________________
एवमेव केवलं रात्रौ दिवा चाकृतनिर्वृतिराज्यलताप्यदहनात्मकेन दहताप्यक्षतस्नेहेन्धनेन दुःखानुभवनायैव भस्मसादकुर्वता मदनदहनेनान्तर्बहिश्च क्वाथ्यमानदेहः शोषमगात्, आर्द्रतां पुनः प्रतिक्षणाधीयमानवृद्धिं नात्याक्षीत् । एवं च निष्प्रतिक्रियतया दुस्त्यजतया वातिविसंस्थुलेनोपास्यमानोऽपि मनसिजेनाकारमेव लोकलोचनेभ्योऽरक्षत्, न कुसुमशरसायकेभ्यो जीवितम् । तनोरेव तानवमङ्गीचकार, न लज्जायाः । शरीरस्थितावेवानादरं कृतवान्, न कुलस्थितौ । प्रजा एर्वान्वरुध्यत, न मन्मथोत्कलिकाः । सुखमेवावधीरयामास, न धैर्यम्, । एवं चास्य पुरः कादम्बरीरूपगुणावष्टम्भाहितप्राणेन बलवतानुरागेणाकृष्यमाणस्य, पश्चाद्गुरुजनप्रतिबन्धदृढतरेण महीयसा स्नेहेन च वार्यमाणस्य, गंम्भीरप्रकृतेः सरित्पतेरिव चन्द्रमसा सुदू -
***********
I
एवमिति । स चन्द्रापीडो मदन दहनो वह्निस्तेनान्तर्हृदये बहिरवयवादौ क्वाथ्यमान उत्काल्यमानो देहः शरीरं यस्यैवंविधः शोषं क्षीणत्वमगात्प्राप । किंलक्षणः । एवमेव पूर्ववत् । रात्रौ निश्यपरं दिवा दिवसेऽकृताऽविहिता निर्वृतिर्मनःस्वास्थ्यं येन सः । किंलक्षणेन मदनदहनेन । आ समन्ताज्ज्वलता प्रज्वलता । पुनः कीदृशेन । अदहनात्मकेनावह्निस्वरूपेणापि दहता भस्मीकुर्वता । पुनः कीदृशेन । न क्षतमक्षीणं स्नेहलक्षणमिन्धनमेधो येन स तथा तेन । पुनः किं कुर्वता । दुःखस्यासातस्यानुभवनं साक्षात्कारणं तस्मै तदर्थमेव । तादर्थ्ये चतुर्थी । सर्वं भस्म भस्मसादकुर्वताऽघटयता । शरीरव्यतिरेकेण दुःखानुभवाभावादिति भावः । शरीरशोष आर्द्रता न भवतीत्याशयेनाह न पुनरिति । न पुनरार्द्रतां मृदुतां स्नेहवत्तां वाऽत्याक्षीत्तत्याज । आर्द्रतां विशेषयन्नाह - प्रतीति । प्रतिक्षणं प्रतिसमयमाधीयमानारोप्यमाणा वृद्धिर्यस्याः सा ताम् । एवं चेति । स लोकानां जनानां लोचनानि नेत्राणि तेभ्य आकारमिङ्गितमरक्षद्रक्षयामास । परं कुसुमशरः कामस्तस्य सायका बाणास्तेभ्यो जीवितं प्राणितं नारक्षत् । किंविशिष्टः सः । उपास्यमानोऽपि सेव्यमानोऽपि । कंन । मनसिजेन कामेन । किंलक्षणेन । अतिविसंस्थैलेनातिव्याकुलेन । वीक्षापन्नेनेति यावत् । तन्निदानमाह - निष्प्रतीति । निर्गता प्रतिक्रिया प्रतीकारो यस्यां क्रियायां तस्या भावस्तत्ता तया । दुःखेन त्यज्यत इति दुस्त्यजस्तस्य भावस्तत्ता तया वा । तनोरेवेति । तनोः शरीरस्य तानवं कृशत्वमङ्गीचकार स्वीचक्रे । न लज्जायास्त्रपायाः । लज्जाधिक्यमेवाङ्गीकृतवानिति भावः । शरीरेति । शरीरस्य देहस्य स्थितिर्धारणं तस्यामेवानादरणमनाग्रहं कृतवान् । न कुलस्याभिजनस्य स्थिती मर्यादायाम् । प्रजा इति । प्रजा एव प्रकृतिरेवान्वरुध्यत न्यवीर्यत । न मन्मथस्य कंदर्पस्योत्कलिका उत्कण्ठाः । सुखमिति । स चन्द्रापीडः सुखमेव सौख्यमेवावधीरयामासावगणयामास । न धैर्यं न साहसम् । एवं चेति । एवं पूर्वोक्तप्रकारेणास्य चन्द्रापीडस्य कादम्बर्या रूपं सौन्दर्यं गुणो गाम्भीर्यादिस्तयोरवष्टम्भेनावलम्बेनाहितः स्थापिताः प्राणा येनैवंभूतेन बलवता बलिष्ठेनानुरागेणाभ्यन्तरस्नेहेन पुरोऽग्र आकृष्यमाणस्य हटान्नीयमानस्य, गुरुजनो मातृपित्रादिस्तस्य प्रतिबन्धः प्रतिरोधस्तेन दृढतरेणातिनिबिडेन महीयसातिमहता स्नेहेन प्रीत्या च पश्चात्पृष्ठे वार्यमाणस्य पृष्ठे निषिध्यमानस्य । केन कस्येव । चन्द्रमसा शशिना सुदूरमतिविप्रकृष्टमुल्लास्यमानस्यापि गम्भीरप्रकृतेरलब्धमध्यस्य । राजपक्षे गम्भीरस्वभाव
टिप्प० - 1 आकारम् आकृतिम् । विरहसूचिकामाकृतिं न प्रकटयामासेति तात्पर्यम् । 2 न किल विरहिणां सेवकभावमङ्गीकरोति कामः । अत एव 'आयास्यमानः' इत्युचितः पाठः । खेद्यमान इति तदर्थः । 3 अतिविषमेण (दारुणेन ) इत्यर्थः । 4 कर्मणि प्रत्ययः अत एव 'अन्वरुध्यन्त' इत्येव पाठः । चन्द्रापीडेन प्रजा एव अन्वरुध्यन्त अकाम्यन्त अर्थात् प्रजानामेवाऽनुरोधः कृतः, न मन्मथोत्कण्ठानामिति तदाशयः ।
पाटा० - १ निर्वृतिना. २ दुःखानुभावनायेव. ३ चाति ४ आयास्यमानोऽपि ५ कुलक्रमस्थितौ ६ अन्वरुध्यन्त ७ कृष्यमाणस्य ८ गम्भीर.
विरहावस्था
-
उत्तरभागः ।
503