Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521005/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः । श्रीवर्धमानजिन २६०० तम जन्मक तम जन्मकल्याणकपर्वविशेषः | शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये ॥ | कल्पतरुनन्दनवनसत्कोऽयं नन्दतात् सुचिरम् ॥ पञ्चमी शाखा (दक्षिणायनम्) वि.सं. २०५७ सङ्कलनम् कीर्तित्रयी Page #2 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः। TECENTER श्रीवर्धमानजिन २६०० तम । २६०० तम जन्मकल्याणकपर्वविशेषः। 69 | शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये ॥ कल्पतरुनन्दनवनसत्कोऽयं नन्दतात् सुचिरम् ॥ पञ्चमी शाखा (दक्षिणायनम्) वि.सं. २०५७ सङ्कलनम् कीर्तित्रयी Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः ॥ पञ्चमी शाखा ।। (संस्कृतभाषामयं अयन-पत्रम् ।।) सङ्कलनम् : कीर्तित्रयी॥ सर्वेऽधिकाराः स्वायत्ताः ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ।। - द्रव्यसहायकः श्री वीशानीमा जैन संघः, गोधरा।। वि. सं. २०५७, ई.सं. २००१ । मूल्यम् - संस्कृतसाहित्यरुचिः ॥ प्राप्तिस्थानम् : १. शनुभाई के. शाह, जीरालापाडो, खंभात । २. सरस्वती पुस्तक भण्डार, अमदावाद । सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः" C/o. अतुल एच्. कापडिया A/९, जागृति फ्लेट्स, महावीर टावर पाछळ, पालडी, अमदावाद - ३८० ००७. मुद्रणम् : सचिन एन्टरप्राइझ, अमदावाद ।। फोन : 079-7497047 मोबाईल : 9825011414 Page #4 -------------------------------------------------------------------------- ________________ mamianRLDHARAMITABHAmiminatim em JACOOSEaskoseDEO ते णं काले णं ते णं समए णं समणे भगवं महावीरे, जे से गिम्हाणं पढमे मासे दुच्चे पख्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीदिवसेणं नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाणं राइंदियाणं विक्ताणं उच्चट्ठाण-गएसु गहेसु, पढमे चंदजोगे, सोमासु दिसासु वितिमिरासु विसुद्धासु, जइएसु सव्वसउणेसु, पयाहिणा-णुकूलंसि भूमिसप्पंसि मारुयंसि पवायंसि, निष्फण्ण-मेड़णीयंसि कालंसि, पमुइअपक्कीलिएसु जणवएसु, पुवत्ता-वत्त-काल-समयंसि हत्युत्तराहिं नक्वत्तेणं चंदेणं जोगमुवागएणं आरुग्गा आरुग्गं दारयं पयाया ॥ कल्पसूत्रम् ॥ सू. ९६॥ ಈರಯಿಂಗಲಗೋರಗೊಂಡರಗಂಗಂಗರಗಾಗದೆ ORIEOORIEOCTOIRONICOD POORISOORATE साताnिmARTHILITARITTERTISTILITIENTITपापामासाATRIMia Page #5 -------------------------------------------------------------------------- ________________ सहृदयवाचकानां प्रतिभावः पत्रम् र श्रीविजयशीलचन्द्रसूरीश्वरेषु सादरविनयाः प्रणतयः । भवद्भिः सानुकम्पं प्रहितं नन्दनवनकल्पतरोः शाखाचतुष्टयं प्रेक्ष्य समजनि सुमहान् प्रमोदः । संस्कृतभाषायाः (सहैव प्राकृतभाषाया अपि) शिखरस्था अपि तलस्पशिवैदुष्यवहाः श्रीमन्तः संस्कृते विविधशास्त्रज्ञानसम्प्रेषणेन सह समास्वाद्यमाधुर्यवहान् पाठान् समाविश्य यत् कल्पतरोः प्रादुर्भावं विहितवन्तस्तदर्थं सर्वे संस्कृतसेविनः श्रीमतामाधमयं वक्ष्यन्तीति निश्चप्रचम् । संस्कृतसाहित्येतिहासे समुल्लेखा)ऽयं साहित्यप्रवाहः, किन्तु परिज्ञानमस्याऽल्पीयसामेव संस्कृतसेविनां स्यादित्याशङ्के। यतो हि सपद्येव प्रकाशिते संस्कृतवाङ्मयेतिहासे (उत्तरप्रदेशसंस्कृतसंस्थानेन प्रकाशिते) जैनविदुषां संस्कृतसाधनाया अध्याये नाऽवालोक्यत मयैतस्योल्लेखः । 'भारतीपत्रिकायामवश्यमस्योल्लेखः संक्षिप्तसमीक्षादिकं च प्रकाशयिष्यते इति निश्चप्रचम् । एवंविधा श्रीमतां तत्रभवतां साधना सुतरां वन्दनारे । C/8, पृथ्वीराजरोड देवर्षिकलानाथशास्त्री जयपुर प्रधानसम्पादकः ३०२००१ 'भारती' १. समीक्षेयं भारतीपत्रिकाया जनवरीमासीयेऽङ्के प्रकाशिता व्यलोक्यत । Page #6 -------------------------------------------------------------------------- ________________ पत्रम् र २५-११-२००० स्वस्ति । मिश्रोऽभिराजराजेन्द्रश्शिमलावास्तव्यस्सप्रश्रयं सबहुमानं च प्रणमति कीर्तित्रयं नन्दनवनकल्पतरुसङ्कलनकारम् । इतः प्रागपि भवद्भिः सम्प्रेषिता नन्दनवनकल्पतर्वङ्का यथावसरं सम्प्राप्ताः । तत एव कृतज्ञतापत्रप्रेषणाय सततनिबद्धपरिकरोऽपि येन केनचित् प्रत्यावायेनाऽवरुद्धगतिकोऽयं जनस्सम्प्रति महतीं त्रपामनुभवन् सदयं क्षमा याचते । वस्तुतः भारतसर्वकारघोषिते संस्कृतवर्षे ऽस्मिन् नित्यप्रवृत्तसंगोष्ठीवशात् दैनन्दिनकार्यार्थं तनुकोऽप्यवकाशो नोपलब्धः । परन्तु पत्रिकायाः प्रत्यग्रमक़ परिशील्य पत्रलिलेखिषा मे दुर्वारैव सञ्जाता, यतो ह्ययमुपक्रमः ।। ___ पत्रिकायास्तुरीयेऽप्यङ्कजाते प्रकाशितां विविधसामग्री पठित्वा महान् हर्षसन्दोह: समजनि। भवन्तः सर्वे साधनामार्गारूढा अपि देववाण्यां कियत् स्निह्यन्तीति दृष्ट्वा हार्दविसंष्ठुलोऽस्मिजातः । विश्वविद्यालयीयाः शिक्षका अपि नाममात्रेणैव संस्कृताध्यापकाः । व्यंसकमयूरा इव तेऽपि व्यंसकसंस्कृतज्ञाः । न कोऽपि देववाण्याः स्वभावान् प्रकाशयितुं क्षमः । मूलपाठस्य हिन्दीरुपान्तरमेव तदध्यापने शरणभूतम् । यदि नाम तद्रूपान्तरं नाऽभविष्यत् तर्हि तेषां पाठनमपि दुष्करं स्यात् । स्वाध्यायस्य परम्परैव समूलमुच्छिन्नेदानीम् । यां खलु दिलीपस्य गोसेवां रघुवंशमहाकाव्यस्य पाठ्यपुस्तकनिर्धारितेऽशे पठित्वा दशमीकक्षोत्तीर्णा तयैव जीवनं समुह्यते । निखिलमपि रघुवंशकाव्यं न केनाऽपि स्वान्तःसुखाय पठितं, न पठ्यते, न चाऽपि पठिष्यते । एवं दुर्दशापन्ने सति स्वाध्याये देववाण्या आयतिरस्मिन् राष्ट्रे खलु कीदृशी भवितेति चिन्ताविषयः । संस्कृतं विना नाऽस्य राष्ट्रस्योद्धारः संल्लक्ष्यते । संस्कृते प्राकृतभाषासु च यादृशं विविधं विपुलं च वाङ्मयं सुरक्षितं तिष्ठति-तेनाऽस्माकं भारतीयानां स्वाभिमानोऽद्याऽप्यक्षत एव । परन्तु दुर्भाग्यवशाद् ये संस्कृत-प्राकृतज्ञानविरहितास्ते तन्महत्त्वमेव न जानन्ति । पलाण्डुभक्षिणो नाऽतितरां श्रद्दधते नारङ्गेषु दाडिमेषु वा । यतो हि दाडिमस्वादानभिज्ञास्ते । Page #7 -------------------------------------------------------------------------- ________________ भवतु । अहमस्मि संस्कृतसपर्यारतः सेवकः । मानसं विना मरालस्येव संस्कृतं विना ममाऽपि मनोऽन्यत्र क्वाऽपि न रमते । तस्मादेव कारणात् सगन्धान् भवतो दृष्ट्वा महती प्रीतिस्समजनि । यद्यपि सनातनधर्मावलम्बिनि द्विजगृहे गृहीतजनिरहम् । तथाऽपि आर्हतपरम्परायां प्रारम्भादेव महती श्रद्धा मे जाता । प्रसह्यमारणं पिपीलकस्याऽपि मत्कृतेऽसह्यम् । अत एव हिंसासमर्थके कस्मिन्नपि धर्मे न मदीया श्रद्धा न वा विश्वासः । आर्हताचारः भृशं रोचते मह्यम् । सौभाग्यवशात् आचार्यमहाप्रज्ञस्य तेरापंथदशमाचार्यस्य वात्सल्यमुपगतोऽहं तत्समारोहेषु नैकधा सम्मिलितोऽभूवम् । तत्सान्निध्ये च जैन श्रावकाचारपद्धति समनोयोगं व्यपठम् । आचार्यवर्या महाप्रज्ञास्तु प्रतिभापटिष्ठा महाकवयः । तत्प्रणीताऽश्रुवीणा मया समीक्षिता । भवतां रत्नत्रयाणां महान्तं कार्तझ्यभारं शिरसोद्वहामि । इयत्याऽनुकम्पया भवद्भिः पत्रिकां सम्प्रेष्य कृतार्थीकृतोऽस्मि । अन्यथा स्वार्थान्धेऽस्मिन् युगे कः कं पृच्छति ? पदे पदे सन्ति ईश्वरम्मन्या धर्मप्रचारका इदानीं, येषामाश्रमे गृहस्थजनदुर्लभं विलासवैभवं विलसितं दृश्यते । तत्सर्वं दष्ट्वा प्रायेण चिन्तयामि यत् सर्वमपि सौख्यं कलावस्मिन् काषायवस्त्राधीनमेव ! दुर्दशापन्ना गृहिणः, परमसुखिनश्च संन्यस्ताः । परन्तु जैनधर्मावलम्बिन इदानीमपि तपोमार्गाधिरूढाः । प्रत्यक्षं दृष्टं मया। अकिञ्चनास्ते समेषां कृतेऽनुकरणीया एव । नन्दनवनकल्पतरोः सर्वेऽप्यङ्काः संग्रहणीयाः । प्रकाशिता सामग्री महतीमनुरक्ति जनयति । विश्वसिमि यदनुरागोऽयं भवतां मयि नितरां स्थास्यति । विशेषाङ्कस्य कृते किमपि यथाशीघ्र प्रेषयिष्ये । अहमादाबादमुपागते सति भवद्दर्शनमपि करिष्ये । सप्रणयं सप्रणामम् मिश्रोऽभिराजराजेन्द्रः 114, Teacher's Hostel Summer Hill SHIMLA-171005 (Head, Department of Sanskrit & Dean, Faculty of languages H. P. UNIVERSITY, SHIMLA) Page #8 -------------------------------------------------------------------------- ________________ पत्रम् १५-१-२००१ स्वस्ति । इतः श्रीश्यामलापादपीठान्मिश्रोऽभिराजराजेन्द्रः सबहुमानयभिवादयते कीर्तित्रयीं तीर्थङ्करचरणेन्दीवरचञ्चरीककल्पाम् । समवाप्य भावत्कं स्नेहमेदुरं पत्रं महान्तं प्रमोदभरमाबिभर्त्ययं जनः । तन्ममैव सौभाग्यं, अन्यथा साधनापथेऽहर्निशं तल्लीनाः साधवः क्वाऽवकाशं लभन्ते संसृतिप्रपञ्चार्थम् ? परन्तु यस्मिन् जैनधर्ममार्गे आचार्यहेमचन्द्रसदृशाः हस्तामलकीकृतसकलविद्याप्रपञ्चा महाकवयः काव्यशास्त्रिणश्चाऽभूवन् तत्र कीर्तित्रय्या विलासोऽभिनन्द्य एव, किञ्च सुरभारतीजीवातवेऽपि मङ्गलप्रतीकभूत एव । परमसमीचीनमिदमाभाति यद् भवन्तः सर्वेऽपि देववाण्यां निषद्वरमग्नचमूरुपोतकीकल्पायाः समुद्धरणाय बद्धपरिकराः । संस्कृतवर्षव्याजेन कोटिमितं धनं शासनेन व्ययीकृतम् । तथाऽपि हन्त ! सुरभारत्या न कोऽपि लाभो जातः । हरियाणापञ्जाबप्रदेशयोर्यत्र कुत्राऽपि संस्कृताध्यापकः सेवानिवृत्तो जायते तत्र नाऽपरस्य नवीनस्य नियुक्तिः; संस्कृतविषय एव तत्र परिसमाप्यते । अस्मिन् प्रसङ्गे शासनमकिञ्चित्करं प्रतिभाति । राजनयिकमतभेदभयवशात् मौनमादधते । बहुषु मञ्चेषु मया सतारस्वरं समस्येयं समुपस्थापिता। परन्तु किं तेन भवति ? पुनश्च, यत्र कुत्राऽपि संस्कृताभ्युदयोपक्रमः सम्भवति तत्रैव दारुकौशिकाः शासनेन नियोजिताः वर्तन्ते । राष्ट्रियसंस्कृतसंस्थानं स्यात्, केन्द्रीयसंस्कृतसमितिः स्यात् संस्कृतविश्वविद्यालयाः वा स्युः - सर्वत्राऽपि शासनलालाटिकाः खसूचिनो सर्वगुणविरहिताश्च प्रतिष्ठिताः सन्ति । विदेशे त एव गच्छन्ति ये आङ्ग्लभाषाक्षरमपि न जानन्ति । तत्र गत्वा वैदेशिकसंस्कृतज्ञसमवाये मूढा इव तिष्ठन्ति, संस्कृतानने कालुष्यं च लेपयित्वा स्वराष्ट्रमुपावर्तन्ते । गुणवन्तः अर्वाचीनसंस्कृतप्रगतिनिष्ठाः धाराप्रवाहसंस्कृतभषाणक्षमाः कवयो नाट्यकाराश्च विश्वसंस्कृतसम्मेलनगन्तुमर्थसाहाय्यमेव नोपलभन्ते यतो हि मादृशास्ते राजधानीतो दूरे तिष्ठन्ति । एवं सति देववाण्याः किं कल्याणं भविता ? प्रायेणाऽहं वच्मि यदिदमेव दुर्भाग्यं Page #9 -------------------------------------------------------------------------- ________________ संस्कृतस्य यत् ये प्रतिष्ठिताः पदेषु तेषां पार्वे प्रतिष्ठेव नाऽस्ति ये च प्रतिष्ठावन्तो निखिलेऽपि राष्ट्रे ते पदविहीनाः (यैः पदैः देववाण्या उपकारः सम्भवति । राष्ट्रियसंस्कृतसंस्था नस्य वार्षिकमनुदानम् अष्टादशकोटिरूप्यकमितं वर्तते ।) । एवं हि भवल्लिखितं दुःखदं वृत्तं सत्यमेव प्रतिभाति । अस्मिन् विसंवादेऽपि संवादवन्तो वयम् - इति विजयतेतरां देववाणी। मम प्रणामाञ्जलयः श्रद्धा-भक्तिसंवलिता आचार्यचरणानां श्रीमद्विजयशीलचन्द्रसूरिवर्याणां चरणकमलेषु कृपया प्रत्यक्षतः समर्पणीया। किञ्च, आचार्यचरणदिदृक्षाऽपि मां नितरामुत्कण्ठं विधत्ते इत्यपि निवेदनीयम् । भवत्प्रमोदाय गलज्जलिका(गज़ल)द्वयं प्रेष्यते । यदि नाम रोचेत तर्हि प्रकाश्य जनमिमं सम्भावयन्तु। भवद्वशंवदः मिश्रोऽभिराजराजेन्द्रः शिमलाविश्वविद्यालयीयः Page #10 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् ॥ भगवतो महावीरस्य षड्विंशतितमस्य जन्मशतीवर्षस्य पुण्यावसरमेनं सम्प्राप्य इमां शाखां भगवन्महावीरस्वामि-विशेषाङ्कत्वेन प्रकाशयामः। __अस्मिन् प्रस्तावे भगवतो महावीरस्य सर्वजनहिताय सर्वजनसुखाय च प्ररूपितानां सिद्धान्तानां सम्यगाचरणेन निःशेषमपि जगत् अहिंसायाः सत्यस्य च वर्त्मनः पथिकं भूयादित्याशास्महे। नन्दनवनकल्पतरोरियं पञ्चमी शाखाऽस्ति । संस्कृतभाषाया अभ्यासार्थं प्रसारार्थं च विभिन्नप्रान्तेभ्योऽनेकाः पत्रिकाः प्रसिद्धयन्त्येव । अयमपि नन्दनवनकल्पतरुः स्वाध्यायेन सहैव पूर्वोक्तमुद्देशमप्युपष्टम्भयति।। संस्कृतभाषायाः प्रचारार्थं प्रसारार्थं वा प्रभूते पुरुषार्थे सत्यपि अस्माकं देशे तस्यः कियती उपेक्षा अवज्ञा च क्रियते इत्यस्य व्यथा एकेन बहुश्रुतविदुषा श्रीअभिराजराजेन्द्र मिश्र-महोदयेन स्वकीयपत्रेण प्रकटिताऽस्ति । 