SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ भवनहंसानां कलरवेण, निर्धार्यमाण इव च श्रोत्रप्रवेशिना गमनवेलाप्रणामसंभ्रान्तस्य वाराङ्गनाजनस्य चलवलयनूपुर'रसनाकलंकलेन, तारदीर्घतरः शङ्खध्वनिरुदतिष्ठत् । अनन्तरं चोत्थाप्यमानैश्चोत्थितैश्चाकृष्यमाणैश्चाकृष्टैश्चारोप्यमाणपर्याणैश्च पर्याणितैश्च नीयमानैश्चानीयमानैश्च विलेभ्यमानैश्चाच्छिद्यमानैश्चागच्छद्भिश्चागतैश्च पूज्यमानैश्च पूजितैश्च पङ्क्तिस्थितैश्च वाह्यमानैश्च तिष्ठद्भिश्च प्रतिपालयद्भिश्च पर्याप्तराजद्वाराङ्गणैरप्रभूतचत्वरैर्निस्तुषितसकलरथ्यान्तरतयान्तर्बहिश्च संकटायमाननगरीविस्तारैस्तुरङ्गमसहसैस्तत्क्षणं कुन्तवनमयमिवान्तरिक्षम्, खुररवमयीव मेदिनी, हेषारवमयानीव श्रोत्रविवराणि, फेनपिण्डस्तबकमयमिव युवराजभवनद्वाराङ्गणम्, खलीनरवमय्य इव दशदिशः, अश्वालंकाररत्नप्रभामया इवाभवशशाङ्करश्मयः । अचिराच्च गृहीतसमायोगोऽगणात्तमिन्द्रायुधमारुह्य पुरस्ताच्चलिते - *********** शब्दितेनानुवर्त्यमान इवानुगम्यमान इव । स्वभावेन प्रकृत्या गद्गदेन गद्गदरूपेण भवनहंसानां गृहसितच्छदानां कलरवेण मनोज्ञशब्देन मुहुर्मुहुर्वारंवारं विच्छिद्यमान इव विच्छेदं प्राप्यमाण इव । श्रोत्रप्रवेशिनां कर्णचारिणां गमनवेला यात्रावसरस्तस्यां प्रणामो नमस्कारस्तत्र संभान्तस्य सादरस्य वाराङ्गनाजनस्य वेश्याजनस्य चलानि चञ्चलानि वलयानि कटकानि, नुपुराणि पादकटकानि, रसनाः काञ्च्यः, तासां कलकलेन कोलाहलेन निर्धार्यमाण इव निश्चीयमान इव । तारोऽत्युच्चध्वनिस्तेन दीर्घतरोऽत्यायतः ।। अनन्तरं चेति । ध्वनेरुत्थानानन्तरमुत्थाप्यमानैश्चोत्थानं क्रियमाणैः, उत्थितैीभूतैः, आकृष्यमाणैराकर्षणं क्रियमाणैः, आकृष्टैराकर्षितैश्च, आरोप्यमाणं ध्रियमाणं पर्याणं पल्ययनं येषु तैः पर्याणितैघृतपल्ययनैश्च, नीयमानैः प्राप्यमाणैः, आनीयमानैरानयनं क्रियमाणैश्च, विलभ्यमानैर्विलम्भनं क्रियमाणैः, आच्छिंद्यमानैश्च, आगच्छद्भिरागमनं कुर्वद्भिः, आगतैः समायातैश्च, पूज्यमानैरभ्यर्च्यमानैः पूजितैरर्चितैश्च, पङ्क्तिस्थितैश्च पङ्क्त्या श्रेण्या स्थितैः, वाह्यमानैर्भारोदहनं कार्यमाणैर्वहद्भिश्च, तिष्ठद्भिरवस्थानं कुर्वद्भिः, प्रतिपालयद्भिः प्रतिपालना कुर्वद्भिश्च, पर्याप्तं परिपूर्णं राजद्वाराङ्गणं नृपातोल्या अजिरं यैः । 'गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे' इत्यमरः । अप्रभूतमसमर्थं चत्वरं बहुमार्गं येषां तैः । निस्तुषितानि निःशेष भृतानि सकलरथ्यान्तराणि समग्रवीथीविवराणि यैस्तेषां भावस्तत्ता तयान्तर्मध्ये बहिश्च संकटायमानः संकीर्णायमानो नगर्या अवन्त्या विस्तारो यैरेवंविधैस्तुरङ्गमसहसैस्तत्क्षणं तत्कालं कुन्तवनमयमिव भल्लकान निर्मितमिवान्तरिक्षमाकाशम् । खुराः शफास्तेषां रवः शब्दस्तन्मयीव मेदिनी पृथ्वी, हेषा हेषाः तासां रवस्तन्मयानीव क्षोत्रविवराणि कर्णच्छिद्राणि । 'हेषा हेषा तुरङ्गाणाम् इति हैमः । फेनपिण्डः कफपुञ्जस्तस्य स्तबकैगुच्छैनिर्मितमिव युवराजभवनद्वाराङ्गणम् । खलीनानां कविकानां रवाः शब्दास्तन्मय्य इव दशदिशो दशककुंभः । अथालंकारस्य तुरंगमालंकृते रत्नानि मणयस्तेषां प्रभास्त्विषस्तासां प्राचुर्यात्तन्मया इव शशाङ्करश्मयश्चन्द्रकिरणा अभवन् । अचिरात्स्तोककालं यावत् गृहीत आत्तः समायोगः संबन्धो येनैतादृशं यदङ्गणमजिरं तस्मात्तमिन्द्रायुधं पूर्वव्यावर्णितस्वरूपमारुह्यारोहणं कृत्वा पुरस्तादग्रतश्चलितेन प्रस्थितेनालोकहेतोः प्रकाशनिमित्तम् । टिप्प० - 1 निर्वार्यमाण इति पाठः । निःशेषेण वार्यमाण इति तदर्थः । 2 उत्थानं कार्यमाणैः इत्युचितम् । 3 विलोभ्यमानैरिति पाठे, केनापि विलोभनद्रव्येण लोभमुत्पाद्य आनीयमानैरित्यर्थः । 4 अन्यहस्तात् आकृष्य नीयमानैरित्यर्थः । 5 घोटकोपरि भल्लानामुल्लसितत्वात्कुन्तवनप्रचुरमिवेत्यर्थः । 6 प्राचुर्ये मयट् । 7 प्रकाशस्य कारणात् चन्द्रमण्डलसदृशेन, छत्रस्य प्रकाशशालित्वात् । पाठा० - १ भवनकलहंसानाम्. २ इव श्रोत्र. ३ चलचपल. ४ क्वणत्कलकलेन; गुणत्कलकलेन. ५ विलस्यमानैः. ६ अपङ्क्तिस्थितैश्च. ७ अप्रतिपातयद्भिश्च; निष्पतद्भिश्च. ८ अपर्याप्त. ९ निस्तुच्छित. १० अङ्गणगतम्. 542 कादम्बरी। कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy