________________
२२
कातन्त्रव्याकरणम्
[दु० वृ०]
प्यायश्चक्रीयिते परे परोक्षायां च पिर्भवति । पेपीयते, आपिप्ये, आपिप्याते, आपिप्यिरे ।। ५५० ।
[दु० टी० ]
प्यायः । 'स्फायी ओ प्यायी वृद्धौ ' (१ । ४१३) । न परोक्षा चेक्रीयितं निवर्तयत्यधिकारस्येष्टत्वात्। योऽपि परोक्षायां चेति पठति, तस्यापि चानुकृष्टत्वात् " श्वयतेर्वा" (३ | ४| १२) इत्यत्र दुष्यति । अथ चकारोऽपि तत्र वर्त्तिष्यते यत्नबलात् तदा किमनेन चकारेण । अत्रापि दीर्घ चेक्रीयितलुगर्थं केचित् पठन्ति, भाषायामप्यभिधानमस्तीति । पेपीतः, पेपीथः ।। ५५० । [वि० प० ]
प्यायः। परोक्षायामिति वचनाच्चेक्रीयितस्य निवृत्ति: कथन्न स्यादिति । न चोद्यम्, अधिकारस्येष्टत्वादित्याह चेक्रीयिते परोक्षायां चेति । यदि पुनः परोक्षायां चेति पठ्यते, तदा चानुकृष्टत्वाद् उत्तरत्र चेक्रीयिताधिकारो न स्यात् । न चायमुक्तसमुच्चये चकारः शक्यते वक्तुम्, चेक्रीयितस्य दृष्टाधिकारत्वात् परोक्षैव नानुवर्तते गौणत्वात् । अथोत्तरत्रापि चकारोऽनुवर्तिष्यते, किमनेन यत्नेने । 'आपिप्ये' इति परोक्षायां "य इवर्णस्यासंयोगपूर्वस्य” (३ । ४ । ५८) इत्यादिना यकारः ।। ५५० ।
[बि० टी० ]
प्यायः। अधिकारस्येष्टत्वादिति । चायप्यायोः किपी चक्रीयितपरोक्षयोरित्येकयोगकरणादुभयत्र भविष्यति । नैवम्, यथासंख्यं भविष्यति, द्विविधेऽपि सूत्रार्थे गौरवं स्यादिति चेत्, चकारोऽनुवर्तिष्यते । अयमभिप्रायः - चेक्रीयितं तावद् वर्तते, तदापि चकारानुवृत्तौ चेक्रीयिते चेत्युक्ते परोक्षायामपि स्यादित्यर्थः ।। ५५०%
[समीक्षा]
'पेपीयते' आदि शब्दरूपों के सिद्ध्यर्थ प्यायी धातु को 'पि' आदेश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है "प्याय: पी" (अ० ६ । १ । २८ ) । अन्तर यह है कि पाणिनि ने दीर्घ ईकारान्त 'पी' आदेश किया है, जब कि कातन्त्रकार ने ह्रस्व इकारान्त 'पि' आदेश स्वीकार किया है। टीकाकार के अनुसार कुछ कातन्त्र - व्याख्याकार भी दीर्घान्त आदेश के पक्षधर हैं।
[रूपसिद्धि]
१. पेपीयते । प्याय् + य ते। 'स्फायी ओ प्यायी वृद्धों ( १ । ४१३) धातु से 'भृशं प्यायति' अर्थ में "धातोर्यशब्दश्चक्रीयितं क्रियासमभिहारे" (३ । २ । १४) सूत्र द्वारा चेक्रीयितसंज्ञक 'य' प्रत्यय, प्रकृत सूत्र से 'पि' आदेश, द्विर्वचनादि, 'गुणश्चेक्रीयिते" (३। ३। २८) से अभ्यासघटित इकार को गुण- एकार, “नाम्यन्तानां यणायियिन्नाशीश्च्विचेक्रीयितेषु ये दीर्घः ” ( ३ | ४ | ३० ) से धातुघटित इकार को ईकार, "ते धातवः '' (३ । २ । १६) से 'पेपीय' की धातुसंज्ञा तथा वर्तमानासंज्ञक आत्मनेपद प्रथमपुरुष एकवचन 'ते' प्रत्यय।
"
-