________________
तस्य पापकर्मणो ग्रहोपसृष्टस्य जन्म ।' इत्युक्त्वा हेमन्तकालोत्पलिनीमिवोद्वाष्पां दृष्टिमुद्बहन, उद्वेपिताधरश्च बहिरलब्धनिर्गमेण स्फुटनिवान्तर्मन्युपूरेण निःश्वसन्नेवावतस्थौ ।
तदवस्थं च तं तारापीडः प्रत्युवाच - ‘एतत्खलु प्रदीपेनाग्नेः प्रकाशनम्, वासरालोकेन भास्वतः समुद्भासनम्, अवश्यायलेशैराह्लादनममृतांशोः, मेघाम्बुबिन्दुभिरापूरणं पयोधेः, व्यजनानिलैरैतिवर्धनं प्रभञ्जनस्य, यदस्मद्विधैः परिबोधनमार्यस्य । तथापि प्राज्ञस्यापि बहुश्रुतस्यापि विवेकिनोऽपि धीरस्यापि सत्त्ववतोऽप्यवश्यं दुःखातिपातेन विशुद्धमपि वर्षसलिलेन सर इव मानसं कलुषीक्रियते सर्वस्य । कलुषीकृते च मानसे किमिदमिति सर्वमेव दर्शन नश्यति । न चित्तमालोचयति । न बुद्धिर्बुध्यते । न विवेकोऽपि विविनक्ति । येन ब्रवीत्यदः । मत्तो लोकवृत्तमार्य एव सुतरां वेत्ति । किमस्ति कश्चिदसावियति लोके, यस्य निर्विकारं यौवनमतिक्रान्तम् ? यौवनावतारे हि शैशवेनैव सह गलति गुरुजनस्नेहः । वयसैव सहारोहत्यभिनवा प्रीतिः । वक्षसैव सह विस्तीर्यते वाञ्छा । बलेनैव सहोपचीयते मदः । दोईये -
***********
नावगच्छति । सर्वथा सर्वप्रकारेणास्माकं दुःखायैव दुःखहेतोरेव तस्य पापकर्मणो दुष्कृतकारिणो ग्रहोपसृष्टस्य ग्रहग्रहिलस्य जन्मोत्पत्तिः । इत्युक्त्वा हेमन्तकालस्य प्रसूनसमयस्योत्पलिनी कमलिनीमिवोद्वाष्पां दृष्टिं दृशमुद्वहन् । हेमन्तकमलिन्यप्युद्वाष्पा स्यादतो दृक्साम्यम् । उद्वेपित उत्कम्पितोऽधर ओष्ठो यस्यैवभूतश्च बहिरलब्धो निर्गमो निर्गमनं यस्यैवभूतेनान्तर्मध्यवर्तिमन्युपूरेण क्रोधसमूहेन स्फुटन्निव द्वैधीभवन्निव निःश्वसन्नेव निःश्वासं मुञ्चन्नेवावतस्थौ स्थितवान् ।
सैवावस्था दशा यस्यैतादृशं च तं शुकनासं तारापीडः प्रत्युवाच प्रत्यब्रवीत् । खल्विति निश्चयेन । एतत्प्रदीपेन गृहमणिनाग्नेर्वह्नः प्रकाशन प्रज्वालनम्, वासरालोकेन दिवसप्रकाशेन भास्वतः सूर्यस्य समुद्रासनमुत्तेजनम्, अमृतांशोश्चन्द्रस्यावश्यायलेशैस्तुहिनकणैराह्लादनं प्रमोदोत्पादनम्, पयोधेः समुद्रस्य मेघाम्बु जीमूतजलं तस्य बिन्दुभिः पृषद्भिरापूरणं भरणम्, प्रभञ्जनस्य वायोय॑जनानिलैस्तालवृन्तपवनैरतिवर्धनमतिवृद्धिप्रापणम्, यद्यस्माद्धेतोरस्मद्विधैरस्मत्सदृशैरार्यस्य भवतः शुकनासस्य परिबोधनं प्रतिबोधदानम् । तथापीति । एवं सत्यपि प्राज्ञस्यापि बहुश्रुतस्याप्यनेकशास्त्रज्ञस्यापि विवेकिनोऽपि पृथगात्मवतोऽपि धीरस्यापि स्थिरप्रकृतेरपि सत्त्ववतोऽपि साहसवतोऽप्यवश्यं निश्चितं दुःखातिपातेन कृच्छ्रातिपातेन विशुद्धमपि निर्मलमपि सर्वस्य मानसं वर्षसलिलेन वृष्टिपानीयेन सर इव तटाक इव कलुषीक्रियते मलिनीक्रियते । कलुषीकृते च मानसे चित्ते किमिदमिति सर्वमेव समग्रमेव दर्शनं सामान्यज्ञानं नश्यति । न चित्तं मन आलोचयति विचारयति । न बुद्धिर्धिषणा बुध्यते । बोधं प्रयातीत्यर्थः । न विवेकोऽपि पृथगात्मभावोऽपि विविनक्ति पृथक्करोति । येन कारणेन । अदोऽव्यक्ते नपुंसकम् । ब्रवीति वक्ति । मत्तस्तारापीडाल्लोकवृत्तं जनचरितमार्य एव पूज्य एव भवान्सुतरामतिशयेन वेत्ति जानाति । किमिति प्रश्ने । कश्चित्कोऽपीयति लोक एतावति भुवनेऽस्ति विद्यते, यस्य निर्विकारं विकृतिरहितं यौवनं तारुण्यमतिक्रान्तं व्यतीतम् ? यौवनावतारे हि तारुण्यप्रादुर्भाव हि शैशवेन बाल्येन सह गुरुजनेषु मातृपितृषु स्नेहः प्रीतिर्गलति क्षरति । वयसा सहावस्थया सहाभिनवा प्रत्यग्रा प्रीतिरारोहत्यारूढा भवति । वक्षसोरसा सह वाञ्छा स्पृहा विस्तीर्यते विस्तीर्णा स्यात् । बलेनैव पराक्रमेणैव सह मदो दर्प उपचीयत उपचयं प्राप्नोति । टिप्प० - 1 मार्ग-पौषमासात्मकः शीतकालः । 2 'अवतस्थे इत्येव पाठः 'अव पूर्वकस्य तिष्ठतेरात्मनेपदित्वात् । पाटा० - १ उदवहत्. २ अवतस्थे. ३ अभिवर्धनम्. ४ ब्रवीमि. ५ अन्यदा तु मत्तः. अस्मदस्मत्तः.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
574
कादम्बरी।
कथायाम्