैशम्पायने मन्युः क्रोधो रागश्चन्द्रापीडे स्वाङ्गजत्वात् तयोरावेग आवेशस्तेन या गद्गदिका गद्गदध्वनिस्तयोपरुध्यमानान्युपरोधं प्राप्यमाणान्यक्षराणि यथा स्यात्तथेति क्रियाविशेषणम् । अवादीदब्रवीत् । - किमवादीदित्याशयेनाह - तातेति । हे तात हे पुत्र । हीति निश्चितम् । अङ्कलालितस्य क्रोडपालितस्य गर्भरूपस्य भ्रूणस्वभावस्य प्रथमगमन आद्यप्रयाणे हृदयपीडा गरीयसी युज्यते विलोक्यते, यस्मिन्प्रथममेवाकाक्रोडादपैति गच्छति । मम विलासवत्याः पुनस्ते तव प्रथमगमनेऽपि नेदृश्येतादृशी पीडा समुत्पन्ना संजाता, यादृशी तव गमनेनाधुना सांप्रतं जायते । तदेव प्रदर्शयन्नाह - दीर्यत इति । मे मम हृदयं दीर्यत इव विदीर्णं जायत इव । मर्माणि संधिस्थानानि समुत्पाट्यन्त इवोत्खन्यन्त इव । शरीरं देहमुत्क्वथ्यत इवोत्काल्यत इव । चेतो मन उत्प्लवत इवोत्प्लुत्योत्प्लुत्य गच्छतीव । संधिबन्धनानि विघटन्त इव भियन्त इव । प्राणा निर्यान्तीव निःसरन्तीव । धीर्बुद्धिर्न . किंचित्समादधाति समाधानं करोति । सर्वमेव जगच्छ्न्यं रिक्तं पश्याम्यवलोकयामि । आत्मानमिव हृदयं स्वान्तं धारयितुं न पारयामि न शक्नोमि । धृतोऽपि रक्षितोऽपि बलाद्धठान्मे मम बाष्पोत्पीडोऽश्रुप्रवाहो मुहुर्मुहुरिवारमागच्छत्यायाति । ते तव मङ्गलसंपादनाय श्रेयःकरणाय समाहितापि संस्थापितापि मतिश्चलति भ्रमति । इत्यहं न जानाम्येव नावकलयाम्येव - किमुत्पश्यामि किमवलोकयामि । किंनिमित्त च किंकारणं चेयमीदृश्येतादृशी मे मम हृदयपीडा चित्तार्तिरित्येतदप्यहं न वेद्मि न जानामि । किं बहुभ्यः प्रचुरेभ्यो दिवसेभ्यः कथमपि महता कष्टेन मे मम वत्स आगत आयातो झटित्येव शीघ्रमेव पुनर्गच्छति व्रजतीति हेतोर्महती पीडा जायत इति सर्वत्रानुषङ्गः । किं वैशम्पायनस्य वियोगाद्विरहादुद्विग्नस्योद्वेगं प्राप्तस्यैकाकिनोऽसहायस्य ते तव गमनं प्रस्थानं समुत्प्रेक्ष्य विलोक्येति । वैशम्पायनस्य वृत्तान्ताद्वैशम्पायनोदन्तादात्मनः -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'बलादागच्छति मे बाष्पोत्पीडो मुहुः । मुहुः समाहितापि मङ्गलसंपादनाय०' इति पाठः । मुहुः समाहितापि मतिश्चलति इति तदर्थः । 2 'उत वैशम्पायनवृत्तान्ता-' इति पाठः । 'न पुनः' इत्यस्य न युक्तत्वम् । पाठा० - १ निलीयमान. २ वारयितुम् पातुम्. ३ मन्यद्गमावेग; आवेग. ४ जातमात्रापि तेऽकलालितस्य गर्भरूपस्य प्रथमगमने गरीयसी हृदयपीडा यस्मिन्प्रथमेनाङ्कादर्पिते. ५ यतो दीर्यते. ६ उच्च्यवते. ७ उन्मथ्यत इव मनः निर्यान्तीव. ८ मुहुः. ९ चलति. १० हृदय. ११ बहुभ्यः.
(प्रस्थापनकालिकी मातुरूक्तिः ।
उत्तरभागः।
585