SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ हनि रात्रावितः प्रस्थातव्यं देवेन' इत्यावेदिते तैः ‘साधु कृतम्' इति मुदितचेतास्तानभिष्टुत्यदृष्टिविषयवर्तिनीमेव कादम्बरी च वैशम्पायनं च मन्यमानः, अप्रविष्टायामेव पत्रलेखायां परापतामीत्यग्रप्रधावितेनावधारयश्चेतसा, चतुःसमुद्रसारभूतानिन्द्रायुधरयानुगामिनस्तुरंगमानगणेयानवगणणिततुरंगमगमनखेदानुत्साहिनो राजपुत्रांश्च निरूपयन्ननन्यकर्मा तं दिवसमेकां च यामिनी कथंकथमप्यस्थात् ।। अथानुरक्तकमलिनीसमागमाप्राप्तिसंतापादिव समं दिवसेनास्तमुपगतवति तेजसांपतो, तेजःपतिपतनाच्चितानलमिव संध्यारागमपराशया सह विशति पश्चिमे गगनभागे, संध्यानलस्फुलिङ्गनिकर इव स्फुरति तारागणे, दिवसविरामान्मूर्छागमेनेव तमसा निमील्यमानेषु दिङ्मुखेषु, निवासाभिमुखमुखरेषु वियद्वियोगदुःखादिव कृतान्तप्रलापेषु वयःसमूहेषु, जनितप्रकाशं जन्मेवोलोक्य दोषागमं निरालोकं गर्भमिव तमःप्रविष्टे पुनर्जीवलोके, निजालोकाधिकाशितपूर्वदिग्वधूवदने जन्मान्तरागत इवोदयगिरिवर्तिनि नक्षत्रसमागमसुखमनुभवति भगवति भूयोभूयः स्वकान्तिनिर्भरानिष्कलङ्क इव नक्षत्रनाथे, विस्पष्टायां निशीथिन्याम, प्रस्थान - *********** प्रस्थातव्यं चलितव्यम् । तैर्गणकैरित्यावेदित इति ज्ञापिते साधु कृतं शुभं विहितमिति मुदितचेताः प्रमुदितमनास्ताञ्ज्योतिर्विदोऽभिष्टुत्य स्तुति कृत्वा दृष्टिविषयवर्तिनीमेव प्रत्यक्षगतामेव कादम्बरी वैशम्पायनं च मन्यमानो ज्ञायमानोऽप्रविष्टायामेवाप्राप्तायामेव पत्रलेखायामहं परापतामि गच्छामीत्यग्रप्रधावितेन पुरस्तात्त्वरितगत्या चलितेन चेतसा स्वान्तेनावधारयनिश्चिन्वंश्चतुःसमुद्रेषु चतुरम्भोनिधिषु सारभूतान्हयभूतानिन्द्रायुधस्य रयोवेगस्तस्यानुगामिनोऽनुयायिनोऽगणेयानसंख्येयांस्तुरङ्गमानवानगणितोऽवमानितस्तुरंगमेनाश्चेन गमनं चलनं तस्मात्खेदो यैस्तानुत्साहिन उत्साहवतो राजपुत्रांश्च नृपसुतानिरूपयन्पश्यन् । न विद्यतेऽन्यत्कर्म यस्य सोऽनन्यकर्मा तं दिवसमेकां च यामिनी कथंकथमपि महता कष्टेनास्थात्तस्थौ। ___ अथेति प्रकारान्तरे । अनुरक्ता या कमलिनी नलिनी तस्याः समागमः संयोगस्तस्याप्राप्तिरलब्धिस्तया यः संतापस्तप्तिस्तस्मादिव दिवसेन समं सार्धं तेजसापतौ श्रीसूर्येऽस्तमुपगतवति प्राप्तवति सति । तेजःपतिपतनात्सूर्यपतनात् । रक्तत्वसाम्यादाह - अपराशया पश्चिमया सह पश्चिमे गगनभागे चितानलमिव चितावहिमिव संध्यारागं विशति प्रविशति सति । संध्यानलस्य स्फलिङगा अग्निकणास्तेष तारागणे स्फुरति दीप्यमाने सति । दिवसस्य विरामादवसानान्मूर्छागमेनेव मोहागमेनेव तमसाऽन्धकारेण दिङ्मुखेषु दिशाननेषु निमील्यमानेषु संकोच्यमानेषु । निवासस्याभिमुखाः संमुखाश्च ते मुखरा वाचालाश्च तेषु वियत आकाशस्य वियोगस्तस्य यहुःखं तस्मादिव कृतो विहितोऽन्तःप्रलापो विलापो यैरेवंभूतेषु वयःसमूहेषु पक्षिसंघातेषु । जनितो विहितः प्रकाश आलोको येनैवंभूतं जन्मेवालोक्य विलोक्य दोषागमनं त्रियामागमं निरालोकं निःप्रकाशं गर्भमिव भ्रूणमिव तमःप्रविष्टे पुनर्जीवलोके विष्टपे सति । निजालोकात्स्वप्रकाशाद्विकाशितं प्रकाशितं पूर्वदिगेव वधूस्तस्या वदनं येन स तस्मिजन्मान्तरागत इव भवान्तरागत इवोदयगिरिवर्तिन्युदयाचलस्थिते भूयो भूयो वारंवारं स्वकान्तिनिर्भरौत्स्वदीप्तिसंभारानिष्कलङ्के इव नक्षत्रनाथे चन्द्रे भगवति नक्षत्रसमागमसुखं तारकामेलापकसौख्यमनुभवत्यनुभवविषयीकुर्वति सति । निशीथिन्यां त्रियामायां विस्पष्टायां प्रकटायां - टिप्प० -1 'कृतार्तप्रलापेषु कृतः आर्तप्रलापो यैस्तेषु । 2 कान्त्यतिशयात्र निष्कलकत्वम् । अत एव 'स्वकान्तिनिहरात्' इत्येव पाठः । पाठा० - १ इति ताम्. २ प्रविष्टायाम्. ३ अग्रतः. ४ दिग्गगनभागे. ५ आप्रिलापेषु. ६ समालोक्य. ७ प्रस्थानमङ्गल. - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - 584 कादम्बरी। कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy