________________
३०
कातन्त्रव्याकरणम्
५. अत्र तु वररुचिप्रमाणादेवोक्तं यब् गुणी मा भूदिति (क० च०) । ६. 'आनंश्य-आसञ्ज्य' इति ..... उदाहरणं बोद्धव्यम् , पाणिनिसूत्रसम्मतत्वात्
(क० च०)। [रूपसिद्धि]
१. स्कन्त्वा। स्कन्द् + क्त्वा + सि । 'स्कन्दिर् गतिशोषणयोः' (१।२८१) धातु से “एककर्तृकयोः पूर्वकाले'' (४।६।३) सूत्र द्वारा क्त्वा-प्रत्यय, प्रकृतसूत्र से क्त्वा के गुणी होने से नलोप का अभाव, दकार को तकार तथा विभक्तिकार्य ।
२. स्यन्त्वा। स्यन्द् + क्त्वा + सि । 'स्यन्दू स्रवणे' (१।४८७) धातु से क्त्वा प्रत्यय, प्रकृत सूत्र से नलोपाभाव, दकार को तकारादेश तथा विभक्तिकार्य ।।८६५।
८६६. व्यञ्जनादेयुपधस्यावो वा [४।१।११] [सूत्रार्थ
व्यञ्जनादि तथा उकारेकारोपध धातु से होने वाला सेट् क्त्वा विकल्प से गुणी होता है, वकारान्त धातु को छोड़कर ।।८६६।
[दु० वृ०]
उश्च इश्च वी, ते उपधे यस्य स व्युपधः । व्यञ्जनादेर्धातोरुकारेकारोपधस्यावकारान्तस्य क्त्वा सेड् गुणी भवति वा । द्युतित्वा, धोतित्वा । लिखित्वा, लेखित्वा । व्यञ्जनादेरिति किम् ? एषित्वा, ओषित्वा । अव इति किम् ? देवित्वा । संश्चेति वा वक्तव्यम् । रुरुचिषते, रुरोचिषते । लिलिखिषति, लिलेखिषति ॥८६६।
[दु० टी०]
व्यञ्ज० । प्राप्ते विभाषेयम् । संश्चेति वा वक्तव्यमिति । अत्रापि व्यञ्जनादेर्व्यपधस्यावो वेति सम्बन्धः । वक्तव्यं व्याख्येयम् । केचिदिच्छन्ति केचिन्नेच्छन्ति गुणलक्षणमिह (तदुभयमिह) प्रमाणमित्यर्थः ।।८६६।
[क० च०]
. वश्च यश्च व्ये, ते उपधे यस्येत्यर्थः कथन स्यात् , नैवम् । अव इति वर्जनाना 7 न्तस्य यवावुपधे सम्भवत: । व्यञ्जनादिव्युपधस्येति सिद्धे पदभेदो व्यवहितस्याप सेटोऽनुवृत्त्यर्थः । वस्तुतस्तु पूर्वसूत्रेऽसम्भवात् सेटो नानुवृत्तिः, अत्र तु सम्भवात् कथं नानुवृत्तिः ।।८६६।
[समीक्षा]
'लिखित्वा, लेखित्वा' इत्यादि दो-दो रूपों के सिद्ध्यर्थ गुणादेश तथा गुणनिषेध की आवश्यकता होती है, जिसका साक्षात् विधान कातन्त्रकार ने किया है, जबकि पाणिनि सेट क्त्वा को विकल्प से कित् मानकर उक्त दोनों विधान करते हैं । उनके सूत्र हैं - "रलो