SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ चन्द्रमसोऽवतारः । तत्कल्याणैः शापावसाने जामात्रा सहैवानन्दबाष्पेनिर्भराननारविन्दं ते द्रक्ष्यावः' इत्यावेदिते निर्वृतेनौन्तरात्मना दैवतवदुपचरन्ती तच्चन्द्रापीडशरीरमतिष्ठत् । अथापगतवति जलदसमये, घननिरोधोद्धन्धादिवोन्मुक्त जीवलोके, प्रसरन्तीष्विवाशासु, फलभारावनम्रकलमवनपिजरासु ग्रामसीमासु, काशकुसुमधवलास्वरण्यस्थलीषु, सेव्यतामुपगतेषु प्रासादतलेषु, करारहारिषु पल्वलेषु, कुमुदामोदशीतलासु यामवतीषु, शेफोलिकापरिमलग्राहिषु निशावसानमातरिश्वसु, चन्द्रप्रभाभिरामेषु प्रदोषेषु, उद्दामफुलेन्दीवररजोवाससुरभिषु वासरेषु, सलिलापसरणक्रमतरङ्ग्यमाणासु सुकुमारतीरसैकतरेखासु, सुखोत्तारतामापनास्वापगासु, पङ्कपरिहरणशुष्केष्वप्रहतरूढतृणोलपच्छन्नेषु मन्दाश्यानकर्दमोद्भिद्यमानाभिनवपदवीकेषु पुनरपि पौर्थिवलोकेन प्रवर्तितेषु प्राञ्जलवम॑सु, जम्बालविगमात्स - *********** ल्याणैर्मङ्गलैः शापस्यावसाने प्रान्ते जामात्रा सहैवानन्दबाष्पेण निर्भरं यदाननारविन्दं मुखपद्म ते तवावां द्रक्ष्याव आलोकयिष्यावः । इत्यावेदिते कथिते निवृतेन स्वस्थेनान्तरात्मना दैवतवद्देववत्तच्चन्द्रापीडशरीरमुपचरन्त्युपचर्यां कुर्वन्त्यतिष्ठत्स्थितवती । अथेति । कियद्दिनानन्तरं जलदसमये मेघकालेऽपगतवति व्यतिक्रान्ते सति घनस्य मेघस्य निरोधोऽवग्रहः स एव बन्धस्तस्मादिवोन्मुक्ते पृथग्भूते जीवलोके सत्याशासु दिशासु प्रसरन्तीष्विव प्रसर्पन्तीष्विव, फलभारेण सस्यवीवधेनावनम्राण्यवनतानि यानि कलमाः शालयस्तेषां वनान्यरण्यानि तैः पिञ्जरासु पीतरक्तासु ग्रामसीमासूपशल्येषु । 'पीतरक्तस्तु पिञ्जरः' इति हैमः । काशकुसुमैर्धवलासु चेतास्वरण्यस्थलीषु, सेव्यतामुपगतेषु प्राप्तेषु प्रासादतलेषु सौधानामधोभागेषु, कलारेण सौगन्धिकेन हारिषु मनोहरेषु पल्वलेष्वाखातसरःसु, कुमुदानां कैरवाणामामोदेन शीतलासु शिशिरासु यामवतीषु रात्रिषु, शेफालिका वल्लीविशेषस्तस्याः परिमलमामोदं गृह्णन्तीत्येवंशीलेषु निशाया रावेरवसानं प्रान्तस्तस्य मातरिश्वसु वायुषु सत्सु, चन्द्रप्रभाः शशिज्योत्स्नास्ताभिरभिरामेषु मनोहरेषु प्रदोषेषु यामिनीमुखेषु । 'प्रदोषो यामिनीमुखम्' इति हैमः । उद्दामफुल्लानि विकसितानि यानीन्दीवराणि नीलकमलानि तेषां रजः परागस्तस्य वासो गन्धस्तेन सुरभिषु सुगन्धिषु वासरेषु दिनेषु सत्सु, सलिलस्य पानीयस्यापसरणं दूरीभवनं तस्य क्रमस्तेन तरङ्ग्यमाणासूत्कलिकायमानासु सुकुमारं मृदु यत्तीरं तटं तस्य सैकतरेखासु जलोज्झितस्थलपङ्क्तिषु, सुखेनोत्तार उत्तरणं तस्य भावः सुखोत्तारता तामापनासु प्राप्तास्वापगासु नदीषु सत्सु, पङ्कस्य कर्दमस्य परिहरणं दूरीकरणं तेन शुष्केषु वल्लूरेषु । 'वल्लूरं स्यादनक्षेत्रे वाहनोषरयोरपि । वल्लूरमाहुः संशुष्कमांसशूकरमांसयोः' इति विश्वः । अप्रहतान्यविनष्टानि यानि रूढानि प्रादुर्भूतानि तृणानि यवसानि तेषामुलपाः समूहास्तैश्छन्नेष्वाच्छादितेषु । मन्दस्तुच्छो य आश्यानोऽशुष्कः कर्दमः पङ्कस्तेनोद्भिद्यमाना प्रादुर्भूयमानाभिनवा प्रत्यग्रा पदवी मार्गो येषु तानि तेषु । पुनरपि पार्थिवलोकेनं राजलोकेन प्रव - - - - - - - टिप्प० - 1 'निर्भरमाननारविन्दम् इति पाठः, समासचातुर्यं टीकायाः स्यात् । 2 वर्षासु किं प्रासादतलानि परित्याज्यानीति राजाज्ञा ? तस्मात् - 'सेव्यतामुपगतेषु पादपतलेषु' इति पाठः । वर्षाभयात् वृक्षाधस्तले न शक्यमवस्थातुम् । संप्रति तु न तथेत्याशयः । 3 जलेऽपगतेपि वालुकासु तरङ्गचिह्नः सतरङ्गास्विवेत्याशयः । 4 सुकुमाराः तीरस्य सैकतरेखा यासां तासु । 5 अप्रहतेषु खिलेषु (धान्यनिवेशस्थानेषु) रूद्वैः तृणोपलैः आवृतेषु । 'द्वे खिलाप्रहते समे कोषः । 6 'पान्थलोकेनेत्येव पाठः । राजभिः क्षुण्णे तु मार्गे दूरदूरं पान्थपदव्येव लुप्यते । पाठा० - १ तत्कतिपयेनैव कालेन. २ निर्भरमानन. ३ निवृत्तेन. ४ बन्धात्. ५ फलभरादवनम्र; कणिशभरावनम्र. ६ आपिञ्जरासु. ७ पादपतलेषु. ८ कुसुम. ९ शेफाली; काली. १० सलिलाशयेषु. ११ सलिलापसरणक्रमतरंगमाणपाण्डुसुकुमारतीरसैकतरेखासु. १२ रूढोलप. १३ पान्थलोकेन. (640 कादम्बरी। कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy