SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ वैशम्पायनवियोगदुःखं परिणामसुखमौषधमिव बहु मन्यमानो मुहूर्तमिव स्थित्वा विश्रान्तः सुखितैरगैरापूरिते तृतीयार्धयामशो शरीरस्थितिकरणायोदतिष्ठत् । उत्थाय च यत्रैव कादम्बरी तत्रैव वैशम्पायन इति स्वधैर्यावष्टम्भेनैव संस्तभ्य हृदयं शून्यान्तरात्मा पुनरेव संवर्गिताशेषराजलोकः शरीरस्थितिमकरोत् । कृताहारश्चान्तर्चलतो मदनानलस्य वैशम्पायनविरहशोकाग्नेश्च बहिरपि संतापदानाय साहायकमिव कर्तुमुपरिस्थितश्चातिकष्टमष्टास्वपि दिक्षु युगपत्प्रसारितकरः करोम्ययत्नेनैव संतापमित्याकलय्येव गगनतलमध्यमारूढे सवितरि, आतपव्याजेन रजतद्रवमिवोत्तप्तमुद्गरति रश्मिजाले, निर्भिद्य विशन्तीष्विव शरीरमातपकणिकासु, पुज्यमानप्राणिसंघातासु तलप्रवेशात्संकटायमानासु पादपच्छायासु, बहिरालोकयितुं चाप्यपारयन्तीषु दृष्टिषु, ज्वलत्स्विव दिङ्मुखेषु, दुःस्पर्शासु भूमिषु, निःसंचारेषु पथिषु, संकटप्रपाकुटीरोदरोदपीतिपुञ्जितेष्वध्वन्येषु, नाडिंधमश्वासातुरेषु स्वनीडावस्थायिषु पत्ररथेषु, पल्वलान्तर्जलप्रवेशितेषु महिष - *********** म्पायनस्य वियोगदुःखं विरहकृच्छ्रमौषधमिव, अर्थात्कटुकभैषज्यमिव, परिणामे प्रान्ते सुखं सौख्यकृद्धहु यथा स्यात्तथा मन्यमानो जानानो मुहूर्तमिव घटिकाद्वयसदृशमिव स्थित्वा विश्रान्तो विश्रामं गतः सुखितैः सुखं प्राप्तैरङ्गैस्तृतीयोऽर्थो यस्मिनैवंविधो यो यामः प्रहरस्तस्य शो जलज आपूरित वादिते सति शरीरस्थितिकरणायोदतिष्ठदुत्थितो बभूव । उत्थाय चोत्थानं कृत्वा यत्रैव यस्मिन्नेव स्थले कादम्बरी तत्रैव तस्मिन्नेव प्रदेशे वैशम्पायन इति स्वधैर्यावष्टम्भेनैव स्वकीयसत्त्वावलम्बनेनैव हृदयं चेतः संस्तभ्य संस्तम्भनं कृत्वा शून्योऽन्तरात्मा चेतो यस्य स तथा पुनरेव द्वितीयवारमेव संवर्गित एकीभूतोऽशेषः समग्रो राजलोको यस्यैवंभूतः शरीरस्थितिं देहपालनामकरोदकल्पयत् । कृतो विहित आहारो भोजनं येनैवंविधश्च सन्मदनानलस्य कामवढेरन्तर्मध्ये ज्वलतः प्रज्वलतः सतो वैशम्पायनस्य विरहो वियोगस्तस्माद्यः शोकः शुक् स एवाग्निर्वह्निस्तस्य च बहिरपि ज्वलतः सतः संतापदानाय तप्तिवितरणाय साहायकमिव साहाय्यमिव कर्तुं विधातुमुपरिस्थितश्चातिकष्टमतिकृच्छ्रमष्टास्वपि दिक्षु युगपदेकवारं प्रसारितकरो विस्तारितकिरणोऽयत्नेनैवाप्रयासेनैवाह संतापं करोमीत्याकलय्येवाकलनां कृत्वेव गगनतलमध्यं सवितरि सूर्य आरूढे प्राप्ते सति, आतपव्याजेनालोकमिषेणोत्तप्तमुष्णीकृतं रजतद्रवमिव रूप्यरसमिव रश्मिजाले किरणसमूह उद्गिरत्युद्धमति सति, शरीरं देहं निर्भिय द्विधा कृत्वा विशन्तीष्विव प्रवेशं कुर्वन्तीष्विवातपकणिकासु सत्सु । पुज्यमानः संघातीक्रियमाणः प्राणिसंघातो जीवसमूहो यास्वेवंविधासु पादपच्छायासु तलप्रवेशादधोगमनात् । किरणानामिति शेषः । संकटायमानासु संकीर्यमाणासु सत्सु । बहिरप्यालोकयितुं वीक्षितुं दृष्टिषु नेत्रेष्वपारयन्तीष्वशक्नुवतीषु सत्सु । ज्वलत्स्विव दह्यमानेष्विव दिङ्मुखेष्वाशाननेषु सत्सु । दुर्दुःखेन स्पर्शो यासामेवंविधासु भूमिषु सत्सु, निःसंचारेषु संचरणरहितेषु पथिषु मार्गेषु सत्सु । संकटा अविस्तीर्णा याः प्रपाः पानीयशालास्तासां कुटीराणि तेषामुदरेषु मध्येषूदकस्य पानमुदपीतिस्तदर्थं पुञ्जितेषु संघीभूतेष्वध्वन्येष्वध्वनीनेषु सत्सु । नाडिं धमतीति नाडिंधम एवंविधो यः श्वासो निःश्वासस्तेनातुरेषु पीडितेषु स्वनीडानि स्वकीयकुलायास्तेष्ववस्थायिष्ववस्थानकारिषु पत्ररथेषु पक्षिषु सत्सु । पल्वलान्यखातसरांसि तेषामन्तर्जले प्रवेशितेषु प्रवेशं कारि - - - - - - - - -- टिप्प० - 1 'संवर्जितराजलोकः' इत्येव पाठः । विसर्जितो राजन्यगणो येन सः, शरीरस्थितिकरणे विसर्जनस्यैवौचित्यात् । पाठा० - १ निद्राविश्रान्तसुखितैः; स्थित्वा विश्रान्तसुखितैः. २ संवर्जितराजलोकः. ३ पुञ्जमान. ४ दृष्टिषु आलोकेषु, दुरालोकेषु. ५ दिङ्मुखेषु ज्वलत्स्विव. ६ निःसंकट. ७ नाडिंधम. 562 कादम्बरी। कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy