________________
मेनोनमितात्मा निर्ययौ । निर्गत्य च शुकनासभवनमयासीत् । तत्र च तनयचिन्तापरीतमुन्मुक्तमिवेन्द्रियैः शून्यशरीरं शुकनासमवारिताश्रुपातोपहतमुखीं च मनोरमां प्रणम्य, तादृशाभ्यामेव ताभ्यां संभाव्याशिषा समारोपयद्यामिवै स्वदुःखभारमनुमतो निवर्तनाय, तयोर्निवर्तिताननो मुहुर्मुहुराद्वारनिर्गतं गत्वाग्रतो ढौकितमपि कृतापसर्पणमकृतहर्षहेपारवमनुत्कर्णकोशमसुखस्वनममनस्कमनाविष्कृतगमनोत्साहं दीनमिन्द्रायुधमालोक्यापि पुनर्निवारणाशङ्कया वैशम्पायनावलोकनत्वरया कादम्बरीसमागमौत्सुक्येन चाकृतपरलम्बो मनागप्यारुह्य रयेणैव निरगानगर्याः । निर्गत्य च सिप्रातटे तत्प्रस्थानमङ्गलावस्थानायोपकल्पितं कायमानमप्रविश्य, बहिरेव गतो युवराज इति जनितकलकलेनातर्किततत्कालगमनसंभ्रान्तेन परिजनेन राजपुत्रलोकेन चेतस्ततो धावतानुगम्यमानो गव्यूतित्रितयमिव गत्वा, सुलभपयोयवसे प्रदेशे निवासमकल्पयत् । उत्ताम्यता हृदयेनाऽप्रभातायामेव यामिन्यामुत्थाय पुनरवहत् ।
***********
तात्मो/कृतात्मा निर्ययौ निरगात् । निर्गत्य च शुकनास्य वृद्धसचिवस्य भवनं सदनमयासीदगात् । तत्र चेति । तस्मिन्गृहे तनयस्य सुतस्य चिन्तार्तिस्तया परीतं व्याप्तमिन्द्रियैः करणैरुन्मुक्तमिव त्यक्तमिव । अतएव शून्यशरीरं शून्यदेहं शुकनासमवारितोऽनिषिद्धो योऽश्रुपातस्तेनोपहतं मुखमाननं यस्या एतादृशीं च मनोरमां वैशम्पायनजननी च प्रणम्य नमस्कृत्य तादृशाभ्यां शोकाकुलिताभ्यामेव ताभ्यां शुकनासमनोरमाभ्यामाशिषा आशीःप्रदानेन संभाव्य सत्कृत्य स्वस्य दुःखं सुतविरहजं तस्य भारो वीवधस्तं समारोपयट्यामिव स्थापयद्भ्यामिव ताभ्यां निवर्तनाय गमनायानुमतोऽनुज्ञातस्ततस्तयोर्विषये मुहुर्मुहुरिंवारं निवर्तितमभिमुखीकृतमाद्वारगतमाप्रतोलीगमनपर्यन्तमाननं मुखं येनैवंभूतोऽग्रतो गत्वा, ढौकितमपि कृतं विहितमपसर्पणमपसरणं येनैवंभूतम् । न कृतो न विहितो हर्षहषारवः प्रमोदध्वनिर्येन स तम् । अत्र नञो भावाद
भावः । न विद्यत उत्कर्णकोशो यस्य स तम् । अनू/कृतकर्णयुगमित्यर्थः । असुखोऽसौख्यकारी स्वनः शब्दो यस्य स तम् । न विद्यते मनोऽर्थाद्गमनविषये यस्य स तम् । नाविष्कृतो न प्रकटीकृतो गमनस्योत्साहः प्रगल्भता येन स तम् । दीनं दुःखितमेतादृशमिन्द्रायुधमश्वमालोक्यापि वीक्ष्यापि पुनर्निवारणं पुनर्गमनप्रतिषेधस्तस्य शङ्कयारेकया वैशम्पायनस्यावलोकनं निरीक्षणं तस्य त्वरा त्वरिस्तस्याः (तया) कादम्बर्याः समागमः संगमस्तस्मिन्नोत्सुक्यं रणरणकस्तेन चाकृतः परिलम्बो विलम्बो येनैवंभूतश्चन्द्रापीडो मनागपि योग्यं यानमारुह्यारोहणं कृत्वा रयेणैव वेगेनैव नगर्याः पुरीतो निरगानिर्ययौ । निर्गत्य च निर्गमनं कृत्वा सिप्रा नाम्नी नदीतस्यास्तटे तीरे तस्य चन्द्रापीडस्य यत्प्रस्थानमङ्गलार्थमवस्थानं तदर्थमुपकल्पितं कृतं कायमानं तृणौकस्तदप्रविश्य प्रवेशमकृत्वा, बहिरेव युवराजश्चन्द्रापीडो गत इति जनितकलकलेन समुत्पन्नकोलाहलेनातर्कितमचिन्तितं तत्कालं तदात्वं यद्गमनं यानं तेन संभ्रान्तेन चकितेन परिजनेन परिच्छदेन राजपुत्रलोकेन चेतस्ततो धावता वेगेन गच्छतानुगम्यमानोऽनुयायमानो गव्यूतित्रितयमिव सार्धयोजनमिव गत्वा गमनं विधाय सुलभानि सुप्रापाणि पयोयवसानि जलतृणानि यत्रैवंभूते प्रदेशे निवास वसतिमकल्पयदकरोत् । 'यवसं तृणमर्जुनम् इति कोशः । उत्ताम्यतोयाबल्येन खिद्यता हृदयेन चित्तेनाऽप्रभातायामविभातायामेव यामिन्यां रजन्यामुत्थायोत्थानं कृत्वा पुनरवहदगमत् ।। - - - - - - - - -- टिप्प० -1 'तयोः निवर्तिताननः आद्वारनिर्गतम् इति पाठस्य 'निवर्तितम् अभिमुखीकृतम् आद्वारगतम् आननं येन' इति समासः कथं भवेत् ? 'निवर्तिताननः' इति समासमध्ये 'अद्वारगतम् इति कथं बलानिपतितम् ? तस्मात् - 'मुहुराद्वारनिर्गतः इति पाठः । आद्वारनिर्गतः द्वारानिर्गमनपर्यन्तं मुहुस्तयोः निवर्तितं परावर्तितं वदनं येन ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा०-१ उत्तसित. २ प्रणिपत्य. ३ इव च. ४ हेषारवः. ५ एवम्.
IN591
(विसर्जने पितुरुक्तिः ।
उत्तरभागः।