SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ नोबेल इव महाम्भोधिरुद्भ्रान्तचेताः ससंभ्रममुत्थायार्यशुकनासद्वितीयो यामावस्थितां प्रजविनीं करेणुकामारुह्य रयादापिबन्निव पुरो राजमार्गं किं किमेतदित्युन्मुक्तार्तनादकलकलेन सर्वतः प्रधावता जनपदौघेनाकर्षन्निवोदैवासयन्निव पृष्ठतः सगोपुराट्टालकप्राकारभवनतोरणामुज्जयिनीं निर्जगाम नरपतिः । उपेत्य चौवन्तीमातृगृहमवतीर्य तिर्यग्विषण्णोद्वाष्पवदनेन, मलयजजलैश्च सिञ्चता, कदलीदलैश्च वीजयता, जलार्द्रैश्च पाणिपल्लवैः संवाहनं कुर्वता, कथंकथमपि चेतनामापाद्यमानां परिजनेनार्धोन्मीलितलोचनयुगामुष्णकालकमलिनीमिव विलासवतीमपश्यत् । दृष्ट्वा च सहसा प्रवृत्तेन नेत्राम्भसा मूर्च्छावशेषापनयनायेवं सिञ्चन्समुपविश्य पार्श्वे स्पर्शामृतवर्षिणा करेण ललाटे चक्षुषि कपोलयोरुरसि बाह्वोश्च स्पृशञ्छनैः शनैर्बाष्पगद्गदमवादीत् - 'देवि, यदि सत्यमेवान्यादृशं किमपि वत्सस्य चन्द्रा - - ** सवतीपरिजनेन तस्मिन्वृत्तान्त उदन्त आवेदिते ज्ञापिते सति, मन्दरस्य मेरोरास्फालनेनोदूर्ध्वं वेला यस्य स उद्वेलो योऽब्धिः समुद्रस्तद्वदिव । क्वचित् ‘आस्फालनेनोच्छलित इव' इति पाठः । उद्भ्रान्तं चेतो यस्य स तथा ससंभ्रमं सभयमुत्थायोत्थानं कृत्वा आर्यशुकनासो यस्य स तथा । राज्ञो विशेषणम् । यामावस्थितां चतुष्किकास्थितां प्रजविनीं प्रकृष्टवेगवतीं करेणुकां हस्तिनीमारुह्यारोहणं कृत्वा रयाद्वेगात्पुरोऽग्रे राजमार्गं श्रीपथमापिबन्त्रिवापानं कुर्वन्निव । किं किमेतदित्युत्क्रान्त उत्थि॑ितो य आर्तनादकलकलः शब्दः कोलाहलस्तेन सर्वतोऽभितः प्रधाव जनपदौघेन नरसमूहेनाकर्षन्निवाकृष्टिं विदधन्निव । 'भवेज्जनपदो देशे जने जनपदेऽपि च' इति विश्वः । पृष्ठतः सगोपुराट्टालप्राकार भवनतोरणाम् । तत्र गोपुरं प्रतोली, अट्टालकं प्राकाराग्रस्थितरणगृहम्, प्राकारो वरणः, भवनानि गृहाः, तोरणानि प्रतीतानि, एतैः सह वर्तते या सा तामुज्जयिनीं विशालामुदवासयन्निवोर्द्वशीकुर्वन्निवैवंविधो नरपतिस्तारापीडो निर्जगाम निर्ययौ | नगर्या इति शेषः । अवन्तीमातृगृहमुपेत्य समीपमागत्य तिर्यगवतीर्योत्तीर्य विलासवतीं राजापश्यद्ददर्श । अर्धोन्मीलितं लोचनयुगं नेत्रयुग्मं नयनद्वन्द्वं यया सा ताम् । अर्धोन्मीलनसाम्यादुत्प्रेक्षते - उष्णकालकमलिनीमिव ग्रीष्मसमयपद्मिनीमिव । पुनः किं क्रियमाणाम् । कथंकथमपि महता कष्टेन चेतनां चैतन्यं सजीवत्वमापाद्यमानामुत्पाद्यमानाम् । केन । परिजनेन परिच्छदेन परिवारेण । परिजनं विशिनष्टि - विषण्णेति । विषण्णानि विलक्षाण्युद्वापाण्युदश्रूणि मुखान्यास्यानि यस्य स तेन । किं कुर्वता । मलयजं मलयभवं चन्दनं तस्य जलैः पानीयैश्च सिञ्चता सेकं कुर्वता । पुनः किं कुर्वता । कदल्यो रम्भास्तासां दलैः पर्णैः पत्रैर्वीजयता वातं कुर्वता । पुनः किं विदधता । जलार्द्रैः पानीयोन्त्रैः पाणिपल्लवैः करकिसलयैश्च संवाहनमङ्गमर्दनं कुर्वता । दृष्ट्वा च विलोक्य च सहसा सद्यः प्रवृत्तेन प्रादुर्भूतेन प्रकटीभूतेन नेत्राम्भसा नयनाम्भसा नेत्राश्रुणा मूर्च्छाया अवशेष उर्वरितांशस्तस्यापनयनायेव दूरीकरणायेव सिञ्चन्पार्श्वे समीपे निकटेऽन्तिके समुपविश्यावस्थानं कृत्वा स्पर्श एवामृतं पीयूषं वर्षतीत्येवंशीलेन करेण हस्तेन पाणिना ललाटेऽलिके भालस्थले, चक्षुषि नेत्रे, कपोलयोर्गल्लात्परप्रदेशयोः उरसि हृदये वक्षसि बाह्वोश्च भुजयोश्च शनैः शनैः स्पृशन्स्पर्शं कुर्वन्बाष्पगद्गदं यथा स्यात्तथावादीदवोचदब्रवीत् - हे 1 तारापीडस्याऽऽगमनम् ** टिप्प० - 1 वस्तुतस्तु - ‘उन्मुक्तार्तनादकलकलेन' इति पाठः । उन्मुक्तः प्रकटितः आर्तनादरूपः कलकलो येन तादृशेन । 2 जनपदौघेन सगोपुरेत्यादिविशेषणाम् 'उज्जयिनीम् आकर्षन्निव आवर्जयन्निव उद्वासयन्निव विपर्यासयन्निव नरपतिर्निर्जगाम', इति पाठोऽन्वयश्च । तत्र आवर्जयन्निव सहनयन्त्रिव, उद्वासयन्निव वसतिशून्यां कारयन्निव, विपर्यासयन्निव विपर्यस्तां कुर्वन्निवेत्यर्थः । पाठा० - १ उद्वेलितः २ आवर्जयत्रिव ३ उद्वास्यन्विपर्यासयन्निव ४ अवन्ति ५ एव. उत्तरभागः । 653
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy