________________
भवविकारवेदनाविलक्षं वैलक्ष्यमेव न पुरस्तिष्ठति । अप्रतिपत्तिसाध्वसजडा जडतैव नोप -
***
***
संसस्ताऽर्धपुटा दृष्टिर्लज्जिता लज्जिते स्त्रियः ।' इति । यद्वा चिन्तासंतत्युपनीतं भवन्तं विभाव्य 'क्वाकार्यम्' इत्यादिवदुन्मादव्यभिचारिभावाक्रान्ताहेत्याह - अपि चेति । इदानीं भावनासमये । आ ईषदर्थे । ईषत्कालमल्पकालं नीतस्य भावनया पुरः प्रापितस्य तरलतोन्मादो लज्जा वेत्येवकार एवार्थे । संकल्पसमागमेष्वाभिमुखं प्राप्तस्य तरलतौत्सुक्यं दर्शनं न ददाति । अपि तु ददातीत्यर्थ इति वा । ननु तर्हि किमर्थं ताम्यसीत्यत आह - लज्जितेति । क्षणमात्रस्थायितया लज्जां प्राप्ता । तिरोभूतेत्यर्थः । औत्सुक्यस्य क्षणिकत्वेन संपूर्णदर्शनफलालाभादिति भावः । यद्वा पत्रलेखां प्रत्युपालम्भोक्तिः । कादम्बर्याः । अस्मिन् काले सामस्त्येन नीतस्य देशान्तरं कथं गच्छेदिति भावः । तत्संबन्धिनी तरलता लज्जिता दृष्टिर्लज्जैव । एवकारश्चार्थे । लज्जा च समुच्चयो दर्शनं न ददाति । तरलतागमनानन्तरं पुनरागमरूपा चञ्चलता तस्या एवाभावादिति भावः । लज्जिता दृष्टिः । दृष्टेर्लज्जात्वमस्थिरत्वेन फलालाभादिति भावः । कथं निरपत्रपस्तस्यै मुखं प्रदर्शयामीति त्रपातिदर्शनप्रतिबन्धकीभूता जातेति भावः । तथा च तस्य पुनरागमनमसंभावितमिति भावः । औत्सुक्यचिन्ताहर्षादीनां शबलता । तत्र स्थितस्यापि तस्य स्वप्नादिसाक्षात्कारेण चक्षुः फललाभेन पुनरपि दिदृक्षा दैन्यं च व्यभिचारी व्यज्यते । नन्वसन्तमपि भावमतिचतुराः स्त्रियः स्वाधीनसहजसिद्धचेष्टाविशेषैराविर्भावयन्तीति कथं तरलतादीनां तादृगाशयवत्त्वं निर्णेयमिति मयाक्षिप्ते सैवमाहेत्याह मनोभवेति । मनोभवोऽतिविवेकिप्रभवः कामस्तस्य तत्कर्तृको विकारः कार्श्यपाण्डिमादिस्तज्जनिता वेदनाः संतापादिरूपास्ताभिर्विलक्षं विगतलक्षणम् । अप्रतिसंधीयमानमिति यावत् । वैलक्ष्यम् । 'लक्ष्यं वेध्ये च भावे च' इत्यभिधानाद्विविधभावभावो न पुरस्तिष्ठति । न पुरः स्थास्यतीत्यर्थः । तथा च कामविकारकीलिताया मे सहजचेष्टाविर्भावात्तरलतादीनामतिप्राबल्यादिति भावः । विकारपदं च सहजसिद्धस्नेहावलोकनन्यूनतां व्यनक्ति । मनोभवपदं च कामवेदनाबाह्येन्द्रियाविषयत्वं व्यनक्ति । ज्ञानार्थप्रकृतिकवेदनापदेनाज्ञायमानदुःखखध्वंसाभावं व्यनक्ति । अत्रापि भविष्यदर्थे लट् । यद्वा दर्शनफलमाह - मनोभवेति । वैलक्ष्यदर्शनजनितकार्श्यपाण्डिमादिवैलक्षण्यं तदेव पुरः । प्रथममिति यावत् । न स्थास्यतीत्यर्थः । एतेन तस्य दुःसहतोक्ता । दुःसहत्वे हेतुगर्भं विशेषणमाह - मनोभवेति । उक्त एवार्थः । यद्वा संतापादिविकारवेदनास्थिरत्वेन निर्विण्णाह । वैलक्ष्यं संतापादिकृतं कार्श्यमोहादिकं न बहुकालं स्थास्यतीत्यर्थः । मध्ये स्वप्नसंकल्पसमागमेष्वाश्वासात् । अन्यथा तत्स्थैर्येऽल्पेनैव कालेन मरणसंभवात् । दुःखविमोकादिति भावः । एतदप्यकृतपुण्याया मे कुत इति निर्वेदध्वनिः । तदेव विशेषणद्वाराह - मनोभवेति । कंदर्पकृता विकाराः स्वप्नसंकल्पसमागमादयस्तत्कृता वेदना तथा समागमस्यास्थिरत्वेन पुनर्विरहदुःखानुसंधानं तेन विलक्षं मरणलक्षणविगमं प्राप्तमित्यर्थः । ननु गाढान्धकाराभिसरणशीलानां कामिनीचक्षुर्विषयाभावेऽपि त्वगिन्द्रियस्य स्पर्शः केन वा वारणीय इति मयोक्ते सैवमुत्तरितवतीत्याह- अप्रतिपत्तीति । जडता स्पर्शजन्यः स्तम्भाख्यः सात्त्विकभावः स एव नोपसर्पति । न यास्यतीत्यर्थः । अत्रापि भविष्यदर्थे लट् । यथाकथंचित्त्वयानीतस्यापि गाढान्धकारे दर्शनायोग्यस्य त्वगिन्द्रियस्पर्शसुखानुभवे प्रथमस्पर्शजन्यजडताप्रतिबन्धेन चुम्बनाद्यननुष्ठाने स्पर्शस्य निष्फलत्वेन तत्रापि दैववैमुख्येन विरहज्वरोपशान्तिमलभमानायाः स्पर्शो वृथैव भविष्यतीति भावः । ननु शारीरा भावाः क्षणस्थायिनो भवन्ति, उत्पन्नापि जडता न स्थास्यतीत्यत आह - अप्रतिपत्तीति । अप्रतिपत्तिः स्पर्शो ज्ञानं साध्वसं भयं मा कदाचित्कश्चिन्मा दर्शीति ताभ्यां जडा भावान्तरानुत्पादेन पदात्पदं दातुमसमर्था गाढान्धकारसंजातस्पर्शजायमानस्तम्भेन चुम्बनाद्यनुष्ठानेऽसामर्थ्यात्तथा क्रियमाणे दुःखानपगमादिति भावः । यद्वा जडता व्यभिचारिभावोऽपि दैवप्रातिकूल्यान्नापयास्यति । तत्र कारणमाह- अप्रतिपत्तिर्मोहः, साध्वसं भयम्, ताभ्यां जडा । स्थिरेत्यर्थः । तथा च जडतामोहभयव्यभिचारिणां शबलतयान्यापगम एव मया गन्तव्यमिति स्थिरेति भावः । यद्वा नास्ति प्रतिपत्तिर्ज्ञानं यस्यां साऽप्रतिपत्तिर्मूर्च्छा व्यभिचारिभावः । यावदेव त्वं तमानेष्यसि तावदेव मे मूर्च्छाभिभविष्यति । तदानयनसंभ्रमोत्थिताया मे मूर्च्छापगमानन्तरं यद्भयं बहुकालं स्थित्वा लोको ज्ञास्यतीति ताभ्यां जड स्तब्धा । आविर्भवितुमशक्येति यावत् । जडता डलयोरैक्याज्जलता । स्वेदसात्त्विकभावो नाविर्भविष्यतीत्यर्थः । मूर्च्छाभयाभ्यां
पत्रलेखाद्वारा कादम्बर्याः संदेशः
उत्तरभागः ।
485
-