'वाचकानां प्रतिभावः' इत्यत्र मुद्रितमेतत्पत्रं पठितुं साग्रहं विज्ञपयामः । किञ्च – भूकम्पस्य कारणेनेयं शाखा विलम्बेन प्रकाशिता । वि. सं २०५७ कीर्तित्रयी चैत्रशुक्ला त्रयोदशी श्रीमहावीरजन्मकल्याणकदिवसम् गोधरानगरम् ।। Page #11 -------------------------------------------------------------------------- ________________ कृतिः श्रीवर्धमान महावीरजिन-गीतिः महावीररघटा सिरिवीरजिणथोत्तं काव्यनिकुराम घालविक्रीडितम् सरस्वती नीराजना पलाशपुष्पाणि सुतविलम्बितम् गलज्जलिकाद्वयम् षडुभाषामयी श्रीवीरजिनस्तुतिषडविंशतिका प्रार्थना Baytad भू-कम्पः प्रकृत्याः भ्रू-कम्पः अनुक्रमः कर्ता विजयशीलचन्द्रसूरिः एस्. जगन्नाथः प्रा. अमृत पटेल मुनिभुवनचन्द्र: 'चिन्मयः' मुनिभुवनचन्द्र: 'चिन्मयः' मुनिभुवनचन्द्र: 'चिन्मयः ' मुनिभुवनचन्द्रः 'चिन्मयः' अभिराजराजेन्द्रमिश्रः मुनिकल्याणकीर्तिविजयः सा. संस्कारनिधिश्रीः मुनिकल्याणकीर्तिविजयः पृष्ठम् १ ७ ९ १० ११ १४ २२ २४ . Page #12 -------------------------------------------------------------------------- ________________ व कर्ता पृष्ठम् आस्या सञ्चं नु भयावं मुनिविमलकीर्तिविजयः ।। चिन्तनधारण - मुनिरत्नकीर्तिविजयः तीर्थकरणयामतिशयाः मुनिधर्मकीर्तिविजयः श्रमायो भगवान महावीर मुनिकल्याणकीर्तिविजयः सदधातु तुष्टिं मयि विस्ती पिणम् मुनिकल्याणकीर्तिविजयः धमायाभयमहावीरस्वामिनः माधवदुष्टान्ताः डॉ. मदनलाल वर्मा ६२ प्रसङ्गाः यहमचन्द्रसूार अहो ! अत्यद्भुतं भगवतो वीरस्य वात्सल्यम् ॥ प्रसिद्धा कथा (१) चन्दना अप्रसिद्धा घटना (२) जीर्णश्रेष्ठी किं श्रेष्टम् ? जीवनं मरणं या ? मुनिरत्नकीर्तिविजयः मुनिरत्नकीर्तिविजयः मुनिकल्याणकीर्तिविजयः ८४ Page #13 -------------------------------------------------------------------------- ________________ “भगवतो महावीरस्य सप्तविंशतेर्भवानां विश्लेषणम्” सा. युगन्धरा श्रीः त्रम् -१ मुनिरत्नकीर्तिविजयः शलाम्-२ मुनिधर्मकीर्तिविजयः 20 जजीवनास्य सिद्धान्ता: मुनिधर्मकीतिविजयः मुनिभव्यश्रमणविजयः ४१०६ दशधा सत्यम् । झेनकथा विजयशीलचन्द्रसूरिः । १०८ किंनिमित्ताः भूकम्पाः ? मुनिकल्याणकीर्तिविजयः १०९ मर्म - नर्म मुनिधर्मकीर्तिविजयः मुनिरत्नकीर्तिविजयः ११३ ११५ Page #14 -------------------------------------------------------------------------- ________________ श्रीवर्धमान महावीरजिन-गीतिः (आशावरी-रागण गीयते) विजयशीलचन्द्रसूरिः सेवे वर्धमानजिनमनिशं प्रसरति शुभ्रमनभ्रमदभ्रं यस्य यशोऽद्य प्रतिदिशम्... यस्याऽजनि जनिरिह भूलोके, सकललोककुशलार्थं अवतरणमपि नु शरणं भविनां, यस्य विहितपरमार्थम्... किं चित्रं देवासुरमनुजाः, यज्जनुषि स्युः सुखिन: ? । नरकग्रस्ता नितरां त्रस्ताः, जायन्तेऽपि कुशलिनः ! ... मन्दं सुरभिः शीतस्तिर्य, दक्षिणगो नु समीर: वाति श्रीजिनजन्मावसरे, प्रभुमहिमा हि गभीर: ... काकोलूकपिकादिकखगकुल-मविकलमङ्गलगानं कुरुतेऽविरतं शकुनरुतं बत, जिनजनिसमयेऽमानम्... पृथिवी पृथुधान्योलसिता किल, वृक्षाः फुल्लित-फलिताः लोकोऽपि तदा क्रीडाकलितो, दैवकुटिलता दलिता... जनुरिव दीक्षा ज्ञानावाप्ति-निर्वाणमपि नु तव हे ! कल्याणं जगतां कुरुते जिन ! सकलमकलमिह तव हे ! ... ६ Page #15 -------------------------------------------------------------------------- ________________ महावीररघटा' उच्चवचरुचि-चित्रेऽमुष्मिन् सच्चाsसच्च स्तो विश्वस्मिन् । सकलजनेषु प्रीतेर्धारां न किल सुलभमुत्स्रष्टुमुदाराम् । विविधविकल्पितजल्पैर्निबिडे सुविदितलौकिक विषयेष्वजडे संसारोन्नत्यवनतिगहने हिंसाप्रभृतिदुराशयवहने लोके शमलवहीने जातं स्तोके तररुचि तेजः स्फीतम् । नष्टाऽन्धकृतिर्भानावुदिते, हृष्टा श्रीराकाशे मुदिते । सिद्धार्थत्रिशलादम्पत्योः शुद्ध-सुबोध - सुदृष्टि- सुकृत्योः सुत्रामादिसुरैरभिनन्द्यः पुत्रो जातो मुनिगणवन्द्यः । प्रकटितहृदयस्थैर्यो धीरः सुकलितनामा यः श्रीवीर: क्रीडापरिहासादिविनोदी एस्. जगन्नाथ: । सहायकसंशोधकः प्राच्यविद्यासंशोधनालयः मैसूरु - 570005 व्रीडारहितो बहुलामोदी वर्धत इति मुदितो तत्तातो वर्धमान इति हृद्यवदातो नाम चकार प्रमदाद् धीमान् क्षेमं कर्तुं क्षत्रियकुलवान् । अपि च व्यालान्न बिभेतीति क्षपितकलङ्गैः किल स- प्रीति स्फुरणेन महावीर इतीमां परमसुशोभनसंज्ञाप्रथमां प्रत्तां संज्ञां सैष दधानः सत्तायै शान्तेः सुविधानः सर्वत्राशोभत जनवारे गर्वाद्यधरन् कृतसंसारे । कार्यकार्यं वाच्यमवाच्यं धार्यमधार्यं रुच्यमरुच्यं 1. रघटयख्ये छन्दसि विरचितेयं कविता । २ . Page #16 -------------------------------------------------------------------------- ________________ सम्यक् स विवेचयतीत्यभिधा रम्या सन्मतिरिति पुण्यविधा दत्ता सज्जनसमुदायधुर्यैः कृत्ताखिलमतिदोषैरार्यैः । लीला - भावज - निर्जयशूरः कालेनाप्नोद् युवतां वीरः । श्रेयः पितरो वाञ्छन्त्यूढैः प्रायः पुत्रैः संसूतिमूढैः ! कृतनिश्चय आसीत् सिद्धार्थः सुतमुद्वाहयितुं बद्धार्थः । श्रमणानां सहवासाद् वीरः क्रमशः प्राप विरागमुदारः । नृपतिः श्रुतवीरीयविरागः कुपितः पूरितमोहावेगः । परिणयरज्ज्या बद्धुं तनुजं त्वरितं बिसनालिकयेव गजं नियताखिलखं भवरणरणकः प्रयतितवान् साधारणजनकः । सूनुगतं सुविरागातिशयं भानुस्थितमपि दहनसमुदयं वारयितुं कः शक्नोत्येवं सारतरमवापान्ते भावम् । स महावीरो दीक्षाबद्धो दमनं मनसः कृत्वा शुद्धो ध्यानं घोरं सहसाऽऽरभत ज्ञानं लब्धुमहो ! प्रायतत । क्षिप्तहृदः केचन तं दृष्ट्वा दृप्तशिरस्कास्तस्मै रुष्ट्वा तस्मिश्चिक्षिपुरश्म क्रूरं विस्मितविबुधे वारं वारम् । सुमनस्कः शापाद्यददानः शमधनमेव स्वहृदि दधानः खरे तपसि विमग्नो वीरः सुखलेशेऽप्यविहितरुचिधारः । कामं समधिकतप आचरितुं भ्रामं भ्रामं कर्म क्षरितुं कामपि पर्णकुटीमध्यवसत् स्वामपि मुदमधिकां समजनयत् । पर्णादिन्यो गावो हितघन वर्णावलिबुहुललिताः काश्चन तत्रागान् परमस्मन्नेता वित्रासेन समस्तविजेता ३ . Page #17 -------------------------------------------------------------------------- ________________ नाधावयदेतास्तत्रत्यैः क्रोधान्निशितमतिसांगत्यैः परिनिष्कासितधेनुभिरुक्तम् " दुरितं नाम तवेदं व्यक्तं विरचितपरजनपीडाकः सन् वरयसि सिद्धिं स्वयमपि सीदन् ।” विमलस्वान्तो वीरो निरगात् क्षमया युक्तस्तरमाद् देशात् । स प्रस्थाय ध्यानारामः 66 क्षिप्रं दध्यावथ निष्कामः बाधो द्वादशवर्षे गलितो बोधो हृदये सहसा स्फुरितो विशदीभूता आशाः सकला विशयच्छेदतपस्या सफला । नूनं सर्वस्मिन् विश्वस्मिन् ज्ञानं प्रासारयदयमस्मिन् मङ्गलकान्त्या जगदभिदीप्तं संगतदेशनया च व्याप्तम् । महावीरयरघटा जगन्नाथेन गुम्भिता । कुर्यात् कविघटानल्पप्रमदाढ्यमदावलीम् ॥ बन्धुर्न न: सभगवान् रिपवोऽपि नाऽन्ये साक्षान्न दृष्टचर एकतमोऽपि चैषाम् । श्रुत्वा वचः सुचरितं च पृथग् विशेषं वीरं गुणातिशयलोलतया श्रिताः स्मः ॥ " (लोकतत्त्वनिर्णये भगवान् हरिभद्रसूरिः ||) ४ Page #18 -------------------------------------------------------------------------- ________________ सिरिवीरजिणथोतं प्रा. अमृत पटेल (ला.द.भारतीयविद्यासंस्थान, अहमदाबाद) (गाहा) अमयं निच्चिमाए धवलिमाए य पुण्णिमा-निसिअरो । जिअं सीयलत्ताए चंदणं सो विजयउ वीरो ॥ १ ॥ (उग्गाहा) हे नाह ! अनाहो हं मओ हं शंतनुत्तो पावत्तो । ता मं रक्खसु दीणं अमयं कुणसु णिच्चत्तदाणतो ॥ २ ॥ नाणाविहमन्नाणं महंधारं रुंधड़ मोक्खमग्गं । ता मं धवल ! दूमेसु नाणासुहावासेण महाचंदो ! ॥३॥ जं अग्गी जं अक्को जं वयणं दुज्जणाणमइतिक्खं । डहइ तं मम पावं सीयलउ मं जिण ! सीलचंदणेण ॥ ४ ॥ __(आर्यागीतिः) जिण ! तुं तिसलाणंदो तह वि ण तिसल्लमाणंदेसि । परवरहिययसिद्धत्थ ! सिद्धत्थणवरहियय ! तं सि जुत्तं ति ॥५॥ सब्वेसिं सत्ताणं दुखत्ताण ताणमिक्वं सि । ता दुहत्तो नाह ! कहं चरणं ते सरणं न पवज्जामि ? ॥६॥ (उग्गाहा) कम्मग्गिणा हु तत्ता, सत्ता जिण ! तुह वयणचंदणतित्ता । जहा कोसिओ चंडो, तहा तिप्पउ तात ! सणपत्तं मं ॥७॥ Page #19 -------------------------------------------------------------------------- ________________ जह पत्तो सम्मत्तं, सेणियराया वीर ! तुह भत्तीए । मज्झ वि हुज्ज तह नाह, सरणपत्तस्स नामं सरंतस्स ॥ ८ ॥ जड़ वि न भववेग्गं, दाणाइधम्मो न भावपहाणो । तुह नाह ! चरणजुत्ती, तयं काही, मुत्तिं न संदेहो ॥ ९ ॥ जयउ सिरवीरजिणिसो, दिणिसो जस्स व यणप्पहाइ बुहा । वि-बुहा जाया चुज्जं, सुव्यणविलासाइसइया निच्चं ॥ १० ॥ (गाहा) इय थुणिओ ववीरो, उभडमोहभडणि'च्चट्टहणणो । मह दिज्जउ वरणाणं, सया नमिरस्स तुह चलणेसु ॥ ११ ॥ १. श्रेष्ठ ! , २. धवलय, ३. हितद, ४. वचनं वदनं च द्वयमपि, ५. विबुहा-विबुधाः विपरीता बुधाः इति विरोधाभासः, विशिष्टाः बुधाः इति तस्य निराकरणम्, ६. गाढम् । "पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद् वचनं यस्य तस्य कार्यः परिग्रहः ॥" (लोकतत्त्वनिर्णये भगवान् हरिभद्रसूरिः ।।) Page #20 -------------------------------------------------------------------------- ________________ - शार्दूलविक्रीडितम मुनिभुवनचन्द्र: 'चिन्मयः' काव्यानिकुआम् धीरं सञ्चरति प्रपश्यति मनाक् पश्चात् स्वमार्ग पुनः प्राप्तो मृत्युमुखेऽपि नेच्छति तूणं विक्रान्तजीवी सदा । एकाकी विहरन् वने मृगपती राजायते प्राणिषु नूनं सर्वमिदं विलक्षणमहो! शार्दूलविक्रीडितम् । यद् द्वाविंशतिधा परीषहचमूढिं विनिर्धाटिता तप्तं यच्च तपस्सुदुष्करमथो गाढं वनेषु स्थितम् ध्यान साधितमूजितं यदनिशं मौनं च यत्सेवितं वीरस्य प्रकटं तदेतदखिलं शार्दूलविक्रीडितम् ॥२ Page #21 -------------------------------------------------------------------------- ________________ ags सरस्वतीनीराजना काव्यानिकुआम मुनिः भुवनचन्द्रः 'चिन्मयः' कविकुलजननी वाग्देवता देवताभिरभिलषितकटाक्षक्षेपदाना वदान्या । करधृतसुरगङ्गापद्मिनीलीननीलालिकरकुणितवीणामालिनी साक् पृणोतु ॥१॥ सितपटकृतशोभे! श्वेतपद्मासनस्थे! करकृतजपमाले! वाहिनि श्वेतहंसे । मम मुकुलितवाणी वाणि! गीर्वाणवाणीकूतमतिगतिलीलामालिनी द्राग विधेहि ॥२॥ बुधजनवरदे! हे शारदे! शारदाभ्रधवलविमलवस्त्रे! पुण्यगात्रे! पवित्रे! । नमदमदबुधानां शीर्षविन्यस्तहस्ते! । सुविशदपदपद्मामालिनी देहि वाचम् ॥३॥ वितर वितर मातर्मे पदं ते पदान्ते सततमनुभवेयं यन्मुदं सम्पदान्ते । सितकजशुचिहास्ये वाङ्मये त्वत्स्वरूपे! श्रुतकजरसलुब्धं स्तान्मनस्तन्मयं मे ॥४॥ श्रुतसरसिजवासे! फुलकुन्दप्रहासे! विदलितमतिमान्द्ये! सेविनां सर्ववन्द्ये! सकलगुणकदम्बे! धीमदम्बे! गृहाण नवननवपदालीमालिनीराजनां मे ॥५॥ Page #22 -------------------------------------------------------------------------- ________________ पलाशपुष्पाणि मुनिभुवनचन्द्रः ‘चिन्मयः' कोल्यानिकुआम ईषत्समीरचलितानि पुनः स्थिराणि रक्तानि किंशुकसुमानि वनेषु भान्ति । अर्चीषि किं निभूतदीपितहोलिकाग्नेः ? किं वा वसन्ततिलकानि धराकुमार्याः ? ॥१ आरक्तभुग्नविकचप्रकटाग्रभाञ्जि किं किंशुकद्रुमसुमानि नवोत्पलानि ? । किं वा वसन्ततिलकोपमधूलिपर्वमोदार्थिमन्मथशुकस्य नु नैकचञ्च्वः ? ॥२ सन्त्यज्य सर्वसुषमां मुनिवत्पलाशा उग्रं सुवार्षिकतपो हटवीषु तप्ताः । तस्मात् प्रसूनमिषतस्त्वयकाडरुणानि मन्ये वसन्त! तिलकानि कृतानि तेषाम् ॥३ नूनं पलाशकुसुमप्रचयो वसन्ते पृथ्व्याः सुभालतलमण्डनतां बिभर्ति । दृष्ट्वैव तत् प्रमुदितैः कविभिः पुरा किं छन्दो वसन्ततिलकाभिधया व्यधायि ? ॥४ Page #23 -------------------------------------------------------------------------- ________________ द्रुतविलम्बितम् र काव्यनिकुआम् मुनिः भुवनचन्द्रः ‘चिन्मयः' विवधसत्ववाहनसंकुले क्षणमथो ननु निर्जननिःस्वने विहरता वितते हि महापथे द्रुतविलम्बितमेव गतं मया . स्वमनसा तु मनोरथमात्रतः सपदि यत्र मया बत गम्यते पदयुगेन तु तत्र कियद्दिनै द्रुतविलम्बितमेतदपीक्ष्यताम् રો प्रचुरकालकृतश्रमनिर्मितं । जनपदं नरं च गृहादिकम् अहह ! भूचलनाद्विगतं क्षणाद् द्रुतविलम्बितता बत कीदृशी ! ॥३॥ समयदर्शकयत्रघटीस्थितो . लघुकरस्तु विलम्बगतिं श्रितः ।। झटिति लम्बकरः खलु धावति द्रुतविलम्बितता समयस्य सा ॥४॥ सुखमयः समयो लघु सर्पति स्थगित एव विभाति तु दुःखदः । समयसारथिना जनजीवनं द्रुतविलम्बितमित्यतिवाह्यते अथ शनैरथ शीघ्रमपि भ्रमद् विघटयद् घटयद् घटनाः क्रमात् । समयचक्रमिदं परिवर्तते द्रुतविलम्बितमेवमनारतम् દો Page #24 -------------------------------------------------------------------------- ________________ *गलज्जलिका (१) शनैः शनैः अभिराजराजेन्द्रमिश्रः अध्यक्ष, संस्कृत-विभाग शिमला युनिवर्सिटी प्रीतिक्षुपं विवर्धय बन्धो ! शनैः शनैः सुहृदां मनोऽनुरञ्जय बन्धो ! शनैः शनैः ॥ १ ॥ मा त्वत्कृतेऽपि झञ्झाकौलीनमुद्भवेत् वाचस्समीरमीरय बधो ! शनैः शनैः ॥ २ ॥ परितोऽपि पामराणां तृणशालिका इमाः होलानलं समिन्धय बन्धो ! शनैः शनैः ॥ ३ ॥ अभितो गभीरन्द्यौ गिरिश्रृङ्खला पुरः यात्रामिमां समापय बन्धो ! शनैः शनैः ॥ ४ ॥ पक्चैः पतन्त्वपक्वान्यपिनो समं फलानि शाखां ततो विधूनय बन्धो ! शनैः शनैः ॥ ५ ॥ निश्चेतनोऽस्मि जातस्त्वयि लीनविग्रहः आश्लेषमाशु रेचय बन्धो ! शनैः शनैः ॥ ६ ॥ *गलन्ति जलानि नयनाश्रूणि यस्यां सा मर्मच्छिद् गीति: गलज्जलिका ('गजल' इति भाषायाम्) । Page #25 -------------------------------------------------------------------------- ________________ त्वामपि न कौशिकोऽसौ चाण्डालतां नयेत् सत्यं विचिन्त्य भाषय बन्धो ! शनैः शनैः ॥६॥ अज्ञातहृत्सु वैरीभवति स्मरोत्सवः हृदयं ततस्समर्पय बन्धो ! शनैः शनैः ॥ ७ ॥ परुषाऽऽयसी च नूनं सापल्यश्रृङखला प्रीत्यैव तां निकर्तय बन्धो ! शनैः शनैः ॥ ९ ॥ कीर्तिः प्रयाच्यते नो, सद्भिः प्रदीयते आशीर्वचोभिर्जय बन्धो ! शनैः शनैः ॥ १० ॥ श्रुत्वाऽभिराजगीतिं सुरवाचि सादरम् भक्ति दृढां समञ्जय बन्धो ! शनैः शनैः ॥ ११ ॥ " न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्व-परीक्षया तु त्वामेव वीर ! प्रभुमाश्रिताः स्मः ॥" (कलिकालसर्वज्ञाः अयोगव्यवच्छेदद्वात्रिंशिकायाम् ।।) १२ Page #26 -------------------------------------------------------------------------- ________________ Painment nimal A निपाता निपाताः निपीयाऽम्बु सद्यस्तूषा मेऽपयाता सुरापायिनस्ते निपाता निपाताः ॥ १ ॥ घनीभूय तारापथेऽरिम प्ररूढः अधोगामिनस्ते प्रप्राताः प्रपाताः ॥ २ ॥ मम स्थैर्यभावेषु निष्कम्पदीपाः तवोत्कम्पनेषु प्रवाताः प्रवाताः ॥३॥ ममोपायतत्रे सतामर्थसिद्धिः तवाऽपायत विघाता विघाताः ॥ ४ ॥ ममाऽऽरव्या समाजे विपद्बन्धुकल्पा परं त्वं स्वयम्भूर्विधाता विधाता ॥ ५ ॥ मया निर्मिताः कीर्तिसम्मानसौधाः त्वया पापगर्ता निखाता निखाताः ॥ ६ ॥ मम स्वप्नयज्ञे बृहत्सामगानम् तव स्वप्नशैले किराताः किराताः ॥६॥ प्रदोषाः सदा चन्द्रिकाचर्चिता मे रं ते निशा न प्रभाताः प्रभाताः ॥ ७ ॥ गताऽश्वत्थतां साहितीसाधना मे कवित्वाकरास्ते न जाता न जाताः ॥ ८ ॥ १३ Page #27 -------------------------------------------------------------------------- ________________ षड्भाषामयी श्रीवीरजिनस्तात पवारजनस्तुतिषविशतिका - मुनिकल्याणकीर्तिविजयः 'कडाण कम्माण न मोक्नु अत्थि' इति शास्त्रवाणी, तीर्थकरैरपि तां अनुसरद्भिः कृतं कर्म अवश्यं भोक्तव्यमेव इतीव दर्शयितुं यः निषिद्धकुलेऽपि अवतीर्य व्यशीतिदिनानि उवास, तस्मै 'कर्मण्यमूर्तये श्रीवीराय नमः ॥१॥ 'उत्तिमेसु कुलेसु चेव तित्थगराइणो ओयरंति' इति अनादिकालस्य परम्परायाः विलोपभयेन यस्य गर्भपरावर्तनं इन्द्रेण हरिणैगमेषिदेवद्वारा कारितं, तस्मै उत्तममूर्तये श्रीवीराय नमः ॥२॥ (प्राकृतभाषायाम्) जस्स गभट्ठियस्सावि महप्पभावेण सव्वं पि नियकुलं सच्चप्पयारेहिं विवड्डमाणं वियाणिऊण अम्मा-पिऊहिं जस्स गुणनिप्फण्णं नाम 'वड्डमाण’त्ति काउं संकप्पियं, तस्मै । वर्धमानमूर्तये श्रीवीराय नमः ॥३॥ १. कर्मणा शोभमानः Page #28 -------------------------------------------------------------------------- ________________ गठभट्ठिएण वि जेण करुणावलित्तचित्तेण माउभत्तीए नियतणुं निप्कंदं काउं पुणरवि जणणीए चेव संतोसणत्थं अंगस्स फुरणं कयं तहा य ‘सब्वेहिं पि एवमेव अम्मापिऊण अचियत्तकरं न किं पि कायव्वं अवि य तेसिं भत्ती चेव कायव्य'त्ति ठिईए पट्ठा कया, तस्मै औचित्यमूर्तये श्रीवीराय नमः ॥४॥ तिहुयणस्सावि अमंदाणंदसंदोहजणगं जस्स जम्ममहं जाणिऊण दिसिकुमारीओ निययं सासयायारं पालेउं तत्थ आगंतूण सूतिकर्माणि कुर्वन्ति, तस्मै जगदानन्दमूर्तये श्रीवीराय नमः ॥५॥ (शौरसेनीभाषायाम) ‘समुइदाण असंखिज्जाण इंदाण बलत्तो वि तित्थगरा अहिगबलवंदो भवेज्ज' त्ति तिहुयणस्स पच्चावे, जेण अंगुट्ठफं समेत्तेण सुमेरुपव्वदो पकंपिदो, तस्मै शौर्यमूर्तये श्रीवीराय नमः ॥६॥ (पैशाचीभाषायाम्) तिजरायमुहो गजरायगती अट्ठवरिसवओ वि जो घोरसरुवं भीसनं पिसाचभूतं तेवं किड्डाए निमेसमेत्तेन पराजेतून वि खमितवंतो, तरमै क्षमामूर्तये श्रीवीराय नमः ॥ ७ ॥ Page #29 -------------------------------------------------------------------------- ________________ (शौरसेनीभाषायाम्) तथा तत्थ चेव वयंसि अम्मापि हिं अज्झयणत्थं पाढसालं पेसिओ जो निययनिम्मलविञ्ञणबलेण उवज्झायरसावि संदेहमलसंदोहं खालिदूण अच्छेरयठाणं हुविदो, तरमै गम्भीरमूर्तये श्रीवीराय नमः ॥ ८॥ (पैशाचीभाषायाम्) जननी - जनकान संतोसनत्थं चेव जेन आजम्मविरागिना वि विसयसुक्खनिरहिलासिना वि परिनयनं कतं, तस्मै उदारमूर्तये श्रीवीराय नमः ॥ ९ ॥ तिवंगतेसु अम्मा-पितूसु तिक्खितुं इच्छुओ वि जिट्टभातुस्स सिनेहसंतानं अनवगनेंतो जो अनासत्तीए साहु व्च तो वरिसे गिहवासे वसितो, तस्मै निःस्नेहमूर्तये श्रीवीराय नमः ॥ १० ॥ (शौरसेनी भाषायाम्) हज्जुदे गोवाले पूजणुज्जुदे य सुरलोयपाले जो समदाजुत्तो य्येव संठिदो, तस्मै समत्वमूर्तये श्रीवीराय नमः ॥ ११ ॥ १६ Page #30 -------------------------------------------------------------------------- ________________ कदघोरावराधस्स वि संगमस्स 'अहं तस्स किं पि हिदं करिदं न समत्थो' त्ति चिंदाए जस्स अच्छीणि अद्दाणि हुवीअ, तस्मै कारुण्यमूर्तये श्रीवीराय नमः ॥ १२ ॥ 'भाविनो भावा नाऽन्यथा कर्तुं शक्याः' त्ति जगज्जजाण जाणावेदूं, भविस्सकाले निन्हवो वि गोसालो जेण सिस्सत्तणेण अंगीकदो, तस्मै नैयत्यमूर्तये श्रीवीराय नमः ॥ १३ ॥ (चूलिकापैशाचीभाषायाम्) 'उग्गतवेन य्येव कम्मकलंको निवालेतुं सक्को'त्ति एत्थ य तित्थकलान वि न अपवातो त्ति थिलीकातुं पिव जेन अच्चुग्गो तवो कतो, तरमै तपोमूर्तये श्रीवीराय नमः ॥ १४ ॥ 'कस्टं विना सित्थी न य्येव हुवेय्य'त्ति ठितिं पतिट्ठावितुं पिच जो गोलातिगोलं कसटपलंपलं निच्चलचित्तेन समत्तनेन य सहीअ, तस्मै सहिष्णुमूर्तये श्रीवीराय नमः ॥ १५ ॥ निच्चलत्तनेन सच्छानविलीनकायं जं तत्थून वनमहिसा ‘थानू' एस त्ति कातुं निचतेहकंटूयनं पि कतवंता, तरमै ध्यानमूर्तये श्रीवीराय नमः ॥ १६ ॥ Page #31 -------------------------------------------------------------------------- ________________ 'निकाचितं कर्म उग्रेणापि तपसा न क्षीयते' इति सिद्धान्तं जगते बोधयितुमिव, जेन कन्नसलागानिक्नेवक सटं पि अविचलितमनेन सहितं, तरमै सिद्धान्तमूर्तये श्रीवीराय नमः ॥ १७ ॥ (मागधीभाषायाम्) 'नाणमेव हि शव्वाणं उवलि लक्वं'त्ति शच्चावेदूं पिव येण शड्ढबालहवलिशाई तवो-झाणशाधणं कादं के वल्लं पत्तं, तस्मै ज्ञानमूर्तये श्रीवीराय नमः ॥ १८ ॥ 'मर्यादां हि तीर्थकराः अपि न विलोपयन्ति'त्ति तिहुयणश्श वि कहे, पिव येण निस्फला वि पुधुमा देशणा दत्ता, तस्मै मर्यादामूर्तये श्रीवीराय नमः ॥ १९ ॥ 'धम्माचलणे शंपदाया न बाहग’त्ति शंबोहेदुं पिव येण बंभणा दिक्खावेदूं गणधलीकदा नियपधानशिश्शत्तणेण य अंगीकदा, तस्मै धर्ममूर्तये श्रीवीराय नमः ॥ २० ॥ (अर्धमागधीभाषायाम्) जे देसकालानुसारं अद्धमागहीए भासाए देसणं भासभाणे वि निययलोगुत्तरातिसएहिं विविहभासाभासिणो सब्वे वि देव-मणुयतिरिच्छे नियनियभासासु संबोधेतुं सुसमत्थे, तरमै सामर्थ्यमूर्तये श्रीवीराय नमः ॥ २१ ॥ Page #32 -------------------------------------------------------------------------- ________________ (मागधीभाषायाम्) निययपधाणशिश्शाह गोदमाह वि ये आणंदाह अवहिञाणविशयं अपलाधं न शहिदूण ताह खमायाचणत्थं गोदमं पेशीअ, तस्मै कल्याणमूर्तये श्रीवीराय नमः ॥ २२ ॥ (अपभ्रंशभाषायाम्) 'अवितहसद्धावंतउ तित्थकराहं पि पसंसणेब्वउ होहिं ति भुयणस्सु वीससावेप्पिणु जेण सुलसाहे साविआहे अंबडपरिव्वायगदारएं धम्मलाहउ कहिअउ, तस्मै श्रद्धेयमूर्तये श्रीवीराय नमः ॥ २३ ॥ गोसालह मुक्खकहणेण सव्वानुभूइ-सुनखत्त च उवेक्खणेण जेण 'हिंसका अप्युपकृताः, ' आश्रिता अप्युपेक्षिताः' ति सच्चविउ, तस्मै अद्भुतमूर्तये श्रीवीराय नमः ॥ २८ ॥ अच्वंतणिद्धहो रागवंतहो यावि गोयमहो रागनासणत्थउ दूरि पेसणु, 'निययाउसउ खणमेत्तु वि वड्ढेविणु न सक्क तित्थगराहं पि’त्ति भुयणस्सु जाणावेप्पिणु इंदहो विन्नत्तिहे वि अस्सीकरणउ य विहिउ जेणु, तरमै वैराग्यमूर्तये श्रीवीराय नमः ॥ २५ ॥ 'नश्वरं देहमिदं परित्यज्य आत्मस्वरूपलीनता सिद्धशिलागमनं चैव मुक्तिरिति' जगतो बोधकं जस्स निव्वाणं पि कल्लाणकरं जगज्जीवाणं, तरमै सिद्धमूर्तये श्रीवीराय नमः ॥ २६ ॥ Page #33 -------------------------------------------------------------------------- ________________ विषमस्थलटिप्पणी शब्दः अचियत्तकरं अर्थ : अप्रीतिकरम् तेवं देवम् विज्ञाणहुविदो तिवंगतेसु तिक्खितुं समदानिवालेतुं थिलीकातुं विज्ञान भूतः दिवंगतेषु दीक्षितुम् दो-द्वे समतानिवारयितुम् स्थिरीकर्तुं कष्टम् सिद्धिः भवेत् घोरातिघोरं परम्पराम् सध्यान दठूण-दृष्ट्वा कसट सित्थी हुवेय्य स्थाणुः गोलातिगोलं पलंपलं सच्छान तत्थून थानू कातुं निचतेहकंटूयनं शव्वाणं उवलि शच्चावेदूं शड्डबालहवलिशाई पुधुमा शंबोहेदूं -शिश्शाह -आण अपलाधं शहिदूण कृत्वा निजदेहकण्डूयनं सर्वेषाम् उपरि सत्यापयितुम् सार्धद्वादशवर्षाणि प्रथमा सम्बोधयितुम् शिष्यस्य ज्ञान अपराधम् सहित्वा Page #34 -------------------------------------------------------------------------- ________________ पेशी पसंसणेव्वउं वीससावेप्पिणु - दारएं जाणावेप्पिणु अस्सीकरणउ प्रेषीत् प्रशंसनीयः विश्वासयितुम् द्वारा ज्ञापयितुम् अस्वीकरणम् REMilitNTHIROINBARIATIHAR व महावीरस्वामिभगवतां के चलज्ञान प्राप्त्यनन्तर त्रिशत चातुर्मासस्थलानि, तेषां नामानि । (१) राजगृही (२) वैशाली (३) वाणिज्यग्रामः (४) राजगृही (५) वाणिज्यग्रामः (६) राजगृही (७) राजगृही (८) वैशाली (९) वाणिज्यग्रामः (१०) राजगृही (११) वाणिज्यग्रामः (१२) राजगृही (१३) मिथिला (१४) मिथिला (१५) मिथिला (१६) वाणिज्यग्रामः (१७) राजगृही (१८) वाणिज्यग्रामः (१९) वैशाली (२०) वैशाली (२१) राजगृही (२२) राजगृही (नालंदा) (२३) वैशाली (२४) मिथिला (२५) राजगृही (२६) राजगृही (नालंदा) (२७) मिथिला (२८) मिथिला (२९) राजगृही (३०) अपापापुरी न Page #35 -------------------------------------------------------------------------- ________________ प्रार्थना . - सा.