SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ निर्वर्तयामि । एवमतिबहलकुङ्कुमकुसुमधूपानुलेपनामोदोद्दीपितहृदयजन्मनि वासभवने शेयनवर्तिनो मम समीपमुपविश्य क्षैणमपि कृतनर्मालापायां निर्गतायां मदलेखायां त्रपावनम्रमुखीमनिच्छन्तीं किल बलाद्दोर्भ्यामादाय शयनीयम्, शयनी - यादङ्कमङ्काच्च हृदयम्, देवीं कादम्बरीमारोपयामि । एवमुद्भटनीवीग्रन्थिदृढतरार्पितेपाणिद्वयायास्त्रपानिमीलितलोचने चुम्बैन्नवञ्चितात्मा चिराद्भवामि । एवं सुरैरपि दुर्लभं तदधरामृतमातृप्तेर्निपीय सुजीवितमात्मानं करोमि । एवमतिकोमलतयान्तर्विलीय विशन्त्या ड्वाङ्ग गाढालिङ्गनसुखरसभरेण मकरध्वजानलदग्धशेषं निर्वापयामि शरीरम् । एवं परवत्यापि स्वेच्छाप्रवृत्तयेव निष्प्रयत्नयाप्यभियुञ्जानयेवापसर्पन्त्यापि कृतात्मार्पणयेव संगोपितसर्वाङ्गर्याप्युपदर्शितभावयेव देव्या कादम्बर्या सह न किमपि सर्वजनसुलभमपि योगैकगम्यम् स्पर्शविषयमपि हृदयग्राहि, मोहनमपि प्रसादनमिन्द्रियाणाम्, उद्दीपनमपि मदनहुतभुजो निर्वृतिकरम्, उपाहितसर्वाङ्गस्वेदमप्या - *********** णातिबहलानि निबिडानि कुङ्कुमानि केसराणि, कुसुमानि पुष्पाणि, धूपास्तुरुष्काः, अनुलेपनानि विलेपनानि, एतेषामामोदः परिमलस्तेनोद्दीपितः प्रगुणीकृतो हृदयजन्मा कामो यस्मिन्नेतादृशे वासभवने निवासगृहे शयनीयवर्तिनस्तल्पगतस्य मम समीपमभ्यर्णं क्षणमप्युपविश्यास्थाय कृतो नर्मालापो हास्यालापो ययैवंभूतायां मदलेखायां निर्गतायां बहिर्गतायां सत्यां त्रपया लज्जयावनम्रमवनतं मुखं यस्याः सैवंभूतामनिच्छन्तीमवाञ्छन्तीम् । किलेति सत्ये । बलाद्धठाद्दोर्भ्यां बाहुभ्यामादाय गृहीत्वा शयनीयं शय्याम्, शयनीयादङ्कमुत्सङ्गम्, अङ्काच्च हृदयं स्तनान्तरं देवीं कादम्बरीमारोपयाम्युपरि स्थापयामि । एवमिति । उद्धटा या नीव्र्व्युच्चयस्तस्या ग्रन्थिस्तस्यां दृढतरमतिनिबिडमर्पितं स्थापितं पाणिद्वयं करयुगलं यया सा तथा तस्यास्त्रपया लज्जया निमीलिते मुद्रिते लोचने नेत्रे चुम्बंश्चुम्बनं कुर्वन् । चिराद्बहुकालमवञ्चितात्मा कृतार्थीकृतात्मा भवामि । एवमिति । तदनन्तरं सुरैरपि देवैरपि दुर्लभं दुष्प्रापं तस्या अधरामृतं दन्तवस्त्रपीयूषमातृप्तेः पानेच्छानिवृत्तिपर्यन्तं निपीय पानं कृत्वा सुष्ठु जीवितं प्राणितं यस्यैवंभूतमात्मानं करोमि सृजामि । एवमतिकोमलतयातिमृदुतयान्तर्मध्ये विलीय द्रवीभूयाङ्ग शरीरं विशन्त्येव प्रवेशं कुर्वन्त्येव गाढं निबिडं यदालिङ्गनमुपगूहनं तस्य सुखं सौख्यं तस्य रसस्तस्य भर आधिक्यं तेन मकरध्वज एवानलो वह्निस्तेन दग्धशेषं प्रज्वलनादुर्वरितं शरीरं देहं निर्वापयामि शीतलीकरोमि । एवमिति पूर्वोक्तमिव परवत्यापि पराधीनयापि स्वेच्छाप्रवृत्तयेव यदृच्छासंचारिण्येव, निष्प्रयत्नयापि कृतिरहितयाप्यभियुञ्जानयेवाभिनोदयन्त्येव, अपसर्पन्त्याप्यपसरणं कुर्वन्त्यापि कृतो विहित आत्मनोऽर्पणं ययैवंभूतयेव, संगोपितानि गुप्तानि सर्वाङ्गानि ययैवंभूतयाप्युत्प्राबल्येनोपदर्शितो भावोऽभिप्रायो ययैवंभूतयेव देव्या कार्या तत्किमप्यनिर्वचनीयं सर्वजनानां समग्रनराणां सुलभमपि सुप्रापमपि योगेन चित्तैकाग्ग्रलक्षणेनैकं केवलं गम्यं ज्ञेयम् । 'एके मुख्यान्यकेवलाः ' इति कोशः । स्पर्शस्य विषयमपि हृदयग्राहि स्तनान्तरग्रहणशीलम्, मोहनमपि वैचित्त्यजनकमपि प्रसादनं प्रसन्नकृदिन्द्रियाणां करणानाम्, उद्दीपनमप्यतिप्रकाशकमपि मदनहुतभुजः कामवह्नेर्निर्वृतिकरमुपशमकरम्, उपाहितः स्थापितः सर्वाङ्गेषु स्वेदो घर्मजलं - टिप्प० - 1 नीवी अधोवस्त्रबन्धनम् । 2 'उपाहितसर्वाङ्गखेदमपि उपाहितो जनितः सर्वेषामङ्गानां खेदः श्रमो यस्मिन् तत् इति पाठः । पाटा० - १ भूषानुलेपन. २ शयनीयवर्तिनो मम समीपम्; शयनवतीं मत्समीपे समुपविश्य. ३ क्षणमिव. ४ उद्गाढ. ५ पाणिद्वयाम्. ६ अचुम्बितात्मा. ७ अङ्गमङ्गम्. ८ कृतोपसर्पणया. ९ उद्दर्शित. १० विषम्. ११ निवृत्ति. 594 कादम्बरी । कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy