________________
प्रतिपत्तिशून्यं हतहृदयम्, येनान्तःप्रविष्टोऽपि न पारितो धारयितुम् । तदेव चैतच्छरीरं येन तत्समीपे चिरमुदासीनेन स्थितम् । स एव चायं पाणिः, योऽलीकगुरुजनापेक्षी नात्मानं परिग्राहितवान् । अनपेक्षितपरपीडश्चन्द्रापीडोऽपि स एव, योऽत्र वारद्वयमागत्य प्रतिगतः । मय्येवोपक्षीणमार्गणतया वाकिंचित्करोऽन्यत्र पञ्चशरोऽपि स एव, यस्त्वयावेदितो मे।
प्रतिज्ञातं च मया महाश्वेतायाः 'त्वयि दुःखितायां नाहमात्मनः पाणिं ग्राहयिष्यामि' इति । तामहं पुनरप्यवदम् । सा तु 'देवि, मैवं स्म मनसि करोः । कुमतिरियम् । अतिदारुणोऽयं पापकारी मकरकेतुः कदाचिददृश्यमाने प्रियजने जनितहृदयानुरागाज्जीवितमप्यपहरति' इत्यब्रवीत् । तदपि नास्त्येव मे । मदनेन वा, देवेन वा, विरहेण वा, यौवने वा, -
***********
रर्थे । इदं प्रत्यक्षं तदेव हतहृदयं दैवेन हतं ताडितं हृदयं चेतः । कीदृशम् । अप्रतिपत्तिरज्ञानं तेन शून्यम् । तत्किम् । येन हृदयेनान्तःप्रविष्टोऽपि मध्यगतोऽपि धारयितुं ग्रहीतुं न पारितः । च पुनरर्थे । एतच्छरीरं तदेव । तत्किम् । येन शरीरेण तत्समीपे चन्द्रापीडसंनिधौ चिरं बहुकालमुंदासीनेन तटस्थेन स्थितम् । स एवायं पाणिर्हस्तः । स कः । योऽलीकोऽसत्यो गुरुजनो मातृपित्रादिस्तमपेक्षते इत्येवंशीलः स तथात्मानं स न परिग्राहितवान् । अनपेक्षिता परस्य अर्थान्मम पीडा येनैवंविधश्चन्द्रापीडोऽपि स एव नान्यः । स कः । योऽत्र मत्पार्थे वारद्वयं द्विवारमागत्यागमनं कृत्वा प्रतिगतो निवृत्तः । मय्येव मयि विषय एव । नान्यत्रेत्यर्थः । उपक्षीणा नष्टा मार्गणा बाणाः शरा यस्य स उपक्षीणमार्गणस्तस्य भावस्तत्ता तया । वाशब्द इवार्थे । तथा चोपक्षीणमार्गणतया इव । अन्यत्र चन्द्रापीडादौ न किंचिद्दुःखादिक करोतीत्यकिंचित्करः पञ्चशरोऽपि कामोऽपि स एव । स कः । यस्त्वया सख्या मे ममावेदितस्तत्स्वरूपज्ञापनपूर्वकं निवेदितः ।
महाश्वेताया मयेदं प्रतिज्ञातं च पुनरहं तां महाश्वेतामित्यवदमवादिषम् । इतीति किम् । तदेवाह - प्रतिज्ञातमिति । अङ्गीकृतं च । तदेव दर्शयन्नाह - त्वयीति । त्वयि महाश्वेतायां दुःखितायां नाहं कादम्बर्यात्मनः स्वपाणिं करं ग्राहयिष्यामि । उद्वाहं न करिष्यामीत्यर्थः । सौ तु महाश्वेतेत्यब्रवीत् । इतीति किम् । हे देवि, एवं मनसि चित्ते त्वं माकरोर्मा कार्षीः । 'मेऽटि' इत्यटो लोपः । तदकरणे हेतुं प्रदर्शयन्नाह - कुमतिरिति । कुत्सिता मतिः कुमतिरियं न सम्यग्बुद्धिः । कथमित्याह - अतीति । अयं पापकार्यधर्मजनको मकरकेतुः कंदर्पोऽतिदारुणोऽतितरां भीषणः कदाचिन्न सर्वदा दृश्यमानेऽवलोक्यमाने प्रियजने वल्लभजने जनितहृदयानुरागादुत्पादितमानसिकस्नेहाज्जीवितमपि जीवनमप्यपहरत्यपाकरोति । प्रियजनस्यादृश्यमानत्वं नास्तीत्याशङ्कयाह - तदपीति । तदपि प्रियजनादृश्यमानत्वं मे मम नास्त्येव न विद्यत एव । एतदेव स्पष्टीकुर्वन्नाह - दैवेनेत्यादि । मदनेन वा, कंदर्पण वा, देवेनादृष्टेन वा । विरहेण वियोगेन वा, यौवनेन तारुण्येव वा, अनुरागेन स्नेहेन वा, - टिप्प० - 1 'किंचाधुनाप्यधिकमुपयातम्' इत्यारभ्य एतावत्पर्यन्तस्य - 'न किञ्चिनवीनं जातम् । अहं कुमारादि च सर्वं तदेव । किञ्च महाश्वेतासविधे प्रतिज्ञावशाद्विवाहेऽप्यहं विवशा । अत एव कुमारागमनेन किं मे' इति प्रणयकोपसूचने तात्पर्यम् । 2 'हरति । एतावत्पर्यन्ता पत्रलेखाया उक्तिः । एतदग्रे 'सा तु अब्रवीत् इति पाठः । ततश्च ‘सा तु अब्रवीत् 'एतदने 'तदपि नास्त्येव मे एतदारभ्य 'तदानयनकथया' इति कादम्बयुक्तिः । 3 न हि सेयं महाश्वेताया उक्तिः । सा किल देवीति न तां संबोधयेत् । “तामहं पुनरप्यवदम्-'देवि'-" इत्यादिका पत्रलेखाया उक्तिः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ चिरतत्समीपेऽपि. २ उदासीनं स्थितम्. ३ अलीकगुरुजनापेक्षणात्. ४ इति । सा तु. ५ मैतन्मनस्यकरो. ६ जनितहृदयानुरागः, हृदयानुरागात्. ७ हरति. ८ एतदपि.
कादम्बर्याः सदेशश्रवणम्
उत्तरभागः ।