________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
[दु० वृ०]
अनयोः क्त्वा गुणी भवति । स्कन्दिर-स्कन्त्वा । स्यन्दू -स्यन्त्वा । असेडर्थमिदम्। पुनः क्त्वाग्रहणं यब् गुणी मा भूत्-प्रस्कद्य, प्रस्यद्य ।।८६५।
[दु० टी०]
स्कन्द० । उदनुबन्धत्वात् स्यन्दूर्विकल्पेट । पुनरित्यादि । क्त्वाग्रहणमिह व्यक्तिप्रतिपत्त्यर्थम्, तेन क्त्वाप्रत्ययस्य स्थाने यबादेशो न भवतीत्यर्थः ।।८६५।
[क० च०]
स्कन्द० । असेडर्थमिदमिति । स्कन्दस्यन्द्वोः पूर्वस्यैव विषय: पुन: क्त्वेति। अथ समासे भाविन्यनञः क्त्वो यबिति कानुबन्धः क्रियताम् । कानुबन्धबलादगणत्वमेव यपि भविष्यति किं वाग्रहणेन ? नैवम् ।'मन्या' इत्यत्र समज्यासनीत्यादिना क्यपि परेऽपि यपि चेति पञ्चमलोप: स्यात् , स्थितौ तु न भवति 'एकानुबन्धग्रहणे न व्यनुबन्धकस्य' (व्या०परि० ४६) इति न्यायात् । तथा चोक्तम् – क्यपो व्यनुबन्धकत्वाद् इति । अथ "हनस्त च" (४।२।२२) इति तकारविधानादादिष्टकारग्रहणं "यपि च' (४।१।६०) इत्यत्र भविष्यति तदा सुखार्थम् । तर्हि 'रथादवस्कन्ध पुरी बभाषे' इति वनपर्वणि 'अवस्कन्ध' इति प्रयोगः कथं संगच्छते ? सत्यम् । भाष्यकारमते यब् गुणी मा भूदिति व्याख्यानं नास्ति तन्मते सिद्धम् । अत्र तु वररुचिप्रमाणादेवोक्तम् - यब् गुणी मा भूदिति व्याख्यानमत्र सूत्र एव बोद्धव्यम् । तेन-'आनंश्य, आसञ्ज्य' इति "जान्तनशामनिटाम्' (४।१।१४) इत्यत्रोदाहरणं बोद्धव्यम् , पाणिनिसूत्रसम्मतत्वात् ।।८६५।
[समीक्षा]
'स्कन्त्वा-स्यन्त्वा' प्रयोगों के सिद्ध्यर्थ नलोपाभाव अपेक्षित होता है, जो ‘क्त्वा' के कित् मानने पर नहीं हो सकता । अपेक्षित इस कार्य का पाणिनि ने साक्षात् विधान किया है । उनका सूत्र है - "क्त्वि स्कन्दिस्यन्द्वोः' (अ० ६।४।३१) । कातन्त्रकार के अनुसार क्त्वा को गुणी मान लेने पर यह नलोपाभावरूप कार्य सम्पन्न होता है । इस प्रकार अर्थावबोध की दृष्टि से पाणिनीय व्याकरण में लाघव तथा कातन्त्र में गौरव कहा जा सकता है । इस सूत्र में पुन: क्त्वा-ग्रहण का प्रयोजन माना जाता है-यबादेश में क्त्वा को गुणी न होना-प्रस्कद्य, प्रस्यद्य ।
[विशेष वचन] १. पुन: क्त्वाग्रहणं यब् गुणी मा भूत् - प्रस्कद्य, प्रस्यद्य (दु० वृ०) । २. आदिष्टकारग्रहणं यपि चेत्यत्र भविष्यति तदा सुखार्थम् (क० च०) । ३. क्त्वाग्रहणमिह व्यक्तिप्रतिपत्त्यर्थम् (दु० टी०) । ४. भाष्यकारमते यब् गुणी मा भूदिति व्याख्यानं नास्ति तन्मते सिद्धम्
(क० च०)।