________________
'सर्वेन्द्रियाण्येव नियमयामि' इति निश्चित्य मौनग्रहणमकरवम् । आलप्यमानोऽप्यातर्ण्यमानोऽप्याहन्यमानोऽपि त्रुट्यमानोऽपि च बलान किंचिदप्यवदम् । केवलमुच्चैचीत्कारमेवामुञ्चम् । उपनीतेऽपि च पानाशने तं दिवसमनशनेनैवात्यवाहयम् ।
अन्येाश्चातिक्रामत्यशनकाले मे दूयमाने हृदये च सा स्वपाणिनोपनीय नानाविधानि पक्वान्यपक्वानि च फलानि, सुरभि शीतलं च पानीयमप्रतिपन्नतदुपभोगं मामारोपितलोचना स्निह्यन्तीवावोचत् - 'क्षुत्पिपासार्दितानां हि पशुपक्षिणा निर्विचारचित्तवृत्तीनामुपनतेष्वाहारेष्वनुपयोगो न संभवत्येव । तद्यद्येवंविधस्त्वं कोऽपि भोज्याभोज्यविवेककारी पूर्वजातिस्मरोऽस्मदीयमाहारं परिहरसि, तथापि तावद्भक्ष्याभक्ष्यविवेकरहितायां तिर्यग्जातौ वर्तमानस्य ते किं वाऽभक्ष्यं यन्न भक्षयसि ? येन चोत्कृष्टतमा जातिं प्राप्यात्मनैवेदृशं कर्म कृतं येन तिर्यग्योनौ पतितः, स किमपरं विचारयसि ? प्रथममेवात्मा न विवेके स्थापितः । अधुना स्वकर्मोपात्तजातिसदृशमाचरतस्ते नास्त्येव दोषः । अपि च येषामपि भक्ष्याभक्ष्यनियमोऽस्ति, तेषामप्यापत्काले प्राणानां संधारणमभक्ष्योपयोगेनापि तावद्विहितम्, किं पुनस्त्वा -
***********
करणानि नियमयामि नियन्त्रयामीति निश्चित्येति निर्णयं कृत्वा मौनग्रहणमकरवम् । आलप्यमानोऽपि संभाष्यमाणोऽप्यातय॑मानोऽपि तर्जनां क्रियमाणोऽप्याहन्यमानोऽपि ताड्यमानोऽपि बलाद्धठात्रुट्यमानोऽपि छिद्यमानोऽपि च न किंचिदप्यहमवदमब्रुवम् । केवलमुच्चैस्तारस्वरं चीत्कार पूत्कृतिविशेषममुञ्चम् । उपनीतेऽपि चानीतेऽपि च पानाशने जलप्राशने तं दिवसमशेषं समग्रमनशनेनैवाभोजनेनैवात्यवाहयं व्यतिक्रामम् ।
अन्येयुश्चेति । अन्यस्मिन्नहन्यशनकाले भोजनकालेऽतिक्रामति सति, मे मम हृदये चित्ते दूयमाने पीड्यमाने सति च, सा चण्डालदारिका स्वपाणिना निजहस्तेनोपनीयानीय नानाविधान्यनेकप्रकाराणि पक्वानि परिणतान्यपक्वान्यपरिणतानि च फलानि सस्यानि सुरभि सुगन्धं शीतलं शिशिरं च पानीयं जलं चाप्रतिपन्नोऽस्वीकृतस्तेषां फलजलानामुपभोगो ग्रहणं येन स तथैवंभूतं मामारोपितलोचना संस्थापितनयना स्निह्यन्तीव स्नेहं कुर्वन्तीवावोचदब्रवीत् । किं तदित्याह - क्षुदिति । क्षुत्पिपासाभ्यामर्दितानां पीडितानाम् । हीति निश्चितम् । पशुपक्षिणां निर्गतो विचारो वितर्को यस्या एवंविधा चित्तवृत्तिर्येषां ते तथा तेषामुपनतेष्वानीतेष्वाहारेष्वनुपयोगोऽनाभोगो न संभवत्येव नास्त्येव । तद्यदि त्वं भवानेवंविध एतादृशः कोऽप्यनिर्वचनीयस्वरूपो भोज्याभोज्ययोर्भक्ष्याभक्ष्ययोविवेकः पृथगात्मता तं करोतीत्येवंशीलः पूर्वजातिस्मरोऽस्मदीयमास्माकीनमाहार भोज्यं परिहरसि त्यजसि, तथापि तथात्वेऽपि तावद्भक्ष्याभक्ष्याविवेकरहितायां भोज्याभोज्यविवेचनवर्जितायां तिर्यग्जातौ वर्तमानस्य स्थितवतस्ते तवाभक्ष्यमभोज्यं किं किमिव, यद्यस्मात्कारणान भक्षयसि नात्सि ? येन च कारणेनोत्कृष्टतमा प्रकृष्टतरामुत्कृष्टतरां जाति प्राप्यासाद्यात्मनैवेदृश कर्म कृतं येन कर्मणा तिर्यग्योनौ पतितः, स त्वमपरमन्यत्किं विचारयसि किं विमर्शयसि ? प्रथममेवादावेवात्मा न विवेके तत्त्वातत्त्वविचारे स्थापितः । अधुना सांप्रतं स्वकर्मणोपात्ता प्राप्ता या जातिस्तस्याः सदृशमनुकूलमाचरतः कुर्वतस्ते तव नास्त्येव दोषः । अपि चेति युक्त्यन्तरे । येषामपि पुरुषाणां भक्ष्याभक्ष्ययो ज्याभोज्ययोर्नियमो विरतिरस्ति, तेषामपि जनानामापत्काले विपत्समये प्राणानां संधारणं रक्षणमभोज्योपयोगेनाप्यभक्ष्यग्रहणेनापि तावद्विहितं तदा त्वादृशस्य भवत्सदृशस्य किं -
-- - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 त्रुट्यतिरकर्मकः, अत एव 'तुद्यमानः' (पीड्यमानः) इत्युचितः पाठः । 2 पानं च अशनं च पानाशनम् (समाहारः) तस्मिन् । 3 'आलोहितलोचना' इति पाठः ।
-
-
पाठा० - १ अपरेयुश्च. २ दूयमानहृदयेव. ३ उपयोगम्. ४ आरोषित; आरोधित. ५ अर्चितानाम्. ६ निर्विकार. ७ परिहासि. ८ त्वम्, ९ विवेकेन. १० येषां च..
[692
कादम्बरी।
कथायाम्