SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ष्यति' इति । स तु निवार्यमाणोऽपि दुर्निवारवृत्तेर्मदनहतकस्य दोषैर्भवितव्यतया वानर्थस्य नात्याक्षीदेवानुबन्धम् । अतीतेषु केषुचिद्दिवसेष्वेकदो गाढायां यामिन्याम्, उद्गिरत्स्विव भरेणोद्दीपितस्मरानलं ज्योत्स्नापूरमिन्दुमयूखेषु, लब्धनिद्रायां तरलिकायाम्, अप्राप्तसुखा संतापनिर्गत्यास्मिन्नेव शिलातले विमुक्ताङ्गी, कह्लारसुरभिणा मन्दमन्देनाच्छोदानिलेनावीज्यमाना, वर्णसुधाकूर्चकैरिव करैर्धवलितदशाशामुखे चन्द्रमसि निहितदृष्टिः ‘अपि नामायमेभिरमृतवर्षिभिरखिलजगदाह्लादकारिभिः करैश्चन्द्रमास्तमपि हृदयवल्लभं मे वर्षेत्' इत्याशंसाप्रसङ्गेन, देवस्य सुगृहीतनाम्नः पुण्डरीकस्य स्मरन्ती, कथमभाग्यैर्मे मन्दपुण्यायास्तादृशस्यापि दिव्याकृतेर्महापुरुषस्य तस्य नभसोऽवतीर्णस्य भाषितमलीकमुपजातम्, जातानुकम्पेन वा यथाकथंचिजीवितुमित्येव समाश्वासिता जीवितप्रिया तपस्विन्यपि येन पुनदर्शनमेव तेन मम न - *********** तस्य यूनोऽभद्रकमकल्याणं भविष्यतीति । स तु युवा तरलिकया निवार्यमाणोऽपि प्रतिषिध्यमानोऽपि दुर्निवारा वारयितुमशक्या वृत्तिर्वर्तन यस्यैवंभूतस्य मदनहतकस्य हत्याकारिणः कंदर्पस्य दोषैर्दूषणैरनर्थस्योत्पातस्य भवितव्यतया वाग्रे भावितया वानुबन्धं स्नेहं नात्याक्षीन तत्याज । __ दिवसेषु केषुचिदतीतेषु गतेषु सत्सु, एकदैकस्मिन्समये गाढायां तीव्रायां यामिन्यामुद्दीपित उत्तेजितः स्मरएवानलो वहिर्यनवंभूतं ज्योत्स्नापूर चन्द्रिकासमूहमिन्दुमयूखेषु चन्द्रकिरणेषूद्गिरत्सु विमुञ्चत्सु सत्सु, लब्धनिद्रायां प्राप्तप्रमीलायां तरलिकायामप्राप्तमलब्धं सुखं सौख्यं यया सैवंविधाहं संतापं संज्वरं तस्य निर्गत्या निर्गमनहेतुनास्मिन्नेव शिलातले विमुक्ताङ्गी न्यस्तदेहा करारं सौगन्धिकं तेन सुरभिणा सुगन्धिना मन्दमन्देनाच्छोदानिलेनाच्छोदवायुना वीज्यमानोद्भूयमाना, वर्णसुधा चेतसुधा तस्याः कूर्चकैः कुञ्चिकाभिरिव करैः किरणैर्धवलितं शुभीकृतं दशसंख्याका या आशा दिशस्तासां मुखं येनैवंविधे चन्द्रमसि कुमुदबान्धवे निहिता स्थापिता दृष्टिदृग्यया सा निहितदृष्टिः, अपि नामेति कोमलामन्त्रणे । अयं चन्द्र एभिरमतवर्षिभिः पीयषसाावेभिरत एवाखिलजगतः समाविश्वस्याह्लादकारिभिः प्रमोदजनकैः करैः किरणैः कत्वा चन्द्रमाः शशाङको मे मम तमपि हृदयवल्लभं चित्तप्रियं वर्षदृष्टिं कुर्यात् । इत्येवंरूपाशंसा स्पृहा तस्याः प्रसङ्गेन संबन्धेन देवस्य पूज्यस्य सुष्टु गृहीतं नामा यस्यैवभूतस्य पुण्डरीकस्य स्मरन्ती स्मृतिपथमानयन्ती । 'अधीगर्थदयेशां कर्मणि' इति षष्ठी । मे मम मन्दपुण्याया हीनसुकृताया अभाग्यैर्दुर्दैवैस्तस्य कपिजलस्य नभसो व्योमादवतीर्णस्योत्तरितस्य तादृशस्य दिव्याकृतेः सुन्दराकारस्य महापुरुषस्यापि कथं भाषितं जल्पितमलीक मिथ्योपजातम् । वाथवा जातानुकम्पेन समुत्पन्नकरुणेन यथाकथंचित्प्रकारेण केवलं जीवितुं प्राणितुमित्येव हेतोः समाचासिताश्वासनां कारिता येन हेतुना जीवितप्रिया प्राणितवल्लभा तपस्विनी वराक्यसि तेन हेतुना मम पुनदर्शनमेव न दत्तं पुनः समीपे - टिप्प० - 1 मत्प्रत्याशया अनुसरणमित्येवार्थः । 2 'अनवाप्तनिद्रासुखा' इत्येव पाठः । 3 'निर्गत्या' इत्यनेन निःसारणरूपो णिजर्थः कथं प्रतीयेत? 'संतापानिर्गत्यास्मिन्नेव' इति पाठः । संतापवशाद् बहिर्निर्गत्य अस्मिन्नेव शिलातले विमुक्ताङ्गीति तदर्थः, 14 कृपासिन्धो ! व्योमात् (अर्थात् व्योम्नः) न कपिञ्जलोऽवतीर्णः, अपि तु स्वयं चन्द्र एवावतीर्णः । कपिजलस्तु गगने निलीनः । 5 'जातानुकम्पेन वा यथाकथंचिज्जीवतु जीवितप्रिया तपस्विनी इत्येवमेव समाचासितास्मि' इति पाठः । अर्थः स्पष्टः । पाठा० - १ दुर्निवार्य. २ चैकदा. ३ विगाटायाम्. ४ रजन्याम्. ५ उद्दीपितं. ६ अप्राप्तनिद्रासुखा; अनवाप्तनिद्रासुखा. ७ संतापनिर्गत्या. ८ सुगन्धिना. ९ वीज्यमाना. १० कारिकरैः ११ तादृशोऽपि. १२ जीवतु जीवितप्रिया तपस्विनीत्येवमेव समाश्वासितास्मि. १३ अनेन. १४ मे. वैशम्पायनवृत्तश्रवणम् उत्तरभागः। 611)
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy