SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ह्लादकरम्, उपजनितविषमोच्छ्वासश्रममस्वेदमपि ससीत्कारपुलकजननम्, अनुभूयमानमप्युत्पादितानुभूयमानस्पृहम्, सहसवारानुभूतमप्यपुनरुक्तम्, अतिस्पष्टमप्यनिर्देश्यस्वरूपम्, अचिन्त्यमसमासङ्गमतुलस्पर्शमनुपमरसमनाख्येयप्रीतिकरं परमध्यानसहसाधिगतं निर्वाणमिवापरकारं सुरताख्यं सुखान्तरमनुभूय निमेषमप्यकृतविरहस्तेया सह तेषु तेषु रम्येषूदेशेषु रममाणः स्वभावरम्यमपि रमणीयतरतां यौवनमुपनयामि । एवमुत्पन्नविश्रम्भा देवीमेवाभ्यर्थ्य वैशम्पायनस्यापि मदलेखया सह घटनां कारयामि' इत्येतानि चान्यानि च चिन्तयन्नचेतितक्षुत्पिपासातपश्रमोजागरव्यथो दिवारात्रौ चावहत् । एवं च वहतोऽप्यस्य दवीयस्तयाध्वनोऽर्धपथ एव कालसर्पो वर्त्मनः, प्रबलपङ्को ग्रीष्मस्य, निशागमो गभस्तिमतः, स्वर्भानुरमृतदीधितेः, धूमोद्गमो वज्रानलस्फुरितानाम्, मदागमो - *********** येनैवभूतमप्याह्लादकर प्रमोदजनकम्, उपजनित उत्पादितो विषमो दुःसह उच्छासश्रमस्वेदो येन तत् । तत्रोच्छासः श्वासः, श्रमः खेदः, स्वेदो धर्मजलम्, एतादृशमपि ससीत्कारं ससीत्कृतं यथा स्यात्तथा पुलकजननं रोमाञ्चोत्पादकम्, अनुभूयमानमपि साक्षाक्रियमाणमप्युत्पादिता जनितानुभूयमानस्य साक्षाक्रियमाणस्य स्पृहा वाञ्छा येन तत् । सहसवारमनेकवारमनुभूतमपि सेवितमप्यपुनरुक्तमनामेडितम्, अतिस्पष्टमप्यतिप्रकटमप्यनिर्देश्यं दर्शयितुमशक्यं स्वरूपं स्वभावो यस्य तत् । अचिन्त्यमिदमेतदिति चिन्तयितुमशक्यम् । न विद्यते समासङ्गः संबन्धो यस्य तत् । अतुलो निरुपमः स्पर्शो यस्य तत् । अनुपमः सर्वेभ्योऽतिशायी रसो यस्य तत् । अनाख्येयां कथयितुमशक्यां प्रीतिं स्नेह करोतीति करः । अनाख्येयप्रीतेः करोऽनाख्येयप्रीतिकरः । अन्यथा कर्मणि वृद्धौ कारः स्यात् । परममुत्कृष्टं यद् ध्यानमेकप्रत्ययसंततिस्तस्य सहसं तेनाधिगतं सहितमपरप्रकारमितरस्वरूपं निर्वाणमिव ब्रह्मोव । सुरतेत्याख्या यस्यैवंभूतं सुखान्तरमेकस्मात्सुखादन्यत्सुखं सुखान्तरमनुभूयानुभवविषयीकृत्य निमेषमपि चक्षुर्निमीलनमात्रमपि तया सहाकृतो विरहो वियोगो येनैवंभूतोऽहं तेषु तेषु रम्येषु मनोहरेषूद्देशेषु प्रदेशेषु रममाणः क्रीडां कुर्वाणः स्वभावेन निसर्गेण रम्यं रमणीयमपि यौवनं तारुण्यमतिशयेन रमणीयं रमणीयतरं तस्य भावस्तत्ता ता उपनयामि प्रापयामि । एवमिति । पूर्वोक्तरीत्योत्पन्नः संजातो विश्रम्भो विश्वासो यस्याः सैवंविधा देवी कादम्बरीमभ्यर्थ्य प्रार्थनां कृत्वैव वैशम्पायनस्यापि मदलेखया सह घटनां संबन्धं कारयामि विरचयामि । अवहदित्यन्वयस्तु पूर्वमुक्तः । एवमिति । पूर्वोक्तप्रकारेण वहतोऽपि गच्छतोऽप्यध्वनो मार्गस्य दवीयस्तयातिदूरतया । ‘दवीयश्च दविष्ठं च सुदूरे दीर्घमायतम्' इत्यमरः । अर्धपथ एवार्धमार्ग एव जलदकालो वर्षासमयो बभूवाजनिष्ट । तमेव विशेषयन्नाह - कालेत्यादि । वर्त्मनो मार्गस्य कालसर्पः कृष्णाहिः । गमनविघ्नकारित्वादुपमानम् । ग्रीष्मस्य निदाघस्य प्रबलपङ्को बहुलकर्दमः । पङ्कः कर्दमः । गभस्तिमतः श्रीसूर्यस्य निशागमो रजन्या उद्भवः, रविकरप्रसरप्रतिरोधकारित्वात् । अमृतदीधितेश्चन्द्रस्य स्वर्भानू राहुः । सर्वतस्तत्प्रकाशप्रतिरोधकत्वात् । वज्रं पविस्तस्यानलो वह्निस्तस्य स्फुरितानां विस्फूर्जितानां धूमोद्गमो धूमप्रादुर्भावः । यदि वा धूमोद्गमो धूमकेतोरुदयः । यथा धूमकेतोरुदयेन सर्वसस्यानां विनाशस्तथैवानेन वज्रानलस्येति भावः । मकरध्वजकुञ्जरस्य कंदर्पगजस्य मदागमौ - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 अविचारितमिदम् । 'प्रबलकम्पः' इति पाठः । ग्रीष्मस्य तापनिवृत्त्या, अथवा प्रबलझञ्झावातात् प्रबलकम्पकरः । पाठा० - १ अनिर्दिश्य. २ अचिन्त्यसमागमम्. ३ निर्वाणसुखम्. ४ प्रकाशम्. ५ तयैव. ६ देशेषु. ७ स्वयमेव रम्यम्. ८ उत्पन्नसहसविश्रम्भाम्. ९ जागर. १० कम्पः. मार्गे गच्छतश्चन्द्रापीडस्य विचाराः उत्तरभागः। 595
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy