________________
लोकहृदयेभ्योऽपि निघृणतरसर्वसंव्यवहारसमस्तपुरुषम्, अविशेषाचारवालयवस्थविरम्, अव्यवस्थितगम्यागम्याङ्गनोपभोगम्, अपुण्यकर्मैकोपणं पक्कणमपश्यम् ।
दृष्ट्वा च तं तादृशं नरकवासिनोऽप्युद्धेगकरं समुत्पन्नघृणोऽन्तरात्मन्यकरवम् - 'अपि नाम सा चाण्डालदारिका दूरत एव मामालोक्योत्पन्नकरुणा मोचयेत् ? न जातिसदृशमाचरिष्यति ? भविष्यन्त्येवंविधानि मे पुण्यानि ? न निमेषमप्यत्र पदं कुर्याम्' इत्येवं कृताशंसमेव मां नीत्वा स चण्डालस्तदा दुर्दर्शनाकारवेषायै दूरतः स्थितः प्रणम्य 'एष स मया प्राप्तः' इति तस्यै चण्डालदारिकायै दर्शितवान् । सा तु प्रहृष्टतरवदना 'शोभनं कृतम्' इति तमभिधाय तत्करात्स्वकरयुगेनादाय माम् ‘आः पुत्रक, प्राप्तोऽसि । सांप्रतं क्वापरं गम्यते । व्यपनयामि ते सर्वमिदं कामचारित्वम्' इत्यभिदधानैव धावमानचण्डालबालकोपनीतेऽर्धाश्यानलोमशदुर्गन्धिगोचर्मवध्रिकावनद्धे दृढबद्धदारुमयपानभोजनपात्रे मनागुद्घाटितद्वारे -
***********
महर्लोकात्परलोके च पामरे' इति विश्वः । अतिशयेन निस्त्रिंशं निस्त्रिंशतरमतिक्रूर लोकानां हृदयं यस्मिन्स तथा तम् । 'क्रूरे नृशंसनिस्त्रिंश-' इति हैमः । लोकहृदयेभ्य इतरजनचित्तेभ्योऽपि निघृणतरो निर्दयतरः सर्वः संव्यवहारो व्यवहृतिर्येषामेवंविधाः समस्ताः समग्रा : पुरुषा यस्मिन्स तम् । अविशेषो विशेषवर्जित आचारो येषामेवंभूता बालयुवस्थविराः पाकतरुणज्यायांसो यस्मिन्स तम् । अव्यवस्थितोऽनिश्चितो गम्यागम्याङ्गनायाः सेव्यासेव्यस्त्रिय उपभोगो यस्मिन्स तम् । अपुण्यकर्मणामश्रेयसकृत्यानामेकमद्वितीयमापणं हट्टमहं पक्कणमपश्यमित्यन्वयस्तु
पूर्वमुक्तः।
नरकवासिनोऽपि दुर्गतिस्थायिनोऽप्युद्धेगकरमरतिकरं तं तादृशमुक्तस्वरूपं दृष्ट्वा निरीक्ष्य च समुत्पन्नघृणः संजातजुगुप्सोऽन्तरात्मनि चित्तेऽकरवमकल्पयम् । किं तदित्याह - अपीति । अपि नाम कोमलामन्त्रणे । सा चाण्डालदारिका म्लेच्छबालिका दूरत एव दविष्ठत एव मामालोक्योत्पन्नकरुणा संजातकारुण्या मोचयेन्मुक्ति कुर्यात् ? जातिसदृशं कुलतुल्यं नाचरिष्यति न करिष्यति । एवंविधानि मे मम पुण्यानि श्रेयांसि भविष्यन्ति । निमेषमप्यक्षिस्पन्दनमात्रमप्यत्र पदं स्थानं न कुर्यां न विदध्याम् । इत्येवंप्रकारेण कृता विहिताशंसा स्पृहा वाञ्छा येनैवंभूतमेव मां नीत्वा स चण्डालो दुर्दर्शन आकारो वेषश्च यस्याः सा तस्यै दूरतः स्थितः प्रणम्य नमस्कृत्य स एष मया प्राप्त इति तस्यै चण्डालदारिकायै दर्शितवान्दृग्गोचरीकारितवान् । सा तु चण्डालदारिका प्रहृष्टतरं प्रमुदिततरं वदनं मुखं यस्याः सा, शोभनं शुभं कृतमिति तं भद्रमुखमभिधाय तत्करात्तत्पाणेस्तद्धस्तात्स्वकरयुगेनात्महस्तयुगेन स्वीयपाणिद्वयेनादाय गृहीत्वा माम् । आः पुत्रक सुत, त्वं प्राप्तोऽसि । अतोऽस्मात्स्थानादिति गम्यम् । सांप्रतं क्वापरमग्रे गम्यते गमनं क्रियते । ते तव सर्वं कामचारित्वं स्वेच्छाविहारित्वं व्यपनयामि दूरीकरोमि । इत्यभिदधानैवेति ब्रुवाणैव धावमानस्त्वरितगत्या गच्छमानो यश्चण्डालबालकस्तेनोपनीत आनीतेऽर्धमाश्यानं शुष्कं लोमशं लोमयुक्तं दुर्गन्धि विसगन्धि यद्गोचर्म तस्य वधिका नथ्रीतयावनद्धे बद्धे । 'पूतिगन्धिस्तु दुर्गन्धो विसं स्यादामगन्धि यत्' इत्यमरः । दृढं बद्धानि दारुमयानि काष्ठम
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'नाचरेत् ?' इत्युचितः पाठः, पूर्वप्रयुक्तेन लिङा समन्वयात् । सर्वत्र च आरम्भोपात्तेन अपिना सूचितः प्रश्नो वाक्यार्थः । 2 अग्रे सेयं शापभ्रष्टा लक्ष्मीः संपत्स्यते । नास्या वैरूप्यं कवेरभिप्रेतम्, अत एव 'अनुद्धततरवेषायै (न उग्रतरः 'सौम्यः वेषो यस्याः) इति पाठः ।
पाठा० - १ व्यवहार. २ समस्तपुरुष एककारणम्. ३ नरकवासिनाम्. ४ अशुद्धतरवेषायै. ५ दूरस्थितः; दूरत एवावस्थितः. ६ युगलेन. ७ बहुलबालक. ८ अर्घश्यान.
690
कादम्बरी।
कथायाम्