________________
धरैः । अग्रत समुत्प्लुतेन चेतसा क्वाप्यगम्यत, पृष्ठतो हंसैः । पुरस्तात्परिमलिनोऽस्य निःश्वासमेरुतः प्रावर्तन्त, पश्चात्कदम्बवाताः । पूर्वं तुलितनीलोत्पलवनकान्ति नयनयुगलमस्य सलिलं समुत्ससर्ज, चरममम्भोमुचां वृन्दम् । औदावापूर्यमाणर्मुद्वेगेनोत्कलिकासहसपर्याकुलं मनोऽस्याभवत्, अवसाने स्रोतस्विनीनां पात्रम् । अपि च दुस्तरैर्नदीपूरैरेव सहार्वेर्धन्त मन्मथोन्माथाः । वैर्षाजलविलुलितैः कमलाकरैरेव सह ममज्ज कादम्बरीसमागमप्रत्याशा । धारारयासहैः कन्दलैरेव सहाभिद्यत हृदयम् । अम्भोदवाताहतैर्धाराकदम्बकुङ्मलैरेव सहाकम्पतोत्कण्टकिता तनुः । अनवरतजलंपतनजर्जरितपक्ष्मभिः शिलीन्द्रैरेव सह ताम्रतामधत्त नयनयुगलम् । उत्कूलसलिलोत्खन्यमानमूलैः सरित्तटैरेव सहापतन्प्रणाः । परिमलमयैर्मालतीमुकुलैरेव सह व्यजृम्भन्त रणरणकाः । तथातिगुरुनिर्घातैरेवाभज्यन्त मनोरथाः ।
ततस्तदनन्तरं जलधरैर्मेधैः । अग्रतः प्रथमतः समुत्प्लुतेन सम्यगुत्पतितेन चेतसा हृदयेन क्वाप्यनिर्दिष्टस्थलेऽगम्यत गमनमकार्यत । पृष्ठतः पृष्ठभागे हंसैश्चक्राङ्गैर्गतम् । पुरस्तात्पूर्वमस्य चन्द्रापीडस्य परिमलिनः परिमलयुक्ता निःश्वासमरुतः घ्राणवायवः प्रावर्तन्तं । पश्चात्कदम्बवाताः प्रवर्तितवन्तः । पूर्वं तुलिता सदृशीकृता नीलोत्पलानां नीलकमलानां वनं काननं तस्य कान्तिद्युतिर्येनैवंभूतं नयनयुगलं नेत्रयुग्ममस्य चन्द्रापीडस्य सलिलं जलं समुत्ससर्जोन्मुमोच । चरमं पश्चादम्भोमुचां मेघानां वृन्दं समूहम् । आदौ च प्रथमं चास्य चन्द्रापीडस्योद्वेगेनाऽरत्याऽऽपूर्यमाणं म्रियमाणमुत्कलिका हृल्लेखास्तासां सहस्रं तेन पर्याकुलं व्याप्तमेतादृशं मनश्चित्तमभवत् । अवसाने प्रान्ते । पश्चादित्यर्थः । स्रोतस्विनीनां नदीनां 'पात्रं तीरद्वयान्तरम् । 'पात्रं च भाजने योग्ये पात्रं तीरद्वयान्तरे' इति विश्वः । उद्वेगेनोद्बाहुलकेनापूर्यमाणम् । जलैरिति शेषः । 'उद्वेगः क्रमुकीफले । उद्वेगोऽप्युद्बाहुलकोद्वेजनोद्गमनेषु च' इति विश्वः । उत्कलिका वीचयस्तासां सहस्रं तेन पर्याकुलं चाभवत् । अपि चेति प्रकारान्तरे । दुःखेन तर्तुं शक्यन्त इति दुस्तरास्तैरेतादृशैर्नदीपूरैस्तटिनीप्लवैरेव सह मन्मथस्य कंदर्पस्योन्माथा उन्मथनान्यवर्धन्तैधिषत । वर्षाजलानि वृष्टिपानीयानि तैर्विलुलितैरितस्ततः पर्यस्तैः कमलाकरैरेव पद्मसमूहैरेव सह कादम्बर्या गन्धर्वपुत्र्याः समागमो मेलापस्तस्य प्रत्याशा वाञ्छा ममज्जाब्रुडत् । धारा वेगेन जलपातास्तासां रयो वेगस्तमसर्हन्त इति धारारयासहास्तैः कन्दलैरेव सह हृदयं चेतोऽभिद्यत भेदमापादितवान् । अम्भोदवातेन जलदवायुनाहतास्ताडिता ये धाराकदम्बा धारया ये विकसन्ति ते धाराकदम्बास्तेषां कुङ्मलैर्मुकुलैरेव सहोत्कण्टकिता सरोमाञ्चातनुः शरीरमकम्पत कम्पयुक्ता बभूव । अनवरतं निरन्तरं यज्जलपतनमम्भोनिपतनं तेन जर्जरितं शिथिलीकृतं पक्ष्मोपरिवर्ति रोम येषामेवंभूतैः शिलीन्द्रैर्भूमिस्फोटैः सह नयनयुगलं नेत्रयुग्मं ताम्रतामीषद्रक्ततामधत्तं बभार । उत्प्राबल्येन यानि कूलसलिलानि तैरुत्खन्यमानानि पात्यमानानि मूलान्यधोभागा येषामेवंभूतैः सरित्तटैस्तटिनीतीरैः सह प्राणा असवोऽपतन्भ्रंशमापुः । परिमलप्रधानानि परिमलमयानि मालतीनां वल्लिविशेषाणां मुकुलैः कुङ्मलैरेव सह रणरणका उत्कण्ठा व्यजृम्भन्त विकासमभजन्त । तथातिगुरुनिर्धैतैरेव मनोरथा
-
टिप्प० - 1 न सहन्ते इत्युचितम् । 2 रक्तवर्णैः कन्दल्याख्यलतायाः पुष्पैः 'विडम्ब्यमाना नवकन्दलैस्ते' इति कालिदासः । 3 परस्परमाघ्नतोर्वातयोर्यो वेगो नीचैर्निष्पतति सशब्दः स निर्घात उच्यते । 'कुरुकुलनिधनोत्पातनिर्घातवातः' इति वेणी० ।
पाठा० - १ समुपप्लुतेन. २ निःश्वसित. ३ आदावपूर्वम्. ४ उद्वेग. ५ अवर्धत. ६ वर्ष. ७ लुलितैः ८ प्राभियत हृदयं कादम्बरीसमागमप्रत्याशाधारया सह रयात्कन्दलैरुद्भिद्यत नवाम्भोदवाताहतैर्धाराकादम्बकुङ्मलैरेव. ९ भारायासकन्दलैरेवाभिहतहृदयम्, नवाम्भोदवाताहतैः कदम्बकुङ्मलैरेव सहोदकम्पोत्कण्ठिता. १० जर्जरितैः पक्ष्मभिः. ११ युगलं च, युगम् . १२ अपतन्त कामबाणाः अपतन्. १३ कुसुमैः. १४ उज्जृम्भन्त. १५ रणरणकः. १६ तथातिगुरुभिर्घातैरेव; तथापि गुरुभिर्यातैरेव; तथा गुरुभिर्घनैरेव.
मार्गे प्रावृट्कालः
उत्तरभागः ।
597