SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अनुरागेण वा, मदेन वा, हृदयेन वा, अनेन वा केनापि दत्तः संकल्पमयःकुमारो जनसंनिधावपि केनचिदविभाव्यमानः सिद्ध इव सर्वदा मे ददाति दर्शनम् । अपि चौसाविव नायमकाण्डपरित्यागनिष्ठुरहृदयः । अयमेवास्मद्विरहकातरः । नायं नक्तदिवं लक्ष्म्या समाकुलः । न पृथिव्याः पतिः । न सरस्वतीमपेक्षते । न कीर्तिशब्द वर्धयति । पश्यामि चाहर्निशमासीनोत्थिता भ्राम्यन्ती शयाना जाग्रती निमीलितलोचना चलन्ती स्वप्नायमाना शयने श्रीमण्डपे गृहकमलिनीषूयानेषु लीलादीर्घिकासु क्रीडापर्वतके बालगिरिनदिकासु च यथा तमज्ञजनविडम्बनैकहेतुं विप्रलम्भक कुमारं ते तथा कथितमेव मया । तदलमनया तदानयनकथया' इत्यभिदधानाऽतर्कितागतमूडूंव निमीलिताक्षी पक्ष्माग्रसंपिण्डितनयनजलवर्षिणी विलीयमानेवोत्पीड्यमानेवान्तर्जातमन्युवेगेन तथैव वेदिकाविताननाभिदामांशुकावलम्बिन्यां - *********** मदेन मत्ततया वा, हृदयेनान्तःकरणेन वा । अत्र वाशब्दः सर्वत्र विकल्पार्थः । किं विकल्पान्तरेण । अनेनानुद्दिष्टनाम्ना वा केनापि दत्तोऽर्पितः संकल्पमयः कल्पनात्मकः कुमारश्चन्द्रापीडो जनानां लोकानां संनिधावपि समीपेऽपि केनचिदविभाव्यमानोऽज्ञायमानागमनः सिद्ध इवाणिमायष्टगुणोपेत इव मे मम सर्वदा दर्शनं ददाति वितरति । अपि चेति प्रकारान्तरे । असाविव चन्द्रापीड इवायं संकल्पककुमारोऽकाण्डेऽप्रस्तावे यः परित्यागो मोचनं तस्मिनिष्ठुरं निर्दयं हृदयं यस्यैवंभूतो न । अयमेव संकल्पकुमार एवास्माकं विरहे वियोगे कातरो भीरुः । एतदर्थमन्यासक्तिप्रतिषेधद्वारा स्पष्टीकुर्वनाह - नायमिति । अयं पूर्वोक्तो नक्तंदिवमहर्निशं लक्ष्म्या रमया समाकुलो व्याकुलीभूतो न । तथा पृथिव्या वसुंधरायाः पतिः स्वामी न । तथा सरस्वतीं वाणी नापेक्षते नेहते । तथा कीर्तिशब्दं यशोवादं न वर्धयति न वृद्धिं नयति । सर्वदा तत्स्वरूपमहं पश्यामीत्याशयेनाह - पश्यामीति । यथा येन प्रकारेण तं चन्द्रापीडाभिधमज्ञजनो मूर्खजनस्तस्य विडम्बनाया विरहादिरूपायामेकमद्वितीयं हेतुं कारणं विप्रलम्भकं वञ्चकं कुमारमहं कादम्बर्यासीनोपविष्टा, उत्थितो भूता, भ्राम्यन्तीतस्ततः पर्यटन्ती । विरहादिति शेषः । शयाना स्वापं कुर्वाणा, जाग्रत्यशयाना, निमीलितलोचना मुद्रितनयना, चलन्ती स्वेच्छया गच्छन्ती स्वप्नायमाना स्वप्नं पश्यन्ती, शयने शय्यायाम, श्रीमण्डपे श्रियोपलक्षितजनाश्रये, गृहकमलिनीषु सदनपद्मिनीषु, उद्यानेषूपवनेषु, लीलादीर्घिकासु क्रीडावापीषु, क्रीडापर्वतके क्रीडाशैले, बालगिरिः क्रीडार्थं निर्मितः शैलस्तस्य नदिकासु स्वल्पतटिनीषु चाहर्निशमहोरात्रं पश्याम्यवलोकयामि । तथा तेन प्रकारेण मया कादम्बर्या कथितमेव पूर्वं निवेदितमेव । तदिति पूर्वोक्तहेतोरनया मानसिकप्रत्यक्षया । 'इदमः प्रत्यक्षगतम्' इत्युक्तेः । तस्य कुमारस्यानयनम् । उज्जयिन्या मत्समीपानयनमित्यर्थः । तस्य कथा वार्ता तया अलं भृतम् । इत्यभिदधानेति जल्पन्त्यतर्किताऽसंभाविता मूर्छा मोहो यस्याः सेव । सहसा प्राप्तमूर्छवेत्यर्थः । निमीलिते मुद्रिते अक्षिणी लोचने यया सात एव पक्ष्मणां नेत्ररोग्णामग्रेषूपरिभागेषु संपिण्डितं पिण्डीभूतं यन्नयनयोर्जलं तद्वर्षतीत्येवंशीला । तथान्तर्मध्ये जातो मिथ्या किं जीवितेनेत्यादिप्रभवो यो मन्युवेगः क्रोधरयस्तेन विलीयमानेव द्रुततां गच्छन्तीव, उत्पीड्यमानेवोत्प्राबल्येन पीडां प्राप्यमाणेव, तथैव तथावस्थैव वेदिका बद्धभूमिस्तस्या वितानमुल्लोचस्तस्य नाभिर्मध्यप्रदेशस्तत्र यद्दाम तनिष्ठं यदंशुक हस्तक्षतनिवारणार्थं वस्त्रं निबध्नन्तीति सार्वत्रिकी प्रसिद्धिस्तदवलम्बत इत्येवंशीलायां बाहुलतिकायां भुजलतायामाननं मुखमुपावेश्य संस्थाप्य तूष्णीं मौनेन तस्थौ स्थितवती । अत एवोत्कीर्णेव लोह(श)लाकाक्षोदितेव । पाठा० - १ अन्येन. २ आदाविवासौ. ३ तस्मादस्मदिरहमरणभयहरः. ४ लक्ष्मीसमाकुलः. ५ उच्छ्रिता. ६ च गृहशयने. ७ गृहे कमलिनीषु; गृहदीर्घिकाकमलिनीषु. ८ अभिदधाना गुरुमन्युभारवेगा. (490) कादम्बरी। । कथायाम्-)
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy