________________
नोद्वेज्यते । निर्भरोत्कण्ठागीतनिर्जितरवरोषितैरिवाङ्गणसहकारपिकवृन्दैः कलकलेनाकुलीक्रियते । मदनपाण्डुगण्डपरिभूतगर्भपत्रकान्तिभिर्विद्धेवोद्यानकेतकीसूचिभिरुद्भूतवेदना भवति । एवंप्रायैश्च मदनदुश्चेष्टितायासैः परिणाममुपैति दिवसः।
चन्द्रोदये चास्यास्तिमिरमयीवापैति धृतिः, कमलमयमिव दूयते हृदयम्, कुमुदमय इव विजृम्भते मकरकेतनः, चन्द्रकान्तमयमिव प्रक्षरति नयनयुगलम्, उदधिजलमयानीव प्रवर्धन्ते श्वसितानि, चक्रवाकमया इव विघटन्ते मनोरथाः, शीतज्वरातुरेव मणिकुट्टिमोदरसंक्रान्तस्य तुषारकिरणमण्डलस्योपरि वेपथुलुलिततरलाङ्गुलीनिकर करयुगलं प्रसारयन्ती शशिसंतापमनक्षरं कथयति । सीत्कारेषु दशनांशुव्याजेन मन्मथशरजेर्जरितहृदयप्रविष्टानिन्दुकिरणानिवोद्गिरति । वेपथुषु व्यजनीकृतकदलीदलकम्पोपदेशमिव गृह्णाति । विजृम्भिकासु -
*********** प्राप्यते । निर्भरति । निर्भरं यथा स्यात्तथोत्कण्ठया यद्गीतं तेन निर्जितो यो रवः शब्दस्तेन रोषितैरिव रोषं प्राप्तैरिवाङ्गणमजिरं तत्र यः सहकारश्चुतस्तत्रस्थाः पिकाः कोकिलास्तेषां वृन्दैः समूहैः कलकलेन कोलाहलेनाकुलीक्रियते व्याकुलीक्रियते । मदनेति । मदनेन कंदर्पण पाण्डुः शुभ्रो यो गण्डः कपोलात्परप्रदेशस्तेन परिभूता न्यकृता गर्भपत्रकान्तिमध्यदलरुग्यैरेवंविधैरुद्यानस्य केतक्यस्तासां सूचयस्त्रिपत्रकरूपाः । 'त्रिपत्रकः सूचिरभिधीयते' इति वैजयन्तीकारः । अग्राणि वा । तैर्विदेव भिन्नेवोद्भूतवेदना प्रादुर्भूतपीडा भवति जायत एव । एवमिति । एवंप्रायैरेवंप्रकारैर्मदनस्य कंदर्पस्य दुश्चेष्टितानि दुर्विलसितानि तेषामायासैः प्रयासैः परिणाम परिपक्वताम् । अवसानमिति यावत् । दिवसो वासर उपैति गच्छति ।।
चन्द्रोदये चेति । च पुनरर्थे । चन्द्रोदये शशाङ्कोदयेऽस्याः कादम्बर्या धृतिः संतोषः । 'धृतिः स्थैर्यम्' इति भूपालः । अपैति गच्छति । अत एवोत्प्रेक्षते - तिमिरमयीव तिमिरात्मिकेव । तिमिरस्य चन्द्रोदये नाशात्तत्साम्यं धृते । कमलेति । हृदयं मानसं दूयते संकुचितं भवति । अत एवोत्प्रेक्षते - कमलमयमिव पद्मघटितमिव । कमलानामेव चन्द्रोदये संकोचसंभावाद्धृदयस्य तत्तुल्यता । कुमुदेति । मकरकेतनः कंदर्पो विजृम्भते उज्ज्वलो भवति । अत एवोत्प्रेक्षते - कुमुदमय इव कैरवात्मक इव । चन्द्रोदये कैरवाणामेव विजृम्भणात्तत्तुल्यता । चन्द्रकान्तेति । नयनयुगल नेत्रयुग्मं प्रक्षरति । अश्रुपातं करोतीत्यर्थः । अत एवोत्प्रेक्षते - चन्द्रकान्तश्चन्द्रमणिस्तन्मयमिव तद्धटितमिव । चन्द्रोदये चन्द्रोपलस्यैव प्रक्षरणादिति भावः । उदधीति । श्वसितानि श्वासाः प्रवर्धन्ते । वृद्धिं गच्छन्तीत्यर्थः । अत एवोत्प्रेक्षतेउदधिजलं समुद्रपानीयं तन्मयानीव । तत्स्वरूपाणीव । चन्द्रोदय उदधिजलस्यैव प्रवर्धनादिति भावः । चक्रवाकेति । मनोरथा अभिलाषा विघटन्ते वियुज्यन्ते । अत एवोत्प्रेक्षते - चक्रवाका रथाङ्गाह्वयास्तन्मया इव तद्धटिता इव । शीतेति । शीतज्वरेणातुरा पीडितेव । मणिकुट्टिमस्य रत्नबद्धभूमेरुदरं मध्यं तत्र संक्रान्तस्य प्रतिबिम्बितस्य तुषारकिरणश्चन्द्रस्तस्य मण्डलं बिम्ब तस्योपर्युपरिष्टाढेपथुः कम्पस्तेन लुलितः कम्पितस्तरलो मनोहरोऽङ्गुलिनिकरः करशाखासमूहो यस्मिन्नेवंभूतं करयुगलं पाणियुग्मं प्रसारयन्ती विस्तारयन्ती अनक्षरं यथा स्यात्तथा शशिसंतापं चन्द्रसंतापं कथयति । करकम्पनेनैव तनिवेदनादिति भावः । सीत्कारेष्विति । सीत्कारेषु सीत्कृतेषु दशना दन्तास्तेषामंशवः किरणास्तेषां व्याजेन मिषेण मन्मथशरेण कंदर्पबाणेन जर्जरितं शिथिलीकृतं यद्धृदयं स्वान्तं तत्र प्रविष्टान्सक्रमितानिन्दुकिरणानिव चन्द्रकरानिवोद्गिरति वमति । वेपथुष्विति । वेपथुषु कम्पेषु व्यजनीकृतानि तालवृन्तीकृतानि यानि कदलीदलानि रम्भापत्राणि तेभ्यः कम्पस्तस्योपदेशमिव शिक्षामिव गृह्णाति । विजृम्भिकास्विति । विजृम्भिकासु - टिप्प० - 1 येषामित्युचितम् ।
-
-
-
-
--
-
-
-
--
-
पाठा० - १ उत्कर्ष. २ चन्द्रकान्तमणिमयम्. ३ वर्धन्ते. ४ शशिनः संतापम्. ५ निर्जित.
514
कादम्बरी।
कथायाम