संस्कारनिधि श्री हे वर्धमानप्रभो ! अहं नित्यं त्वां स्मरामि ।। अहं न प्रार्थये संपदं, न कामये पदम्, न वाञ्छामि स्वर्गं, न चेच्छामि सौख्यम् । ममोपरि ईदृशीं कृपां कुरु, यतो मम हृदयभूमौ वर्धमाना विनयविवेक श्रद्धासंयमक्षमामार्दवादिगुणा लीलया विलसन्तु । हे वीरविभो ! भवभ्रमणेनाहं खिन्नोऽस्मि, क्षुब्धोऽरिम, श्रमितोऽरिम, व्यथितोऽस्मि । कृपां विधाय मयि ईद्दशं वीरत्वसङ्क्रमणं कुरु, येनाऽहं कर्मसैन्यं विजित्य त्वत्समीपं झटित्यागच्छेयम् । हे करुणानिधान ! चण्डकौशिकादयो हिंसका अपि त्वयोद्धता, गोशालकादयो दुष्टा अपि त्वयोपकृताः, सङ्गमादयः पापिनोऽपि त्वया पवित्रीकृताः । प्रभो ! माद्दशस्य दासस्योपेक्षा न युक्तिसङ्गता। अहं त्वयनुरागवानस्मि । अनुग्रहं विधाय ममोपरि कृपादृष्टि प्रसार्याऽपाराद् भवार्णवाद् मां तारय ! तारय ! Page #36 -------------------------------------------------------------------------- ________________ हे वात्सल्यसिन्धो ! चन्दनाया अश्रूणि दृष्ट्वा तया दत्ता कुल्माषस्य भिक्षा त्वया स्वीकूता। प्रभो ! ममाऽश्रूणि तव दृष्टिपथे किं नाऽऽगतानि त्वया विना मम हृदयाङ्गणं शून्यं भासते । हे नाथ ! दयां विधाय मम हृदयमन्दिरं प्रविश्य मां पुनीहि, पुनीहि । हे जगद्बन्धो ! प्राज्ञशिरोमणेरिन्द्रभूतेरहङ्कारं दलित्वा तस्मै प्रथमशिष्यत्वं गणाधिपत्यं च त्वया प्रदत्तम् । त्वत्तोऽहं न याचे गणं, किन्तु याचे गुणम् । बाल्यकालेऽङ्गुष्ठस्पर्शमात्रेण त्वया मेरुगिरिः कम्पितः । इदानीं ममाडहङ्कारमेरुं चूर्णीकृत्य विनयगुणेन मां भूषय । हे साम्योदधे ! श्रेणिकादीनां भक्तिमतां भक्त्या त्वच्चित्तं मनागपि न विस्मितं, सङ्गमादीनामपकारीणां दुश्चेष्टया न च कदापि चलितम् । मच्चित्तस्थितिमपि ईदृशीं कुरु, येनाऽहं सर्वपरिस्थितिषु समचित्तो भवेयम् । हे कृपानिधे ! त्वत्षण्मासव्याधिवृत्तान्तं श्रुत्वा रुदन् सिंहमुनिस्त्वया भिक्षार्थं रेवत्या गृहं प्रेषितः । प्रासुकबीजपूरकपाकस्य दानेन रेवत्या तीर्थकृन्नामकर्मोपार्जितम् । भक्त्योल्लसत्सोमाञ्चकण्टकः सिंहमुनिस्तु त्वत्स्वास्थ्यलाभेन हर्षितः । मह्यमपि ईदृशी भावनां देहि, येनाऽहं सर्वेषां समाधिहेतुर्भवेयम् । मम काउपि चेष्टा परदुःखनिमित्तभूता मा भूत् । २३ Page #37 -------------------------------------------------------------------------- ________________ माता प्रकृत्याः 5-कम्पः - मुनिकल्याणकीर्तिविजयः भूकम्पः प्रकम्पः गौर्जराणां हृदयेषु भयकम्पः अहो ! प्रकृत्याः प्रकोपः जनानां प्रवेपः भारतशासनस्य गणतन्त्रदिनम् कूतान्तशासनस्य मरणतदिनम् कच्छप्रदेशे, सौराष्ट्रप्रदेशे, अहमदाबादे च महालयानां नाशः, आलयानामपि, विद्यालयानां, अविद्यालयानामपि, चिकित्सालयानां, देवालयानामपि, पुस्तकालयानां, कार्यालयानामपि, विपणीनां भङ्गः, आपणानामपि; भूज-भचाऊ-रापर-अञ्जारादीनि नगराणि शतशो ग्रामाश्च भूतकालविषय इव नामशेषा इव साताः, केचित् तु भूपटे एव दृश्यन्ते; लक्षशो मृताः बालाः तरुणाः Page #38 -------------------------------------------------------------------------- ________________ युवानः वृद्धाः स्त्रियः पुरुषाः सैनिकाः नागरिकाः रुग्णाः अपि चिकित्सकाः अपि प्रवासिनः निवासिनश्च अपराधिनः आरक्षकाच विद्यार्थिनः अविद्यार्थिनश्च अधिकारिणः अनधिकारिणश्च, हिन्दवः मुस्लिमाः अपि जैनाः ब्राह्मणाश्च महाजनाः हरिजनाश्च नाऽत्र प्रकृत्याः पक्षपातः ( अपि तु वज्रपातः), पुत्राः जननीरहिताः पुत्र्यश्च मातरः सन्तानहीनाः पितरश्च दृश्यन्ते तत्र सर्वत्र, अद्यत्वे तत्र विधवाः स्त्रियः विभार्याश्च पुरुषाः न विस्मयास्पदम्, नवतिवर्षदेश्याः दशमीस्थाश्च कथञ्चिद् उद्धृताः जीवन्ति च नवमासीयाः नववर्षीयाः २५ . Page #39 -------------------------------------------------------------------------- ________________ नवयौवनस्थाश्च नष्टाः मृताः म्रियन्ते च, लक्षशो मृतदेहाः अद्याऽपि निखाताः भूमिस्थाश्च कुथ्यन्ति एव, लक्षशो जनानां गृहत्यागः (न तु सन्न्यासः) प्रकृत्या बलात् कारित: त्यागः, मृतास्तु मुक्ताः दुःख्नेभ्यः । अर्धमृताः अ-मृताश्च अवशिष्टाः दुःखभारं उद्वोढुं पीडोत्करं च सोढुम्, यत्र तत्र दरीदृश्यन्ते खञ्जाः कुण्टा: व्रणिताः पट्टपिहितावयवाश्च जनाः भूताः चिकित्सालयाः अलब्धचिकित्साः दुर्लब्धचिकित्साश्च प्रतीक्षन्ते मुक्तिम् (मृत्युम् ?), द्वारपिधानस्वनेऽपि पवनवेऽपि च Page #40 -------------------------------------------------------------------------- ________________ श्रुतिपथमायाति साशङ्काः सातङ्काश्च जनाः झटिति गृहाद् बहिर्धावन्ति; दुष्काले अधिक: मासः इव 'श्रीकारस्य अत्र गजनिमीलिकाः तुन्दपरिमृजत्वम् अव्यवस्थाः असहकारः उपेक्षा अनायोजनम्, फ्रान्स-जपान-ब्रिटन-अमेरिका - जर्मनी रशिया - आदिदेशेभ्यः भूकम्पपीडितसाहाय्यार्थं अनेके सहायाः आगताः किन्तु श्रीकारशासनस्य असहकारेण निःसहायाः सञ्जाताः, तैः कोटिशो रूप्यकाणां वस्तूनि वितरणार्थं प्रेषितानि १. GOVERNMET २७ . Page #41 -------------------------------------------------------------------------- ________________ अनायोजनेन अलब्धावकाशानि कोष्ठागारेषु शटन्ति, कुथ्यन्ति (कानिचित् च व्यवस्थापकानां गृहेषु अपि प्राप्तानि इति श्रूयते), एकतः प्रकृति-ताण्डवम् अन्यतः प्राकृत-ताण्डवम् इतो व्याघ्रः इतस्तटी भयवशातैः जनैः अपिहितेभ्यः गृहेभ्यः आपणेभ्यश्च चौर्य विधीयते चौरैरपि आरक्षकैरपि (सर्वासु अपि परिस्थितिषु स्वार्थः साधितव्यः एव न वा ?) जनानां जीवनानि धनानि च हन्त ! अरक्षितानि !! तथाऽपि रणे निर्झरप्रवाह: इव, २८ Page #42 -------------------------------------------------------------------------- ________________ 66 प्रकृत्या सह युद्धं इव त्रिविधस्य सैन्यस्य महायोजनम् देशस्य प्रत्येकं कोणेभ्यः आगतं कोटिशो रूप्यकाणां वस्तूनां च दानम् राष्ट्रीय स्वयंसेवक सङ्घस्य साहाय्यप्रवाहः स्वैच्छिक संस्थानां निष्कारण- वात्सल्यभूता सहायता च अद्भुता ! अद्भुता ! अद्भुता ! 99 अकारेण भवेद् विष्णू रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्तस्तस्याऽन्ते परमं पदम् ॥ [ अर्हम् ] (महादेवस्तोत्रे कलिकालसर्वज्ञा:) २९ Page #43 -------------------------------------------------------------------------- ________________ आख्यादः सच्चं खु भयवं - मुनिविमलकीर्तिविजयः। अस्मिन् जंबुद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामे दुष्षमसुषमानामचतुर्थारकबहुव्यतिक्रान्ते भगवान् महावीरः आषाढशुक्लपक्षस्य षष्ठीरात्रौ पुष्पोत्तरनामकविमानाच्च्युत्वा देवानन्दायाः कुक्षौ गर्भतया उत्पन्न: । तदैव सिद्धार्थक्षत्रियस्य त्रिशलायाः क्षत्रियाण्याः कुक्षौ पुत्रीरूपगर्भो जात: । तदा शक्रेन्द्राज्ञया हरिणैगमेषिनामकदेवेन त्रिशलाकुक्षिजातपुत्रीरूपगर्भो देवानन्दायाः कुक्षौ अमुच्यत । देवानन्दाकुक्षिजातगर्भः त्रिशलायाः कुक्षौ अमुच्यत । चैत्रमासस्य शुक्लपक्षस्य त्रयोदशीदिवसे सारोग्यं दारकं सुषुवे । सिद्धार्थराजा कुलमर्यादास्वरूपं दशदिवसपर्यन्तं महोत्सवं कृत्वा कुमारः वर्द्धमानः इति तस्य नामाभिधानं करोति स्म । बाल्यावस्थायां व्यतीतायां भोगसमर्थः कुमारः वर्द्धमानः सह यशोदया विवहते स्म । अष्टाविंशतिवर्षातिक्रमे भगवतो मातापितरौ दिवंगतौ । पश्चात् ज्येष्ठभ्रातृनन्दिवर्धनाज्ञया भगवान् वर्षद्वयं गृहे तिष्ठति स्म । श्रमणो भगवान् महावीरोऽनुत्तरज्ञानदर्शनेन स्वस्य दीक्षाकालं विलोक्य एकवर्षपर्यन्तं दानं ददाति स्म । पश्चात् उत्तराफाल्गुन्यां चन्द्रयोगे सति भगवान् स्वयमेव पञ्चमौष्टिकं लोचं कृत्वा साधुतां प्रतिपन्नः । समयकालचक्रमनाद्यनन्तमस्ति । तत्प्रतिक्षणं स्वेन सह किञ्चिदानयति, किञ्चिन्नयति । य आगच्छति स किञ्चित् कृत्वैव गच्छति, किञ्चिद् दत्त्वैव गच्छति पश्चात् जगत् तस्य मूल्यमङ्कयति । बहुश्रुतपूर्वधरपुरुषाणां सच्चरित्रैः सद्विचारै: इतिहासोऽविस्मरणीयो भवति । योगजनितविभूतयो योगिपुरुषेषु, तपोजनितलब्धयः तपस्विमहात्मसु, ध्यानजनितशक्तयो ध्यानिषु, क्रियाजनितरुचयः क्रियावत्सु, सद्धर्मदेशनाजनितवैराग्यभावो मोक्षाभिलाषुकेषु दरीदृश्यन्ते । प्रतिजीवं स्वात्मानुभूतिं विना आत्मौपम्यभावेन विना स्वतादात्म्यभावं विना कोऽपि जीवो धार्मिको न भवति । सार्द्धद्वादशवर्षपर्यन्तं भगवता महावीरेण कठिनं तपः तपितम् । उक्तंच देहे दुक्खं महाफलम्। भगवतो महावीरस्वामिनो जीवनं साधनामयमासीत् । चिरकालपर्यन्तं ३० Page #44 -------------------------------------------------------------------------- ________________ कर्ममर्मभेदकृत् तपः कृत्वा तपसा सत्यस्य साक्षात्कारः कृतः । सत्यविहीने न कोऽपि श्रद्धां करोति । भगवता सत्यधर्मायाऽधिकतमं महत्त्वं प्रदत्तम् । सत्यस्य जिज्ञासा तस्य जीवने प्रकृष्टा प्रज्वलिता आसीत् । भगवतो जीवने सत्यमेव परमतत्त्वमासीत् । ततः 'महावीर एव सत्यधर्मः, सत्यधर्म एव महावीर' इति लोकोक्तिः प्रथिता जाता । महावीरस्य महावीरत्वं सत्यधर्मात् प्रकटीभूतम् । सत्यधर्मशोधने सकलशक्तिः सद्व्ययीकृता। लब्धसत्यवान् सर्वं प्रापति, अलब्धसत्यवान् किमपि न प्राप्नोति । सत्यसाक्षात्कारात्मा एव सत्यस्वरूपमुपदेष्टुमर्हो भवति । सत्यसाक्षात्कार एव आत्मसाक्षात्कारः आत्मसाक्षात्कार एव सत्यसाक्षात्कारः । आत्मसाक्षात्कारस्य प्रवर्तको भगवान् महावीर आसीत् । भगवान् महावीरः सत्यस्य अनेकस्वरूपद्रष्टा आसीत् । भगवन्निरुपितं सर्वं सत्यमस्माभिः न ज्ञातुं शक्यम् । भगवन्मते अहिंसासत्ययोः कोऽपि द्वैतभावो न विद्यते । परिपूर्णात्मावस्था अहिंसा अस्ति । सत्यं न अहिंसाभिन्नम् । यत्र सत्यमस्ति तत्र अहिंसा अस्त्येव । सत्यमहिंसायाः परिसरे एव प्रकटति । अहिंसा सह सत्येनैव चलति । यत्र अहिंसा तत्र सत्यं, यत्र हिंसा तत्र सत्याऽभावः । यत्र सर्वज्ञप्रकथितजैनधर्म : तत्रैव अहिंसा, यत्र अहिंसा तत्रैव सर्वज्ञभाषितजैनधर्मः इति विधातुं न अतिशयोक्तिः । सत्यस्य नैकप्रकारा विद्यन्ते । यद वीतरागपरमात्मभिः प्ररूपितमस्ति तदेव सत्यमस्ति 'तमेव सच्चं णिस्संकं जं जिणेहिं पवेइयं' सत्यमखण्डमस्ति अविभाज्यमस्ति सहजमस्ति । द्वैतवादिमते आत्मा अपि सत्यमस्ति, अनात्माऽपि सत्यमस्ति । अद्वैतवादिमते आत्मा एव सत्यमस्ति, शेषं मिथ्या अस्ति - 'ब्रह्म सत्यं जगन्मिथ्या' । आत्मा एव सर्वज्ञस्य ज्ञानमस्ति दर्शनमस्ति चारित्रमस्ति । परमात्मा परिपूर्णसत्यमस्ति । आत्मनः चरमविकासः परमात्मा अस्ति । यावत्कालपर्यन्तमात्मा स्वान्तिमलक्ष्यं न सानोति तावत्कालपर्यन्तमपूर्णोऽस्ति, यदा चरमलक्ष्यं साध्यति तदा परिपूर्णो भवति । आत्मा परमात्मनो बीजमस्ति, परमात्मा आत्मनः पूर्णविकासोऽस्ति । आत्मपरमात्मानौ द्वौ एकतत्त्वस्य भिन्नौ रूपौ स्तः । किन्तु परमात्मा आत्मनः उत्तरकालीनरूपतो न भिन्नोऽस्ति, परमात्मनः पूर्वकालीनरूपत आत्मनः पृथग् अस्तित्वं नास्ति । एकत्वदृष्टित आत्मा एव परमात्मा अस्ति, परमात्मा एव आत्मा अस्ति । स्थितिभेददृष्टितः चैतन्यस्य परिपूर्णरूपं परमात्मा २१ Page #45 -------------------------------------------------------------------------- ________________ अस्ति, अपूर्णरूपमात्मा अस्ति । धर्म एव सत्यमस्ति, यत् सत्यमस्ति तदेकमेव विद्यते । धर्मात्मानौ द्वौ भिन्नौ न स्तः । य आत्मा अस्ति स एव धर्मोऽस्ति, यो धर्मोऽस्ति स एव आत्मा अस्ति । भगवद्धर्म आत्मधर्मोऽस्ति, आत्मा न धर्मोद्भिन्नः, धर्मो न आत्मनो भिन्नः । आत्मबहिधर्मो न विद्यते। भगवता सत्यं शोद्धं अनेकान्तवादस्य वा स्याद्वादस्य सिद्धान्तोऽनुशिष्टः । तत्र सत्यधर्मस्य स्वरूपं यथा ख्यातं तथा केनापि न प्रथितम् । ततः स सिद्धान्तः सर्वत्र समादरं प्राप । तत्र भगवान् जगाद 'भिन्नभिन्नजातिवर्गसंप्रदायेषु सत्यं न बध्नीत । असत्यं सत्यं कर्तुमनसो जनाः स्तोकाःसन्ति, सत्यं असत्यं कर्तुमनसो जना बहवः सन्ति । एकान्तदृष्टितो दृष्टं सत्यं न सत्यं किन्तु असत्यं, एकान्तभाषाकथितं सत्यमपि न सत्यं किन्तु असत्यम् । प्रत्येकं अस्तित्वस्वभावात्मकवस्तु सत् अस्ति । यत् सत् अस्ति तद् अनन्तधर्ममयमस्ति । अनन्तदृष्टितः सत्सत्ताया यथार्थज्ञानं भवति, ततः भगवता अनेकान्तदृष्टिः स्थापिता । अनेकान्तदृष्टितः दृष्टस्य सत्यस्य प्रतिपादनं स्याद्वादभाषायां कृतम् । प्रत्येकं द्रव्यं नित्यमस्ति अनित्यमपि अस्ति । स्वरूपाविच्युतिदृष्टितः नित्यमस्ति, स्वपरिवर्तनदृष्टितः अनित्यमस्ति । प्रत्येकं द्रव्यं नित्यमस्ति, तत्प्रकारकज्ञानवान् आत्मा जीवनमरणयोः समताभावमङ्गीकरोति । प्रत्येकं द्रव्यमनित्यमस्ति, तत्प्रकारकज्ञानवान् आत्मा संयोगवियोगयोः समत्वभावं स्वीकरोति । प्रत्येकं द्रव्यं सदस्ति असदपि अस्ति । स्वास्तित्वदृष्टितः सदस्ति, नास्तित्वदृष्टितः असदपि अस्ति । प्रत्येकं द्रव्यं सदस्ति. तत्प्रकारकज्ञानवान आत्मा परकीयसत्तायाः स्वीकारं करोति. प्रत्येकं द्रव्यं असदस्ति तत्प्रकारकज्ञानवान् आत्मा पारतन्त्र्यं कर्तु नेच्छति । प्रत्येकं द्रव्यं वाच्यमपि अस्ति, अवाच्यमपि अस्ति । एकस्मिन् क्षणे एको धर्मो वाच्योऽस्ति, परस्मिन् क्षणे अवाच्योऽप्यस्ति । प्रत्येकं द्रव्यं वाच्यमस्ति तत्प्रकारकज्ञानवान् आत्मा शाब्दिकदृष्टितः सत्यं सर्वथा अग्राह्यमस्ति इति न मन्यते, प्रत्येकं द्रव्यं अवाच्यमप्यस्ति तत्प्रकारकज्ञानवान् आत्मा आग्रही न भवति । अनेन प्रकारेण यो नैकदृष्टितः सत्यं पश्यति स एव साम्ययोगी भवति । अनेकान्तदृष्टितः सत्यधर्मप्रतिपादनात् महावीरस्थापितधर्मो विश्वधर्मो बभूव । महावीरस्थापितधर्मः सकलजगज्जन्तुहितार्थमासीत् । अभयभावितान्तःकरणवान् आत्मा एव सत्यं प्राप्नोति । भगवता कथितो धर्मः . Page #46 -------------------------------------------------------------------------- ________________ पवित्रात्मन्येव तिष्ठति । अहिंसाया उद्गमस्थानमभयमस्ति । भगवत्प्रवचनस्य मूलमन्त्रमप्यभयमस्ति । पवित्रताया मुख्यस्वरूपमहिंसा अस्ति, ततः यत्र भयं तत्र अहिंसाया अभावः । हिंसा एव असमाधिः । अहिंसा एव समाधिरिति ज्ञात्वा अहिंसाधर्म उपदिष्टः । भगवता किमपि कृतं तद् अहिंसार्थं, किमपि न कृतं तदपि अहिंसार्थम् । भगवत आचारः अहिंसकप्ररूपक आसीत्, विचारोऽनेकान्तदृष्टिगोचर आसीत्, भाषा स्याद्वादनिरूपिका आसीत् । भगवता प्ररूपितं "आत्मवत् सर्वभूतान् पश्य" । आत्मरमणता एव अहिंसा अस्ति, जिनागमानुसारेण सैव ध्यानमस्ति । केवलं चित्तवृत्तिनिरोध एव ध्यानं नास्ति, दैहिकवृत्तिनिरोधोऽपि ध्यानमस्ति । भगवच्चित्तविशुद्धिरहिंसायाः स्वरूपे प्रसिद्धा अस्ति । आत्मनिश्चय एव सम्यग्दर्शनमस्ति, आत्मज्ञानमेव सम्यग्ज्ञानमस्ति, आत्मरमणता एव सम्यक्चारित्रमस्ति, तद्भिन्नो न कोऽपि योगो दृश्यते । अहिंसासाधनासंलग्नीभूतः भगवान् ललाप 'यद् मौनमस्ति तत् सत्यमस्ति, यत् सत्यमस्ति तदभाषणमस्ति । भगवता मौनमप्याचरितं अमौनमप्यासेवितम् । छाद्मस्थिकपर्याये अभाषणं सेवितं, केवलज्ञानप्राप्त्यनन्तरं अमौनं सेवितम् । स्वात्मनि परिपूर्णाहिंसाप्रकटनार्थं मौनमाचरितं, प्रतिजनमहिंसाधर्मस्वरूपं ज्ञापयितुममौनमासेवितम् । सार्द्धादशवर्षपर्यन्तं सुरासुरतिर्यगादिकृतसर्वोपसर्गान् समभावेन सहमानः सहमानः ग्रामानुग्रामं विहरन् विहरन् अन्यत्वादिद्वादशभावनास्वरूपं चिंतयन् चिंतयन् स्वशरीरमपि व्युत्सृज्य भगवान् बभाषे 'इदं गात्रं न मम, अहं मूर्तेर्भिन्नः चैतन्यस्वरूपं शुद्धबुद्धनिरञ्जनात्मा अस्मि, शुद्धचैतन्यं मम स्वरूपमस्ति' । यो विग्रहासक्तिः त्यजति स एव चैतन्ये स्थिरीभवति । स्वचैतन्ये स्थिरीभवनप्रक्रिया समता अस्ति । उक्तं च न्यायविशारदमहोपाध्याययशोविजयेन अध्यात्मसारप्रकरणे समताधिकारे दूरे स्वर्गसुखं मुक्ति-पदवी सा दवीयसी । मनः संनिहितं दृष्टं स्पष्टं तु समतासुखम् ।। यत्र सर्वोपाधयः समाप्यन्ते तत्रैव भगवद्पमुदेति । ३३ Page #47 -------------------------------------------------------------------------- ________________ आगादः चिन्तनधारा मुनिरत्नकीर्तिविजयः एतद्वर्षं भगवतो महावीरस्य स्मृतेः पुण्यावसरस्वरूपं वर्षमस्ति । तस्य भगवतः षड्विशतितमजन्मशतीवर्षमेतद् वर्तते । सामान्यतस्तु वर्तमानाया विश्वस्य स्थितेः सूक्ष्म निरीक्षणं यदा यदा क्रियते तदा तदा तेन भगवता प्ररूपिताः सिद्धान्ताः, तत्प्ररूपणे च तस्य पारगामिनी दृष्टिः प्रतिक्षणं स्मृतिगोचरा भवत्येव किन्तु, अवसरं प्राप्य विशेषेण तत् स्मृतिमुत्तेजयति । यद्यपि वर्तमानायाः स्थितेः दुर्बलत्वं न्यूनत्वं वा सम्मुखीकृत्य पुरस्कृत्य भगवतो महावीरस्य प्राबल्यं सर्वोपरित्वं वा ख्यापयितुं नास्त्यत्र कोऽप्याशयः । 'अन्यस्य कस्याऽपि दौर्बल्यमपरस्य प्राबल्ये मान' मिति भौतिकजगति सत्यं सदपि आध्यात्मिकजगति तस्य मूल्यं किञ्चिदपि नास्त्येव । आध्यात्मिकक्षेत्रे, एकस्य पतनेनाऽन्यस्य उन्नतिर्न कदापि मीयते गण्यते वा । यस्य कस्याऽपि उन्नतिः तस्य स्वस्याऽधीनत्वेनैव प्रवर्तते । अन्येषां ग्रह-नक्षत्र- तारकादीनां अल्पतेजस्कत्वं न कदापि सूर्यस्य प्रखरतेजस्वितायां कारणं भवितुमर्हति । सूर्यस्तु स्वयमेव तेजस्वी तेजःपुञ्जो वा वर्तते । सन्मार्गोऽपि नाऽसन्मार्गस्याऽपेक्षया सत्यं किन्तु स्वयमेव स तत्स्वरूपः । एवं भवति कदाचित् यत् असन्मार्गप्रवृत्यनन्तरं सत्यस्य - सन्मार्गस्य भानं जायेत । एवमेव भगवान् महावीरः तस्य सिद्धान्ताश्च स्वयमेव महान्तः त्रिकालाबाधितसत्यस्वरूपाश्च सन्ति । केवलं पूर्वग्रहशून्या दृष्टिरेव तत्सत्यं ग्रहीतुं समर्था भवति । हेल्वेटीयस् नाम्ना लेखकेन लिखितमस्ति यद् – 'सत्यं त्वेकमुल्मुकमस्ति, यत् मिहिकामविकीर्याऽपि तन्मध्यादेव प्रकाशते' इति । अत्र तु भगवतो महावीरस्य साधनातः पुरुषार्थाच्च प्राप्यमाणं जीवनस्य सत्यं निर्देष्टुं प्रयत्नमात्रं कृतमस्ति । सङ्घर्ष इति जीवनतत्त्वस्याऽपरं नाम पर्यायो वाऽस्ति । सुखायाऽविरतं सङ्घर्ष इति मानवजीवनस्य संक्षिप्तोऽपि संपूर्ण इतिहासोऽस्ति । ३४ Page #48 -------------------------------------------------------------------------- ________________ प्रत्येकं मनुष्यस्य समक्षं द्वौ विकल्पौ वर्तेते - एको मनसो ध्वनिः, अपरश्चाऽऽत्मनो ध्वनिः । सर्वेषु मनुष्येषु महावीरत्वस्य सम्भावना वर्तत एव । केवलं स कं पुरस्करोति - मनसो ध्वनिमात्मनो ध्वनि वा ? इत्यत्राऽस्ति तस्याऽऽधारः । समग्रस्याऽपि संसारस्य पुरुषार्थोऽनयोर्द्वयोः विभागयोरेव विभक्तोऽस्ति । एकस्मिन् विभागे जगत् समस्तमपि वर्तते, अपरस्मिन् च भगवान् महावीरः । सुखमेव सर्वेषां लक्ष्यरूपेण वर्तते-जगतोऽपि महावीरस्याऽपि च । जगत् मनसो ध्वनिमनुसरति तत्रैव च सुखं पश्यति - अनुमाति, भगवान् महावीरस्तु आत्मनो ध्वनेरनुसरणे सुखं पश्यति । मनसो ध्वनि : प्रेयोमार्ग - साधनैश्च सुखप्राप्तेर्मार्गोऽस्ति । आत्मनश्च ध्वनिस्तु श्रेयोमार्गःसाधनयाऽन्तःस्थितस्य सुखस्य आविष्करणस्य मार्गः । प्रथमपक्षे सुवर्णं रञ्जयित्वा तत् तेजस्वि कर्तुं प्रवृत्तिरस्ति, द्वितीयपक्षे तु सुवर्णमग्नौ तापयित्वा तदन्तःस्थं तेजस्वित्वं प्रकटयितुं प्रयासोऽस्ति । बाह्यादानीतं तेजस्वित्वं क्षणिकमल्पजीवि च भवति किन्तूद्घटितं आन्तरिकं तेजस्वित्वं तु शाश्वतं चिरंजीवि च भवति । "प्रेयो वर्तमानक्षणमेव स्वकीयो विषयः करोति परं श्रेयस्तु अनन्तभविष्यत्कालव्यापि वर्तते" - सदातनमेतत् सत्यम् । सत्येनैतेन मनुष्यो न सर्वथाऽनभिज्ञः तत्त्वनुभवसिद्धमेव। किन्तु तुच्छस्तस्य मोह एतत्सत्यं प्रति दुर्लक्ष्ये कारणत्वेन प्रवर्तते । सत्यस्याऽनभिज्ञत्वं त्वेकं वस्तु किन्तु तत्प्रति दुर्लक्ष्यं त्वन्यदेव । 'सत्यं ज्ञायत एव न' इति तु सर्वथाऽशक्यं मनुष्याणाम् । प्रत्येकं परिस्थितेः तत्परिणामगतं च सत्यं तस्याऽन्तरे प्रकाशितं भवत्येव नूनम् । किन्तु तस्य मोहः तं प्रकाशं - सदसद्विवेकं रुणद्धि, तस्य ज्ञानमाच्छादयति, तस्य च दीर्घदृष्टिं कुण्ठयति । मोहात् सत्यं न ज्ञायते इति कथनं यद्यपि अर्धसत्यं, तथापि मोहात् सत्यं न स्वीकर्तुं शक्यते इति कथनं तु सर्वथा समुचितम् । विचाराणां ज्ञानस्याऽनुभवस्य वा क्षेत्रपर्यन्तमागतोऽपि सत्यस्य प्रकाशः समुद्रतटेन आस्फाल्य निवर्तमानानि तरङ्गाणि इव, मोहस्य दुर्भेद्यया भित्या आस्फाल्य पुनविलीयते ।। 'मोहो दुर्भदः' इति सत्यं, किन्तु न सोऽभेद्यः, भेद्य एव सः । यो भिनत्ति स महावीरो जायते । भगवतो महावीरस्य साधनाऽप्येतदेव शिक्षयति यत् - 'मनुष्यः अनन्तशक्तेनिधिरस्ति । Page #49 -------------------------------------------------------------------------- ________________ केवलं स क्षणिकत्वस्य मोहमपसार्य शाश्वततत्त्वमभिलषेत् - इति अनिवार्यम् । इच्छाशक्तेः प्राबल्यमेव मनुष्यं महावीरं जनयति । वर्तत एव प्रत्येकं मनुष्येषु इच्छाशक्तिः, केवलं तस्या मार्गपरिवर्तनं दिक्परिवर्तनं वाऽऽवश्यकमत्र । कस्यामप्येकस्यां दिशि निष्फलत्वं प्राप्तो मनुष्यो झटित्येव अन्यस्यां दिशि प्रयतत एव , तर्हि, नित्यकार्येषु आचीर्यमाणामेनां प्रक्रियां जीवनतत्त्वेन सह किमर्थं स न सङ्कलयति' । भगवतो महावीरस्य सन्देशोऽपि एतावानेव यद् ''भोः! महाभाग ! त्वं दिशं परावर्तस्व । आदृतः पुरुषार्थो भवता अनन्तकालात् प्रेयोमार्गे किन्तु सर्व एव स निष्फलतां गतः, अधुनाऽपि निष्फलो जायते, इतः परमपि स निष्फलत्वमेव अनुवय॑ते । एकशोऽपि यदि नाम त्वं तव मोहमपाकृत्य श्रेयोमार्गेण पुरुषार्थं करिष्यसि तर्हि सुखं तु चरणयोः विलुठिष्यति । यच्च सुखं त्वं बाह्यात् साधनैश्च प्राप्तुं प्रयतसे यदर्थं च परितप्यसि तत्तु त्वदन्त एव विलसति, तदेव च वास्तविकं सुखमपि। प्रेयोमार्गेण साधनैश्च प्राप्यमाणं सुखं तु न वस्तुतः सुखं किन्तु सुखस्याऽऽश्वासनमेव तत् । न शोभते तव मृगमरीचिकासु जलस्याऽऽश्वासनम् । यतो विद्यते त्वयि शक्तिर्ज्ञानं च । तदाश्वासनं भवतु मृगाणां येषु शक्तेमा॑नस्य वाऽभावो वर्तते । तव मार्गोऽस्ति श्रेयसो मार्गः । तत्र कृत एव तव पुरुषार्थो निश्चयेन सफलत्वं प्राप्स्यति । तद्द्वारा चोद्घटितं सुखमेव वास्तिवं सुखम् इति' । भगवान् महावीरो नाऽस्माकं क्षति दर्शयति यत् – 'युष्माभिः क्षतिः कृता, कुर्वन्ति च यूयमद्याऽपी'ति । स जानात्येव यत् - क्षतिस्तु मयाऽपि कृता एवाऽसीत् । अपरं च - 'क्षेतेरेव शिक्षणं प्राप्यते जनैः' केवलं क्षतिं क्षतित्वेन स स्वीकर्तुं शक्तो न वा इत्यत्राऽस्ति तस्याऽऽधारः । अतः क्षतौ प्रहरणं नाऽऽसीत् महावीरस्य तत्साधनाया वा लक्ष्यम् । भगवान् तु स्वकीयया साधनया मानवस्य अचिन्त्यां शक्तिं प्रति ध्यानमाकर्षयति। 'जोन लोक' इत्यनेन लेखकेन कथितं यत् - "जनाय तस्य क्षति प्रति अंगुलिनिर्देशकरणं खलु सरलं शक्यं च ; किन्तु क्षतिमुक्तसत्यं प्रति तस्य नयनं तुं अन्यदेव , अर्थात् विरलं अशक्यं च।" भगवान् महावीरोऽपि स्वकीयया साधनया सत्यं सन्मार्गं च प्रकाश्य मानवं तत्प्रति जागरयति । समस्तमपि जगत् यां प्राप्तुं भोक्तुं च नक्तन्दिवं अविरतं प्रयतते तादृशी समग्राऽपि Page #50 -------------------------------------------------------------------------- ________________ भौतिकी सामग्री परिस्थितिश्च भगवतो महावीरस्य समीपे आसीदेव । स्वयमेव देवा अपि तेषां सान्निध्यं सेवमानाः सततमाकाङ्क्षमाणाश्च ववृतिरे । इन्द्रियाणां विषयतृप्त्या मनसः समाधानाय सर्वाण्यपि साधनानि तदधीनत्वेनैव वर्तमानानि आसन् । तीपि सर्वा अपि परिस्थितीन् समस्तान्यपि च साधनानि सन्त्यज्य साधनामार्गे एव तेन प्रस्थानं कृतम्: कस्याऽपि शुद्ध्यर्थं प्राप्त्यर्थं वा। सत्यपि वस्तूनि यदि नाम कोऽपि शुद्ध्यर्थं किमपि प्राप्त्यर्थं वा पुरुषार्थमाचरति तदा तत्र कारणरूपेण द्वौ विकल्पौ उद्भवतः - एकः, यदस्ति तस्य स्वकीयं तन्नास्ति पर्याप्तम्, अपरश्च स तादृशं प्राप्तुं वाञ्छति यन्न तेनाऽद्यपर्यन्तं प्राप्तम् यच्च प्राप्तं तेन तेतोऽप्यधिकं शोभनतरं वा भवेत् । अनयोर्द्वयोविकल्पयोः मध्यादेक एव विकल्पस्तत्र पुनःशुद्ध्यर्थस्य पुरुषार्थे कारणत्वेन वर्तितुमर्हेत् । प्रथमविकल्पस्य मूलं त्वतृप्तिरस्ति, अपरस्य च मूकं ज्ञानदृष्टिः । जगत् अतृप्तिप्रेरितं पुरुषार्थं कुरुते, परं भगवतो महावीरस्य साधनायां ज्ञानदृष्टिरेव कारणम् । साधनैरिन्द्रियाणां विषयाणां पोषणं तद्द्वारा च मनसः समाधानं न कदापि भवति । अपि च संसृतेरनाद्यनन्तत्वस्य तु तदेव बीजम् । अतृप्तिमूलकः पुरुषार्थः परिभ्रमणजनकः सञ्जायते । प्रथममतृप्तिः पश्चात् पुरुषार्थः तद्नु च काचित प्राप्तिः, पुनश्च तज्जन्या अतृप्तिः, पुनः पुरुषार्थ:एतद् विषचक्रं सततं प्रचलत्येव । ज्ञानदृष्ट्या जायमानः पुरुषार्थस्तु साधना अस्ति । स तु आत्मदर्शनं - स्वरूपप्राप्ति प्रति नयति, यत्र वास्तविकस्य अनिर्वचनीयस्य सहजस्य स्वाधीनस्य अनन्तस्य च सुखस्य सागरः समुल्लसति । ज्ञानदृष्ट्या कृतः पुरुषार्थः लक्ष्यं प्रापयति । तस्य परिणामे परिभ्रमणं नास्त्येव किन्तु शाश्वतं स्थैर्यमस्ति । ज्ञानदृष्टेरनावरणं मोहोद्भूतं मिथ्याभिमानमुन्मूल्य आत्मभानं प्रकटयति । आत्माभाने च जाते सति यदुद्भवति सा एवाऽस्ति महावीरस्य साधना, तत्र नास्ति शून्यमेकाकित्वं किन्तु प्रसन्नमेकत्वं तत्र विलसति, नास्ति जाड्यं किन्तु पर्वततुल्यं निश्चलत्वमस्ति, नास्ति हठयोगः ज्ञानयोग एव तत्र प्रवर्तते, न दमनं किन्तु स्वास्थ्यम्, न केवलं सहिष्णुत्वं किन्तु परिपूर्णसमत्वम् , न केवलं भेदज्ञानमेव किन्तु शुद्धा भेदानुभूतिरपि तत्राऽस्ति । एष एव चाऽस्ति ३७ Page #51 -------------------------------------------------------------------------- ________________ चिरन्तनो मार्गो मनुष्यात् महावीरो भवितुं किल । प्रवृत्तिमात्रं पुरुषार्थोऽस्ति किन्तु सद्दिशि कृतः पुरुषार्थस्तु साधानाऽस्ति यो लक्ष्य प्रापयति । यस्तु दिशाशून्यः स सर्वोऽपि शेषः पुरुषार्थः केवलं शारीरिकः श्रम एव कथ्यते । भगवतो महावीरस्य साधनाया ध्वनिरप्येष एव यत् - भवान् भवतः पुरुषार्थस्य दिशं परावृत्य तं साधनास्वरूपं यच्छतु । पश्चाच्च यदर्थं परिश्रमं करोति तत्सुखं सम्मुखमेवोपस्थितं भविष्यति । एतदेव चैकमन्तिमं च सत्यम् । महावीरस्य साधना नास्त्यपरं किञ्चित् किन्तु वास्तविकस्य सुखस्य सन्मार्गरूपा एव सा। मार्गो न कदापि साम्प्रदायिको भवति स तु सर्वजनीन एव भवति । न विद्यते तत्र कस्याऽपि स्वामिभावः । कश्चित् आदर्शस्तु भवेदपि, योऽनुसरणीयो भवेत् । भगवान् महावीरोऽपि आदर्श एवास्ति सर्वेषाम् । केवलं तत्र काऽस्माकं दृष्टिः किं वा मूल्याङ्कनं इत्यत्राऽस्ति अस्मद्वद्धेः परीक्षणम् । ___ उभावपि विकल्पौ - प्रेयोमार्गेण प्रवर्तमानं जगत्, श्रेयोमार्ग अनुसरन् च भगवान् महावीरः - अस्मत्समक्षं स्पष्टावेव । कुत्राऽस्त्यस्माकं रुचिः? एकं तटं परिहत्यैव अन्यत्तरं प्राप्तुं शक्यम्, तद्वत् प्रेयोमार्गस्य त्यागेनैव श्रेयोमार्गेण गन्तुं शक्यम् । भारतीयसंस्कृतिस्तु श्रेयोमार्गस्य संस्कृतिः, यतस्तस्यां केन्द्रवर्ती आत्माऽस्ति लक्ष्यंच आत्मोत्थानम् । प्रेयोमार्गस्य संस्कृतिस्तु पाश्चात्यसंस्कृतिः, तत्र केन्द्रवर्ति शरीरमस्ति साधनानि च सन्ति, भौतिकश्च विकास एव तस्या लक्ष्यम् । अनयोद्वयोर्मध्ये यत् तथ्यरूपं सत्यं वा तदेवाऽऽचरणीयम् । केवलं संस्कृतेः कथनमात्रेण न किमपि कार्यं सरति । एकस्य आङ्ग्ललेखकस्य वचनमप्यस्ति यद् - "यत् सत्यं तदर्थं यदि मनुष्यस्य अभिलाषः स्यात् तर्हि तत्तु पूर्वमेव प्राप्तं स्यात्' इति । ___भगवता महावीरेण स्वकीयया साधनया सत्यं प्रकाशितमेव । सत्यपक्षपातस्य तस्य भगवतः चिरंजीविनः सन्देशस्य अनुसरणं यदि चेत् वयं सङ्कल्पेमहि, तदेव तेषां स्मृतिदिवसस्य श्रेष्ठं तर्पणं भविष्यति । इति शम् ।। Page #52 -------------------------------------------------------------------------- ________________ आस्गादः तीर्थंकराणामतिशया: -मुनिधर्मकीर्तिविजयः। कथ्यन्ते जिनशासने उत्तमजीवाः ‘शलाकापुरुषाः' इति । तत्राऽपि तीर्थकरा: 'उत्तमोत्तमशलाकापुरुषाः' । अस्मिन् काले चतुर्विंशतिः तीर्थकरा जाता इति मन्यन्ते जैनाः । तेषु श्रीमहावीरजिनेश्वरः अन्तिमतीर्थकरोऽस्ति । तस्य भगवतः इदं षड्विंशतशततमं जन्मवर्षं प्रवर्तते । पूर्वभवेष्वपि तीर्थकरजीवः तथाभव्यत्वस्य परिपाकेन नैकविशिष्टगुणैश्च अन्येभ्यो जीवेभ्य उत्तमो भवति । चरमभवापेक्षया पूर्वस्मिन् तृतीये भवे तीर्थकरनामकर्म उपार्जयति भावितीर्थकरात्मा । तत्क्षणादारभ्यैव तीर्थकरनामकर्मणः प्रदेशोदयः तेनाऽनुभूयते । तत्प्रदेशोदयवशादन्येभ्यो जीवात्मभ्यः तस्याऽत्मनः तेजोरूपलावण्यैश्वर्यसौभाग्यगाम्भीर्य धैर्यसर्वप्रियत्वनिर्भयत्वनिर्दोषत्वसरलतानिरभिमानित्वादयो गुणा अधिकत्वेन वैशिष्ट्यं धारयन्ति । पूर्वतृतीयभवापेक्षया अन्तिमभवे तु तीर्थकरात्मन ईशित्वं निरुपमानं भवति । स सुरासुरेन्द्रनृपवृन्दैः पूजनीयः स्तवनीयश्च भवति । तथा त्रैलोक्यस्याऽधिपतित्वमपि धारयति । एवं चरमभवे तीर्थकरात्मा परमैश्वर्यं प्राप्नोति । किञ्च- जैनसिद्धान्तपरिभाषया चरमभवे ईदृशः तीर्थकरजीवः चतुस्त्रिंशदतिशयैरलङकृतो विद्यते । यद्यपि अत्र न केवलं चतुस्त्रिंशदेवाऽतिशयाः, अपि त्वनन्ता अतिशयाः सन्ति; यतः तीर्थकरात्मनः च्यवनादारभ्य निर्वाणपर्यन्तं सर्वाऽपि अवस्थाऽलौकिका भवति । अन्येषां जीवानां काऽप्यवस्था तीर्थकरस्याऽवस्थया सह तुल्यत्वं धारयितुं न समर्था । तत एव तीर्थकरस्य सर्वाऽप्यवस्था ‘अतिशयः' इत्यभिधीयते । तथाऽपि अस्मादृशां बालजीवानां बोधार्थं चतुस्त्रिंशदेवऽतिशयाः शास्त्रेषु वर्णिताः । एवं "तीर्थकरस्य अन्तिमभव एवाऽतिशयः" इति कथने नास्त्यतिशयोक्ति: काऽपि । अतिशयः कः? जगतोऽप्यतिशेरते तीर्थकरा एभिरित्यतिशयाः । ३९ For Private Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ प्राप्यते व्याख्यैषाऽभिधानचिन्तामणिकोशस्य स्वोपज्ञटीकायाम्। तीर्थकरं ऋते न समर्थः कोऽपि जीव एतादृशमैश्वर्यं प्राप्तुमित्यतोऽतिशयाः । तीर्थकरस्याऽनुपस्थितौ एकत्रमीलिताः सर्वेऽपि देवा भगवदशोक वृक्षस्य सदृशमन्यदशोकवृक्षं कर्तुं न प्रभवन्ति । किन्तु एकोऽपि देवो भगवतः सांनिध्यप्रभावेण क्षणादेव अपूर्वमशोकवृक्षं विरचयति । एष एव भगवदतिशयः । अत्र चतुस्त्रिंशदतिशयाः त्रिभिः विभागैः वर्ण्यन्ते । तत्र प्रथमाः चत्वारोऽतिशयाः "सहजातिशयाः" कथ्यन्ते । जन्मन आरभ्यैवैते चत्वारोऽतिशया विद्यन्ते, अत: 'सहजाः' इत्यभिधीयन्ते । तद्यथा१. भगवतो रूपमद्भुतमनन्यसदृशं च भवति । तेषां देहोऽपि सुगन्धी निरामयः स्वेदविहीनो मलोज्झितश्च विद्यते। २. भगवतः श्वासोऽपि अब्जगन्धो भवति । ३. भगवतो रुधिरं गोक्षीरप्रवाहवत् श्वेतं तथा पललमपि विशदं दुर्गन्धविहीनं च भवति । ४. भगवत आहारनीहारविधिः चर्मचक्षुषां जीवानां दृग्गोचरो न भवति । अथ कर्मक्षयजा एकादशाऽतिशयाः सन्ति । तीर्थकरात्मा चरमभवे राज्यकुटुम्बवैभवसुखं विहाय संयममार्गमुररीकृत्य अपूर्ववीर्योल्लासद्वारा ज्ञानावरणीयदर्शनावरणीयमोहनीयअन्तरायरूपं घातिकर्मचतुष्कं यदा क्षीणं करोति, तदैव भगवत एते एकादशाऽतिशयाः प्रादुर्भवन्ति । अतः कर्मक्षयजा इति व्याख्यायन्ते । १. एकयोजनमात्रकेऽपि समवसरणे नृतिर्यग्देवानां कोटिकोटिः निराबाधं समाविशति । २. भगवतो देशना सर्वासु दिक्षु एकयोजनपर्यन्तं प्रसरति । ददाति अर्धमागध्यां भाषायां देशनां भगवान् । तथाऽपि सा देशना सर्वासु भाषासु परिणमति, ततो देवा मनुष्याः तिर्यञ्चः स्वस्वभाषायां श्रृण्वन्ति, श्रुत्वा च परमानन्दमाप्नुवन्ति । ३. भगवतो उत्तमाङ्गस्य पृष्ठेऽतिमनोज्ञं दीप्तिमच्च भामण्डलं विद्यते। दिवाकरमण्डलस्य कान्तेरप्यधिका कान्तिः वर्तते तस्य भामण्डलस्य । भामण्डलप्रभावादेव जीवाः सुखेन ४० Page #54 -------------------------------------------------------------------------- ________________ ४. भगवदर्शनं कर्तुं शक्ता भवन्ति । अन्यथा भगवतः तेजोमयमुखारविन्दं निरीक्षितुं न कोऽपि समर्थो भवेत् । चतुर्षु दिक्षु पञ्चविंशतियोजनाधिकं ऊर्ध्वाधोदिशोः त्रयोदशार्धयोजनं भवेत् । एवं पञ्चविंशत्यधिकयोजनशतं भवति । यत्र यत्र भगवान् विहरति तत्र तत्र पञ्चविंशे योजनशते नोद्भवन्ति रोगाः, षण्मासपूर्वमपि उत्पन्नाः सर्वेऽपि रोगाः शमं यान्ति । तथाऽऽगामिमासषट्कपर्यन्तं नवीना अपि रोगा न प्रादुर्भवन्ति । ५-११- यत्र यत्र भगवान् विहरति तत्र तत्र पञ्चविंशे योजनशतेवैरं नश्यति । भगवतः प्रभावेण जन्मजातं वैरं धारयन्तः प्राणिगणा अपि प्रशान्ता भवन्ति । ६. ईतिः धान्याद्युपद्रवकारिणा मूषकादिप्राणिना उपद्रवरूपः, सोऽपि नोत्पद्यते । ७. मारिः (औत्पातिकं) सर्वगतं मरणं न भवति । ८. अतिवृष्टिः निरन्तरं वर्षणं न भवति । ९. अवृष्टिः सर्वथा वृष्ट्यभावो न भवति । १०. दुर्भिक्षं धान्यानामभावो न भवति । ११. स्वराष्ट्रात् परराष्ट्राच्च भयं न भवति । ___ अथ एकोनविंशतिः देवकृता अतिशया वर्ण्यन्ते । १. गगने देवा धर्मप्रकाशकं धर्मचक्रं कुर्वन्ति । विहरतो भगवत उपरि निर्जरा खे धर्मचक्र चालयन्ति । एतद्धर्मचक्रं दशाऽपि दिश उद्योतयति । २. विहरतो भगवतः पार्वे तथोपरि नभसि विबुधाः चामरान् वीजयन्ति । ३. विद्यतेऽनन्ते निर्मलस्फटिकरत्नमयमुज्ज्वलं सपादपीठं मृगेन्द्रासनम् । यदा भगवानासीत तदा तन्मृगेन्द्रासनं यथोचिते स्थाने सुराः समारचयन्ति । ४. वियति देवाः छत्रत्रयं प्रकुर्वन्ति । यदा भगवानासीत तदा मस्तकस्योपरि समुचिते स्थाने छत्रत्रयं निर्जराः स्थापयन्ति । ५. दीप्यते सुरवर्त्मनि नैककेतनैः सुशोभितो रत्नमयो ध्वजः । तता Page #55 -------------------------------------------------------------------------- ________________ ६. भगवतः पादन्यासार्थं त्रिदशाः सुवर्णपङ्कजानि कुर्वते । केवलज्ञाने प्राप्ते सति अंही भूमि न स्पृशतो भगवतः, ततो विहरन् भगवान् देवनिर्मितचामीकरारविन्दानामुपरि चरणन्यासं कुरुते । भगवतो मधुरदेशनायाः स्थानरूपे समवसरणेऽमरा रजतसुवर्णरत्नमयं प्राकारत्रयं कुर्वन्ति । तत्र वैमानिकदेवाः सर्वोत्कृष्टरत्नमण्डितं प्राकारं निर्मिमते, ज्योतिष्कदेवा मनोज्ञं सुवर्णमयं वप्रं समारचयन्ति, तत्पश्चाद्भवनपतिदेवा रूप्यमयं प्राकारं कुर्वन्ति । ८. समवसरणे देशनाकाले स्वयं भगवान् पूर्वदिशि सिंहासनस्योपरि विराजते । अन्यस्मिन् दिक्त्रये व्यन्तरदेवाः प्रभोः शरीरस्य प्रतिकृतीः निर्मिमते । एवं जीवानां कल्याणार्थं विभुः चतुर्मुखीभूय निर्मलां हितकारिणी मधुरां च देशनां ददाति ।। विबुधाः चैत्याभिधानं द्रुममशोकवृक्षं रचयन्ति । एष वृक्षः सर्वदा भगवतः संनिधावेव तिष्ठति । सदैतवृक्षस्योपरि निखिलतूंनां सुगन्धितपुष्पनिकुरम्बा विलसन्ति । भवति स वृक्षः एकयोजनप्रमाणविस्तृतः । १०. विहरतो भगवतो मार्गे कण्टका अप्यधोमुखा भवन्ति । ११. विहरतः प्रभोः द्वयोरपि पार्श्वयोः पादपपङ्क्तिः नम्रतां धारयति । १२. वियति त्रिदशा उच्चैः विश्वव्यापिनं दुन्दुभिनादं कुर्वन्ति । १३. वायुरपि सुखत्वेनाऽनुकूलो भवति । न वाति विभोः सन्मुखं वायुः; अपि तु पश्चादेव वाति, ततो वायुः सुखरूपो भवति ।। १४. विहरतो भगवतो खे उड्डीयमाना वनप्रियनीलकण्ठशुकादय उत्तमपक्षिणोऽपि दक्षिणावर्ते प्रदक्षिणं ददति । १५. यस्मिन् क्षेत्रे प्रभुः विराजते तस्मिन् क्षेत्रे रजोवृन्दं शमयितुं मेघकुमारदेवा उत्तमतमसुगन्धिद्रव्यान्वितजलानां वृष्टिं कुर्वन्ति । १६. भगवतोऽग्रे सुरा जानुप्रमाणं पञ्चवर्णानां पुष्पाणां वर्षणं कुर्वते । १७. दीक्षाकालादारभ्यैव विभोः केशानां लोम्नां श्मश्रुणः कूर्चस्य च पाणिपादजानां नखानां न वृद्धिः भवति, किन्तु ते वर्तन्तेऽवस्थितस्वभावत्वेनैव । १८. घाति-अघातिसमस्तकर्मव्यूहानां क्षयेन केवलज्ञानेऽवाप्ते सति जघन्यतोऽपि ४२ Page #56 -------------------------------------------------------------------------- ________________ भवनपतिव्यन्तरज्योतिष्कवैमानिकादिचतुर्विधानाममराणां कोटिः प्रभोः सदेशमेव प्रवर्तते। १९. ऋतूनां वसन्तादीनां इन्द्रियार्थानां स्पर्शरूपरसगन्धशब्दानां च प्रादुर्भवनेन अनुकूलत्वं भवति । एवं सहजाः चत्वारः, कर्मक्षयजा एकादश तथा देवकृता एकोनविंशतिः अतिशया इति चतुस्त्रिशद्भिरतिशयैः तीर्थकरोऽलङ्कृतो भवति । पारिभाषिकाणां कठिनशब्दानामर्थाः - शलाकापुरुषाः तथाभव्यत्वम् तीर्थकरनामकर्म प्रदेशोदयः अतिशयः च्यवनम् निर्वाणम् वीर्योल्लासः समवसरणम् औत्पातिकम् घातिकर्म चतुर्विशतिः तीर्थकराः, द्वादश चक्रवर्तिनः, नव वासुदेवाः, नव प्रतिवासुदेवाः, नव बलदेवा इति त्रिषष्ठिशलाकापुरुषाः एकस्यामुत्सपिण्यामवसर्पिण्यां चोत्पद्यन्ते इति मन्यन्ते जैनाः । मोक्षगमनस्य योग्यता। जिनशासने शताधिकाष्टपञ्चाशत्कर्मप्रकृतयो मन्यन्ते । तत्र त्रिनवतिषु नामकर्मप्रकृतिषु तीर्थकरनामकर्मणः उदयेन पुण्यानुबन्धिपुण्यरूपं परमैश्वर्यं जीवः प्राप्नोति । स तीर्थकरनामकर्म इत्याख्यायते। जिनमतानुसारेण कर्मोदयस्य प्रकारः । विशिष्टं ऐश्वर्यम् । मातुः कुक्षौ तीर्थकरात्मनः आगमनकालः । सकलकर्मक्षयं कृत्वा मोक्षगमनम् । जीवस्य आशयविशेषः । देवनिर्मितं भगवतो देशनास्थानम्। कस्मादपि निमित्त (उत्पात) वशाज्जातं वस्तु । आत्मनो ज्ञानदर्शनचारित्रवीर्यादिगुणानामाच्छादकं कर्म । तत्कर्म चतुर्विधम् यथा ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायं चेति । येन मोक्षगमनं बाध्यते ततकर्म अघातिकर्म कथ्यते । तदपि चतुर्धा यथा वेदनीयायुर्नामगोत्रमिति । निःशेषकर्मसमुदायक्षयस्य पश्चादुद्भवन्निर्मलं चराचरसमस्तवस्तुदशि ज्ञानम् । लोके उत्तमोत्तमः। - अघातिकर्म केवलज्ञानम् अलौकिकः Page #57 -------------------------------------------------------------------------- ________________ आस्वादः चमणौ भयावान महावीर - मुनिकल्याणकीर्तिविजयः अद्य किल संवत्सराणां षड्विंशतिः शतानि व्यतीतानि श्रीमतां चरमतीर्थभृतां परमोपकारकारिणां निष्कारणवात्सल्यमूर्तीणां महामहिम्नां श्रीमहावीरस्वामिनां जन्मोत्सवस्य । एनं प्रसङ्गमनुलक्ष्य किञ्चिदतीतं विलोकयामः । __ अथ तेषां पितृभ्यां श्रीसिद्धार्थमहाराज-त्रिशलादेवीभ्यां तेषु जननीकुक्षिस्थेष्वेव निजराज्ये सर्वत्र वर्धमानां समृद्धिं समवलोक्य तदनुसारेण निजाङ्गजस्य 'वर्धमानः' इति नाम कर्तव्यमिति सङ्कल्पितम् । पुत्रजन्मानन्तरं तु निजसङ्कल्पितं स्मृतिपथमानीय तन्नाम 'वर्धमानकुमारः' इति संस्थापितम् । तदा - श्रमणः कः ? एते च भगवन्तः श्रीवर्धमानकुमारत्वं सुकुमारराजकुमारत्वं पित्रोः सिद्धार्थत्रिशलयोः प्रियपुत्रत्वं नन्दिवर्धन-सुदर्शनयोः स्निग्धभ्रातृत्वं यशोदाया: प्रेय:पतित्वं प्रियदर्शनाया वत्सलजनकत्वं जमालेरुदारश्वशुरत्वं अनेकेषां च सख्यं स्वाम्यं नयनालादकत्वं तथा विशेषतस्तु देहात्मत्वं सन्त्यज्य श्रमणीभूय तीव्र तपस्तप्तवन्तो गभीरं ध्यानं ध्यातवन्तः परीषहान् जितवन्त उपसर्गान् सोढवन्तो रागादीनान्तरशत्रून् पराभूतवन्तः क्लिष्टकर्मणां मर्माणि छेदितवन्तः कैवल्यनैर्मल्येन जगतः सर्वभावान् हस्तामलकवत् विलोकितवन्तो निजान्वयानुसारिण्यै वाचंयमपरम्परायै अपि श्रामण्याराधनमुपदिष्टवन्तस्तत् श्रामण्यं कीदृशं श्रमणाश्च कीदृशो भवन्ति? इतिविषयिणी जिज्ञासा परिचिचीषा च स्वान्यशास्त्रार्थसार्थादृष्यवैदुष्यशालिनां सुविचारविलासिनां मनीषिणां भवेदेव । अतस्तां शमयितुं शास्त्रस्य हस्तालम्बनं गृहीत्वा प्रथमं 'श्रमण' शब्दस्य निष्पत्ति विचारयामः । ___ लाक्षणिकव्युत्पत्त्या तु श्राम्यतीति श्रमणः, 'नन्द्यादिभ्योऽनः (सि.हे.५/१/५२)' इति सूत्रोक्तेनाऽनप्रत्ययेन कर्तरि श्रमणः भवति । तदर्थस्तु - सर्वेभ्योऽपि सूक्ष्म-स्थूलेभ्यो मनोवाकायजन्येभ्यः सावद्ययोगेभ्यः श्राम्यति विनिवर्तते विरमति वेति श्रमणः । स च संयतः साधुरेव भवति । Page #58 -------------------------------------------------------------------------- ________________ यदुक्तं श्रीदशवैकालिकसूत्रनिर्युक्तौ - भावेण उ संजओ समणो ।। १५३ ।। निरुक्तिश्च श्रमणशब्दस्याऽस्यामेव नियुक्तौ एवं व्याख्याता (प्राकृतभाषायां हि 'श्रमण' शब्दस्य 'समण' इति परावर्तनं भवति । तमाश्रित्य एषा निरुक्तिस्तीति) - जह मम न पियं दुक्खं जाणिय एमेव सव्वजीवाणं । न हणेइ न हणावेइ य सममणई तेण सो समणो ॥१५८॥ अस्या भावार्थः - यथा स्वस्याऽऽत्मनः स्वल्पमपि कण्टकवेधनादिकं दुःखं नैवाऽभीप्सितं तथैवाऽस्मिन् भुवने जीवतां सर्वेषामपि कीटादिपुरन्दरपर्यवसानानां जन्मिनामणीयोऽपि दुःखं नैवेष्टम् । इत्येवं सर्वेषां दुःखप्रातिकूल्यं ज्ञात्वा यः स्वयमपि जीवान् न हन्ति न चाऽप्यन्यैर्घातयति घ्नन्तं चाऽन्यं नाऽनुमतिमपि दत्ते इत्यनेन प्रकारेण यः 'समं अणति' तुल्यं गच्छति सर्वत्राऽऽत्मसाम्येन पश्यति यतस्तेनाऽसौ समणः श्रमण इत्युच्यते। तथा - नत्थि य सि कोइ वेसो पिओ व सव्वेस चेव जीवेस । एएण होइ समणो एसो अन्नो वि पज्जाओ ।। १५५ ॥ भावार्थः तस्य च सर्वत्र जीवेषु तुल्यमनस्कत्वेन नैव विद्यते कस्यचिदप्युपरिष्टाद् द्वेषो रोषो वा न चाऽपि कस्मिंश्चित् स्नेहो ममत्वं वा । एतेन स समं मनोऽस्येति निरुक्ताश्रयणेन सममनाः (प्राकृते सममणो - समणो) श्रमणो भवति । एषोऽपि तस्याऽन्यः पर्यायः कथितः । ता समणो जइ सुमणो भावेण य जइ न होइ पावमणो। सयणे य जणे य समो समो य माणावमाणेसु ॥१५६ ॥ भावार्थः तत एव यदि श्रमणो द्रव्यतः शोभनं मनोऽस्येति कृत्वा सुमना भवति भावतस्तु पापसङ्गतचित्तो न भवति तदा तत्फलत्वेन स स्वीया एते इति कल्पितेषु स्वजनेषु परकीया एते इति कल्पितेषु इतरजनेषु च समानचित्तवृत्तिको भवति, तथा मानापमानयोः सत्कार १. तुलना - आत्मवत् सर्वभूतेषु यः पश्यति स पश्यति ।। Page #59 -------------------------------------------------------------------------- ________________ तिरस्कारयोरपि स तुल्यमनस्को भवति, यतो यदा सर्वेऽपि जीवास्तुल्या एवेति तन्मनसि प्रत्ययो भवेत् तदा तस्य कः स्वजनः कश्च परजनः ? । किं सन्मानं किं चाऽवमाननमिति ? । अथ श्रमणः कीदृशो भवतीति प्रदर्शयितुं काश्चिदुपमाभिः स उपमेमीयते उरग-गिरि-जलण-सागर-नभयल-तरुगणसमो य जो होइ । भमर-मिग-धरणि-जलरुह-रवि-पवणसमो जओ समणो ॥१५७॥ भावार्थः (१) उरगस्तु सर्पः , तत्समः श्रमणो भवति । सर्पो हि परेण कृते बिल एव निवसति न तु स्वयं तद् बिलमारचयति । तथा यत् किमपि स्वयोग्यमन्नं सोऽनास्वादयन् गिलत्येव । तथा यत्र कुत्राऽपि परिसर्पन् स दत्तैकदृष्टिक एव भवति । ___एवं श्रमणोऽपि परकृतेष्वेवोपाश्रयेषु वसति न तु स्वयमेव तत्करोति स्वार्थं कारयति वाऽन्यैः । तथा यत् किमपि निर्दोषं भिक्षाटनेन लब्धमन्नं सरसं विरसं नीरसं वा तत् सर्वं केवलं देहवृत्त्यर्थमनासत्त्कतया मधुरमिदमिदं च स्वादरहितं शुष्कं वेत्याद्यचिन्तयन्नेव भुङ्क्ते । तथा गृहीतव्रतानां परिपालनायामेव न्यस्तनिष्ठो संयमैकलक्ष्यश्च भवति तद् ऋते च न किमपि पश्यति । (२) गिरिः पर्वतः, श्रमणोऽपि पर्वततुल्यो भवति । पर्वतो हि सदा स्थिरो महावातैरप्यकम्प्यो भवति । एवं श्रमणोऽपि परीषहोपसर्गादिकष्टेष्वपि स्खलनाहीनः सन् निश्चलं स्थैर्यमाबिभर्ति । (३) ज्वलनोऽग्निः स हि तेजःप्रधानो बहुभक्षणेऽप्यतृप्तो दारु-वस्त्रादीनि वस्तून्यविशेषतया ज्वालयति । एवमेव श्रमणोऽपि तपसस्तेजसा भ्राजमानः, स्वाध्याय-ध्यानादिषु सूत्रार्थयोरध्ययने च सर्वदाऽप्यतृप्तः, एषणीयानामशन-पान-वस्त्रादीनां ग्रहणेऽविशेषप्रवृत्तिकश्च भवति । (४) सागरोऽब्धिः , स च गभीरोऽसङ्ख्येयरत्नानामाकरो निजमर्यादायाश्च प्रतिपालको भवति । एवं श्रमणोऽपि स्वभावेन गम्भीरहृदयो ज्ञान-क्षमादिगुणानामाकरः व्रतमर्यादायाश्चाऽनुल्लङ्घको भवति । ४६ Page #60 -------------------------------------------------------------------------- ________________ (५) नभस्तलं हि सर्वदाऽऽलम्बनरहितं निर्लिप्तं च भवति । एवं श्रमणोऽपि सर्वत्र निरालम्बनः कथमपि रागादिना नैव लिप्यति । (६) तरुगणो वृक्षाणां समूहः । वृक्षा हि स्वयमातपं सहमाना अपि परेभ्यः शीतलां छायां ददति, फल-निवासाथिनां च विहगादिजीवानामाश्रयस्थानं भवति । एवं श्रमणोऽपि स्वयं तपसा तप्तोऽपि परार्थं तु सर्वदा शीतलो निःश्रेयसफलार्थिसत्त्वानां चाऽनुत्तममाश्रयस्थानमालम्बनं च भवति । (७) भ्रमरस्तु मधुकरः । स एकस्मादेव पुष्पात् कदाऽपि सर्वं रसं न लेढि किन्तु नाना पुष्पेभ्यस्तदप्यनियतवृत्त्यैव स्तोकस्तोकं रसं गृह्णन् तृप्यति । ___ एवं श्रमणोऽपि न स्वयमेवाऽन्नं पचति नाऽपि पाचयत्यन्यैर्वा किन्तु विविधेभ्यो गृहेभ्यस्तदपि अनैयत्यसमालम्बनेनैव स्तोकस्तोकां भिक्षां गृह्णाति न तु सदा एकस्मादेव गृहात् । एतेन भ्रमरात् पुष्पाणामिव ततोऽपि गृहस्थानां न काऽपि ग्लानिर्हानिर्वा भवेत् । (८) मृगो हरिणः , स हि सर्वदा मृगारि-व्याघ्रादिभ्यः श्वापदेभ्यो भीतः सर्वत्र सावधानं चरति । एवं श्रमणोऽपि संसारात् रागादिभ्यश्च संसारहेतुभ्यः सर्वदा बेभीयते सर्वत्र सावधानचित्तो विहरति च। (९) धरणिः पृथ्वी । सा तु सर्वंसहा सर्वकालं सर्वेषां भारं वहति कर्षणादिकं दुःखं च सहते। एवं श्रमणोऽपि तत्समः सर्वंसहो भूत्वाऽव्यग्रतया सर्वखेदसहिष्णुर्भवति । (१०) जलरुहं पङ्कजं, तत् तु पङ्के उत्पन्नमपि मलावलिप्तमुत्पत्तिस्थानं सन्त्यज्य तत ऊर्वीभूय वर्तते । एवं श्रमणोऽपि कामभोगादिपङ्के जातोऽपि तेनैव च वधितोऽपि सर्वमपि तन्निःसारं मत्वा यत्नेन च परित्यज्य संसारादूर्वीभूय निर्लिप्ततया वर्तते । (११) रविः सूर्यः । स हि स्वकीयेनोदारतेजसा सर्वमपि चराचरं जगत् प्रकाशयति । एवं श्रमणोऽपि स्वीयनिर्मलज्ञानरोचिषा जीवेभ्यो ज्ञानं देदीयमानस्तेषां चेतांसि Page #61 -------------------------------------------------------------------------- ________________ प्रकाशयति । (१२) पवनो वायुः । स हि सर्वत्र प्रतिबन्धरहितो निराबाधतया वाति । एवं श्रमणोऽपि कुत्रचिदप्यासक्तिमकुर्वन् अप्रतिबद्धतया विहरति । इत्थमुरगादिसमो यतो भवति ततः स श्रमण उच्यते । अन्यत्राऽप्युक्तम् - विस-तिणिस-वाय-वंजुल-कणियारुप्पलसमेण समणेणं । भमरुंदुरु-भड-कुक्कुड-अद्दागसमेण होयव्वं ॥१॥ अस्याऽर्थः (१) विषं-गरलं, विषे हि सर्वेषां रसानामन्तर्भावात् न कस्यचिदपि रसस्याऽनुभवस्तस्मिन् भवति । एवं श्रमणेनाऽपि कस्यचिदपि रसस्याऽननुभावकतया सर्वरसानुपातितया सामरस्यैकरुचिना भवितव्यम् । (२) तिनिशोऽतिमुक्तकः ('नेतर' इति भाषायां वेत्रलता वा) स हि अतीवनम्रः स्थितिस्थापकश्च भवति । एवं श्रमणेनाऽपि अभिमानत्यागतो विनयननेण भवितव्यम् । (३) वातः पवनः । अत्र पूर्ववत् । (४) व लो वेतसः । एवं हि श्रूयते - किल वेतसं समवाप्य सर्पा निर्विषीभवन्ति । एवं श्रमणेनाऽपि स्वपार्श्वमागतानां जीवानां विषस्वरूपाः क्रोध-मद-मत्सरादयो दोषा अपनेतव्याः । (५) कर्णिकारपुष्पम् ('कणेर' इति भाषायाम्) तद्धि प्रकटं निर्गन्धं च भवति । एवं श्रमणोऽपि प्रकटचरितो रागादिगन्धापेक्षया य निर्गन्धो भवेत् । (६) उत्पलं कुमुदम् । तद्धि प्रकृतिशुक्लं सुगन्धि च वर्तते । एवं श्रमणोऽपि स्वभावनिर्मलो गुणामोदमाश्रित्य सुगन्धी भवति । (७) भ्रमरसम इति पूर्ववत् । (८) उन्दुरुर्मूषकः । स हि यथानुरूपं स्थलं समयं च परिप्रेक्ष्यैव संचरति, सङ्ग्रहशीलश्च ४८ Page #62 -------------------------------------------------------------------------- ________________ भवति । एवं श्रमणोऽपि उपयुक्तं देशं कालं च समालोच्यैव वरीवृत्यते सूत्रार्थाद्यध्ययनापेक्षया च सङ्ग्रहशीलो भवति । (९) भट: सैनिकः । स तु शत्रुषु द्वेषयुक्तः सन् तान् जेतुं निजसमग्रशौर्येण युध्यते । एवं श्रमणोऽपि राग-द्वेषाद्यान्तरशत्रुजयार्थं निजसमस्तसामर्थ्येन यतते । (१०) कुक्कुटस्ताम्रचूड: । स कदाऽप्युदरम्भरिन भवति । प्राप्तं चाऽऽहारं पादविक्षेपपूर्वकमन्यसजातीयेभ्यो वितीर्य तैः सहैव भुङ्क्ते ।। एवं श्रमणोऽपि निजसाधमिकैः सह संविभागशीलो भवति । (११) आदर्शो दर्पणः । स हि नैर्मल्ययुक्तो भवति, तस्य च पुरस्ताद् यः कश्चिदपि गच्छति तप्रतिबिम्बं स यथाभूतं दर्शयति, तथाऽपि निर्लेपस्तिष्ठति । एवं श्रमणोऽपि स्वभावनिर्मलस्तरुण-वृद्धाद्यनुवृत्तितया च यथाकालं तैः सह तथाभूय वर्तते । यदुक्तं तरुणमि होइ तरुणो थेरो थेरेहिं डहरए डहरो। अदाओ विव रूवं अणुयत्तइ जस्स जं सीलं ।। १ ।। तथाऽपि न कुत्रचिदप्यासक्ति लिप्तिं वा भजति । एवं विषादिभिः समानशीलेन श्रमणेन भवितव्यम् । 'तत्त्व-भेद-पर्यायैर्व्याख्या' इतिन्यायाश्रयणेन श्रमणस्य पर्यायशब्दानभिधित्सुनियुक्तिकार आह - पव्वइए अणगारे पासंडे चरग तावसे भिक्खू । परिवाइए य समणे निग्गंथे संजए मुत्ते ॥१५८ ।। तिन्ने ताई दविए मुणी य खंते य दंत-विरए य। लूहे तीरढेऽवि य हवंति समणस्स नामाइं ॥१५९॥ २. तरुणेन भवति तरुणः स्थविर: स्थविरैः बालैः बालः । आदर्श इव रूपं अनुवर्तते यस्य यत् शीलम् ।। Page #63 -------------------------------------------------------------------------- ________________ भावार्थः (१) प्रव्रजितः प्रकर्षेण पापकर्मभ्यः परिग्रहाच्च वजितः गतः दूरीभूत इत्यर्थः । (२) अनगारः अगारं गृहं, न विद्यते द्रव्यगृहं प्रासादादि भावगृहं च ममत्वादि यस्य सोऽनगारः। (३) पाखण्डी ३पाखण्डं व्रतं, तदस्याऽस्तीति पाखण्डी । उक्तमपि - पाखण्डं व्रतमित्याहुस्तद्यस्याऽस्त्यमलं भुवि। स पाखण्डी वदन्त्यन्ये कर्मपाशाद् विनिर्गतः ।। १ ।। अथवा पापं खण्डयतीति निरुक्तिसमाश्रयणेऽपि पाखण्डी । (४) चरकः चरति - आचरति तपो-ध्यानादीति चरकः । (५) तापसः तपोऽस्याऽस्तीति तापसः । (६) भिक्षुः भिक्षया देहयापनां करोतीति भिक्षुः । भिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षुः । (७) परिव्राजकः परि समन्तात् व्रजति-विहरति पापवर्जनपूर्वमिति परिव्राजकः । (८) श्रमणः अत्र पूर्ववत् । (९) निग्रन्थः निर्गतो ग्रन्थादिति निग्रन्थः, धन-स्वजनादिबाह्यग्रन्थस्य राग-रोषा द्यान्तरग्रन्थस्य च त्यागीत्यर्थः । (१०) संयतः सम्यक्प्रकारेण एकीभावेन वा अहिंसादिषु योगेषु क्षमादिषु गुणेषु च यतः प्रयत्नशीलः संयतः । (११) मुक्तः बाह्येनाऽऽभ्यन्तरेण च परिग्रहेण मुक्तः मूर्छा-ममत्वादिभिर्मुक्तो वा। (१२) तीर्णः तीर्णवान् संसारसमुद्रम् । यद्यपि तीर्यमाणोऽधुना तेन संसारसागरस्तथाऽपि क्रियमाणं कृतमिति न्यायात् तीर्ण एव । (१३) त्रायी त्रायते रक्षते संसारकूपे प्रपततो जगज्जन्तूनित्येवंशीलः त्रायी । (१४) द्रव्यम् द्रवति - गच्छति - प्राप्नोति वा तांस्तान् ज्ञानादिप्रकारानिति द्रव्यम् । ३. अद्यत्वे हि पाखण्डशब्दः शाठ्य-कपटाद्यर्थे प्रयोयुज्यते । Page #64 -------------------------------------------------------------------------- ________________ - (१५) मुनिः मन्यते सम्यक्तयाऽवबुध्यते जगतस्तत्त्वमिति मुनिः । (१६) क्षान्तः क्षाम्यतीति क्षान्तः क्रोधादिजयी । (१७) दान्तः पञ्चानामिन्द्रियाणां मनसश्च दमनाद् दान्तः । तद्वृत्तिनिरोधक इत्यर्थः । (१८) विरतः हिंसा-मृषावादादिभ्यो निवृत्तः। (१९) रूक्षः स्नेहपरित्यागात् रूक्षः, भोजनेऽपि स्निग्धाहारवर्जकत्वाद्वा रूक्षः । (२०) तीरार्थी संसारसमुद्रस्य तीरं अर्थयते इत्येवंशीलः तीरार्थी, तीरस्थो वा संसारस्य, सर्वत्र साम्यसुधारसपानकरणात् ।। एतानि श्रमणस्य पर्यायतयाऽभिधेयानि कथितानि । अथैतावता विवरणेन श्रमणशब्दस्य तात्पर्य प्रायशः प्राप्तमेव स्यात् विचारचञ्चुभिः वरिष्ठैर्विद्वद्भिः । ततो भगवन्त'स्ते कथङ्कारं सञ्जाताः ? तेषां जीवने तादृशं किं वैशिष्ट्यमासीत् येन ते भगवत्तया समलङ्कृताः? निरूपयामस्तावत् - भगशब्दो हि नैकेषु सन्दर्भेषु प्रयुक्तो दरीदृश्यते । तथा हि - ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । धर्मस्याऽथ प्रयत्नस्य षण्णां भग इतीङ्गना ॥ १ ॥ एकैकशो विचारयामः ऐश्वर्यम् - इतोऽपि किमन्यदैश्वर्यम् - यत् चतुःषष्टिर्निर्जरेन्द्रा असङ्ख्येया देव-देव्यो नैका मनुजकोटयश्च तेषां नलिनकोमलयोश्चरणाम्बुजन्मनोः परागरज उत्तमाङ्ग सन्दधाना धन्यभागधेयत्वं प्रतिपनीपद्यन्ते ? रूपम् - सङ्ख्यातीता अपि इन्द्रादयो देवा एकत्र मिलित्वा तीर्थकराणामेकस्या एवाऽङ्गुल्या रूपं प्रतिच्छन्दायितुमक्षमाः । यशः - अलोके धर्मास्तिकायस्याऽभावात् स्वीयगतिनिरोधो भवतीति ज्ञात्वेवोन्मत्तीभूय त्रिभुवने सर्वत्राऽपि तेषां यशःप्रसरोऽटाट्यते ।। ४. मन्यते यो जगत्तत्त्वं स मुनि: परिकीर्तितः ।। (ज्ञानसारे मुन्यष्टकम् ।) Page #65 -------------------------------------------------------------------------- ________________ श्रीः - चतुस्त्रिंशदतिशयैरष्टमहाप्रातिहार्यैरन्यैरपि च तीर्थकृत्त्वसंसूचकैविशेषलक्ष्मभिस्तथा विशेषतस्तु कैवल्यलक्ष्म्या ते जगतोऽप्यतिशेरत इति सुविदिततरमेव परिशुद्धप्रज्ञावतां पण्डितप्रकाण्डानाम् । धर्मः - "दशविधं श्रमणधर्म स्वयमेव प्रकर्षपर्यन्तं परिपाल्याऽन्यानपि कोटिशो जीवान् तदासेवयन्तीति धर्मसाधनमपि तेषामितरेभ्यो वैशिष्ट्यावहम् । प्रयत्नः - कर्मकालुष्यविनाशाय रागादिशत्रुजयाय च निजसमग्रवीर्येण कृतः प्रबल: प्रयत्नस्तेषामद्वितीयत्वं ख्यापयत्यत्र जगति । __ तदेवं षण्णामप्येषामैश्वर्यादीनां विश्वस्मिन् विश्वे तेषामेवैकस्वामित्वं संसिद्धम् । ततश्च तेषां भगवत्ताऽपि सुतरां सिद्धा। अथ च महावीरत्वं तु तेषां प्रलयकालस्य प्रभञ्जनेनाऽप्यप्रकम्प्यस्य सुमेरुपर्वतस्य जन्मतोऽल्पीयस्येव काले पादाङ्गुष्ठस्पर्शमात्रेण प्रवेपनेन, बाल्ये वयसि सुरपराभवपराक्रमेण, दीक्षोत्तरकालं जगतोऽप्यतुलबलशालित्वेऽपि महाभयङ्कराणामुपसर्गाणां मरणान्तकष्टानां च निर्भीकतया सुधीरतया क्षमादायितया च सहनेन जगद्विश्रुतमेव । ततो येषां कृपापीयूषसंवर्षणेन परमपुण्यप्रसादेनचाऽद्याऽपि जगति तदुपदिष्टमहिंसामूलकं जैनानुशासनं निराबाधं वरीवति सहस्रशो वाचंयमाश्चाऽधुनातनेऽपि विषमे कलिकाले तत्समाचरितं संदिष्टं च श्रामण्यमनुपालयितुं यथासामर्थ्यमुद्यमयन्ति तेभ्यः स्वनामधन्येभ्यः श्रमणभगवद्भ्यः श्रीमन्महावीरस्वामिभ्यः षडविंशतितम्या जन्मशताब्द्याः पुण्यावसरे कोटिशो प्रणंनमितयः । __ (सन्दर्भग्रन्थः हारिभद्रीयवृत्तिसमलङ्कृतं श्रीदशवैकालिकसूत्रम् ।) विषमस्थलटिप्पणी सावधयोगाः पापकर्माणि । परीषहाः स्वयमुपस्थितानि कष्टानि, यथा क्षुत् पिपासा शैत्यं उष्णता इत्याद्या । एषां स्वरूपः नवतत्त्वादिग्रन्थेभ्यो ज्ञेयम्। उपसर्गाः देव-मनुज तिर्यग्भिः कृतं पीडनम् । ५. क्षमा, मृदुता, ऋजुता, सन्तोषः, तपः, संयमः, सत्यम्, शौचम्, अकिञ्चनता ब्रह्मचर्यं चेति दशधा यतिधर्मः। Page #66 -------------------------------------------------------------------------- ________________ एषणीयम् बेभीयते प्रतिपनीपद्यन्ते प्रतिच्छन्दायितुम् अटाट्यते प्रणंनमितिः निर्दोषं, येषां उत्पादने-ग्रहणे च स्वनिमित्तं कस्याऽपि जीवस्य हिंसा न भवेत् तत् । भृशं बिभेति । पुनः पुनः प्रतिपद्यन्ते। प्रतिच्छन्दः प्रतिबिम्बं, तस्येवाऽऽचरितुम् । कुटिलं अटति। पुनः पुनः प्रणतिः। एकादशगणधराणां नवैव गणा अभवन् । प्रथमानां सप्तगणधराणां भिन्ना भिन्ना वाचना अभवन् । अतः तेभ्यः सप्तगणाः प्रादुर्भूताः । अष्टमो अकम्पितो नवमश्चाचलभ्राता, एवं एतयोः द्वयोः गणधरयोः वाचना समानतया एको गणः समभवत् । तथा च दशमो मेतार्यः एकादशः प्रभासः एवं एतयोः द्वयोः गणधरयोः एकैव वाचनाभवत्, अतः एको गनः समभवन् । एवं एकादशानां गणधराणां नवगणाः अभवन् । Page #67 -------------------------------------------------------------------------- ________________ आगादुः धातु झुण्ठि मयि विस्तौ पिणाम - मुनिकल्याणकीर्तिविजयः किल परमोपास्या परमोपकारिणः परमतारकाः परमपदभाजः परमेष्ठिप्रष्ठाः परमगुरवो देवाधिदेवाः श्रीतीर्थकरभगवन्तो निजास्तित्वेनैव त्रिभुवनस्थानां सर्वेषामपि जीवानामुपकारं कुर्वन्ति । यतः भगवतां तेषां जनन्याः कुक्षाववतरणादारभ्यैव सर्वत्र जगति सुखानुभावः प्रसरीसति, शान्ति-मैत्री-समृद्धि-सुभिक्ष-क्षेम-निरामयत्व-निरुपद्रवतादयः शुभभावैश्च जगदिदं व्याप्तं भवति । तथा वैर-विरोध-दुर्भिक्ष-द्वैष-व्याध्यादयोऽशुमभावास्तु तथा प्रपयलायन्ते यथा तेषां गन्धोऽपि न ज्ञायते । एवं हि सर्वे जीवा अतीवसुखमयं वातावरणमनुभवन्ति, तत्राऽपि तेषां भगवतां कल्याणकावसरेषु तु च्यवन-जन्म-दीक्षा-कैवल्य-निर्वाणाख्येषु सर्वथा दुःखगर्तायां पतिताः स्थावरा नारकाश्चाऽपि क्षणं सुखं प्राप्नुवन्ति । इह हि सन्ति केऽपि महायोगिनो येषां योगबलेन प्रकटितानामात्मिकतेजसां प्रभाया विस्तारे वर्तमानाः सर्वेऽपि जीवाः शान्ताः शान्तवैराः सुखभाजश्च भवन्ति । एते तीर्थकराः परमात्मानो हि परमयोगिनः परमात्मिकतेजसां नाथाश्च । तेषां हि प्रभामण्डलं त्रैलोक्येऽपि निर्बाधतया व्याप्तम् । ततश्च तद्वतिनो सर्वेऽपि जगज्जीवास्तु सुतरां सुखिनः शान्त्यादिकान् शुभभावांश्च भजन्त इत्यत्र नाऽऽश्चर्यकारणं किमपि । एवं सर्वेषामुपकारकरणमेव तेषां भगवतां स्वभावः जातः । तथाऽपि विशेषतोऽपि सर्वेषां जीवानामात्यन्तिकमात्मिकं हितं कर्तुमिच्छवस्ते । अतः आजन्मवैराग्यशालिनोऽपि ते सर्वं सुख-वैभवादिकं परित्यज्य निर्गन्थीभूयाऽनेककष्टपरम्परां संसह्य तीव्रां च तपोध्यानसाधनां कृत्वा जीव-स्व-भावावारकं घातिकर्मचतुष्टयं समूलकाषं कषित्वा कैवल्यं प्राप्नुवन्ति सर्वेभ्यो जीवेभ्यश्चोच्चतमां पदवीं तीर्थकृत्तां संसाधयन्ति । तदनु यावन्निर्वाणं यद्यपि सामान्यवृत्त्या निजतीर्थकरनामकर्म उन्मूलयितुं तथाऽपि विशेषतस्तु सर्वेषां महामोहनिद्राप्रसुप्तानां जीवानां जागरणचिकीर्षया योजनगामिनीं सार्वजनीनी Page #68 -------------------------------------------------------------------------- ________________ समस्तसन्देहनाशिनीं सकलभाषासंवादिनी च वाणी धर्मदेशनास्वरूपेण प्रयुञ्जन्ति । यदाहुः कलिकालसर्वज्ञाः श्रीहेमचन्द्राचार्याः जगन्महामोहनिद्रा-प्रत्यूषसमयोपमम् । मुनिसुव्रतनाथस्य देशनावचनं स्तुमः ॥ अनया देशनया ते एकान्तहितकरं मोक्षप्रापणोपायं प्ररूपयन्ति यं श्रुत्वा ज्ञात्वा अवधार्य श्रद्धाय आदृत्य आचर्य संसाध्य च बहवो जीवाः निःश्रेयसभाजिनो भवन्ति । एतदेव हि तेषामन्येभ्योऽतिशायित्वं येन ते एवमुपकर्तुक्षमाः । उक्तं च प्रवचनसारोद्धारवृत्तौ___"न ह्येवंविधभुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्त्वोपकारः शक्यते कर्तुमिति" । (प्रवचनसारोद्धारे ८८३ तमगाथाया वृत्तिः ।) अथो भगवन्तस्ते निजदेशनामिमां यद्यपि तद्देशकालस्थित्यनुसारेण अर्धमागधीभाषायां ददते तथाऽपि तां वाणी भगवतां पुण्यातिशयेन योजनप्रमाणे समवसरणे स्थिताः सर्वेऽपि यक्षासुरचन्द्रेन्द्रादयो देवाः तेषां देव्यः, किरातशबरार्यप्रमुखा मनुष्याः, सिंह-हरिण-सर्पनकुलाश्व-गजादयाश्च तिर्यञ्चो निज-निजभाषायां ससुखमवबुध्यन्ते । कथितमपि च - देवा दैवीं नरा नारी शबराश्चाऽपि शाबरी । तिर्यञ्चोऽपि हि तैरश्ची मेनिरे भगवगिरम् ॥ अयं हि महानतिशयः प्राकृतैर्जनैश्च सर्वथा सुदुरापस्तथाऽपि नाऽयं भवति अश्रद्धाया विषयः आश्चर्यस्य वाऽपि कारणं, यतोऽधुनातनेऽपि यन्त्रयुगे वैश्विकेषु सम्मेलनेषु आन्तरराष्ट्रीयासु च धार्मिक-राजकीय-साहित्यिकसभासु विविधभाषास्वपि गदितं वक्तव्यं काव्यं सूचनं वा नानादेशेभ्य आगताः तथा च नानाभाषाभाषिणोऽपि सभासदो इण्टरप्रिटर् (INTERPRETER)-प्रमुखयन्त्रोपयोगेन निजनिजभाषास्वेव सम्यक्तया प्रतिपद्यन्तेऽवबुध्यन्ते तथा भगवन्तस्ते देशनामिमां परमसत्यतया परममनोज्ञतया परमकल्याणकारितया च भाषन्ते यां श्रुत्वा बहवो जीवा निजयोग्यतानुसारं प्रतिबोधं सम्प्राप्याऽपवर्गसंसाधनाय प्रवरीवृत्यन्ते । Page #69 -------------------------------------------------------------------------- ________________ दृश्यतेऽत्र कलिकालेऽपि बहव ऐदंयुगीना अपि महापुरुषाः ये एकमपि निजं वचनं प्रयुज्य नैकान् जनान् हितस्य राजपथे योजयन्ति । तयेते तु परमपुरुषाः परमसत्त्वशालिनश्च, अतस्तेषां वचांसि संश्रुत्य हि जीवा नितान्तहितमार्गे सुतरां प्रवर्तन्ते एव । ततश्च नाऽत्र विस्मयकारणं किमपि । एवं तेषां जिनपुरन्दराणां वचनपद्धतिरन्येभ्यो सर्वथा सर्वदा चाऽतिशायिनी भवति । तस्या वाण्या अनेके लोकोत्तरगुणा सन्ति, किन्तु शास्त्रेषु लाघवमाश्रित्य मुख्यतया पञ्चत्रिंशद् गुणाः वर्णिताः प्राप्यन्ते । यदुक्तं श्रीसमवायाभिधाने तुरीयेऽङ्गसूत्रे 'पणतीसं सच्चवयणाइसेसा' इति ।। शास्त्रेषु ह्येतेषां गुणानां वर्णनं विशदरीत्या लभ्यते । इह तु तेषां नामानि सामान्यभावार्थान्वितानि सङ्ग्रहीतानि । गुणाः भावार्थः (१) संस्कारवत्त्वम् सभ्यता-व्याकरणशुद्धिप्रमुखैरुत्तमैः संस्कारैः संस्कृतं श्रीमतां जिनेश्वराणां देशनावचनं भवति न तु संस्काररहितम् । (२) औदात्त्यम् उच्चस्वरेण स्पष्टोच्चारैश्च भाषितं तेषां, न पुन-रस्पष्टं मन्मनायितमिव । (३) उपचारोपेतत्वम् सौम्यैर्मनोज्ञैश्चोपचारैस्तदुपचरितं भवति न तु निष्ठुरं परुषं वाऽपि। (४) मेघगम्भीरघोषवत्त्वम् प्रावृट्काले वर्षतां महामेघानां निर्घोषध्वनेरिव गम्भीरघोषयुक्तं प्रभोर्वचो भवति । (५) प्रतिनादविधायिता उच्चार्यमाणं हि तद् वचनं प्रतिरवं विदधाति । (६) दक्षिणत्वम् अत्यन्त सरलं तद् भवति न तु कठिनम् । (७) उपनीतरागत्वम् मालवकैशिकी(मालकौंस)प्रमुखैामरागैर्मधुरतया निगदितं प्रभोर्वचनं भवति । यदुक्तं कलिकालसर्वज्ञैः Page #70 -------------------------------------------------------------------------- ________________ "मालवकैशिकीमुख्यग्रामरागपवित्रितः । तव दिव्यो ध्वनिः पीतः हर्षोद्ग्रीवैर्मृगैरपि ।।" । (वीतरागस्तवः ५/३) (एते सप्ताऽपि वचनातिशयाः शब्दापेक्षया भवन्ति । शिष्टा हि सर्वेऽपि वचनातिशया अर्थापेक्षया ज्ञातव्याः ।) (८) महार्थता महता-व्यापकेन वाच्यार्थेन युक्तं तद् वचनं भवति । न तु अल्पार्थद्योतकम्। (९) अव्याहतपौर्वापर्यम् पूर्वं कथितानां वाक्यार्थानां पाश्चात्यैर्वाक्याथैः कदाऽपि विरोधो न भवति तेषां देशनायाम् । (१०) शिष्टत्वम् सैद्धान्तिकैरथैर्रर्थवत्त्वात् वक्तुः शिष्टत्वस्य सूचका तेषां वचनपद्धतिर्भवति । (निर्मलज्ञानं, धीरिमा, सज्जनत्वं, इत्यादिभिर्गुणैर्गुणवन्तः पुरुषाः शिष्टाः कथ्यन्ते । तेषां वचनं शिष्टवचनं भवति । एते तु जगतोऽपि विशिष्टाः शिष्टाः अतस्तद्वचनं तु शिष्टत्वयुक्तमेव भवति ।) (११) निःसन्देहत्वम् श्रूयमाणं हि तेषां भगवतां वचनरचनं पर्षदां संशयान् निर्मूलतया उच्छेदयति, न तु तत् सन्दिग्धं भवति । (१२) निराकृतान्योत्तरत्वम् अंशलेशेनाऽपि दूषयितुमशक्यः प्रभोर्वाक्यविस्तरो भवति । (१३) हृदयङ्गमत्वम् शोश्रूयमाणा हि तद्वचनपङ्क्तिः पेपीयमान-पीयूषगण्डूषा इवाऽन्तःकरणं नितरामालादयति । (१४) मिथः साकाङ् क्षत्वम् । पदानां वाक्यानां च परस्परमपेक्षावती प्रभोर्देशनावलि-भवति, न तु निरपेक्षा । Page #71 -------------------------------------------------------------------------- ________________ (१५) प्रस्तावौचित्यम् (१६) तत्त्वनिष्ठता (१७) अप्रकीर्णप्रसृतत्वम् (१८) अस्वश्लाघान्यनिन्दत्वम् (१९) आभिजात्यम् (२०) अतिस्निग्धमधुरत्वम् (२१) प्रशस्यत्वम् (२२) अमर्मवेधता (२३) औदार्यम् (२४) धर्मार्थप्रतिबद्धता (२५) कारकाद्यविपर्यासत्वम् देश-काल-पुरुषा-ऽवस्था - परिणति - शुद्ध्यादीन् भावान् प्रसमीक्ष्य भगवताऽवसरोचितमेव वचनं कथ्यते न पुनरेकदण्डन्यायेन । प्रभुवचनं विवक्षितस्य वस्तुनः स्वतत्त्वमेवा - ऽनुसरति । सुसंश्लिष्टैः पदैर्वाक्यैश्च सुसम्बद्धा, विषयान्तररहिता, अतिप्रस्ताररहिता च प्रभोर्देशना भवति न पुनरितस्ततो मेलितैर्वाक्यैर्विप्रकीर्णा । प्रभोर्देशनायां कदाऽपि स्वात्मश्लाघा न भवति, न चाऽपि परेषां केषामपि निन्दा भवति । स्वस्योच्चकुलीनत्वं प्रतिपाद्यविषयस्य च श्रेष्ठत्वं प्रदर्शयत् प्रभोर्वचो भवति । घृत-मधु - द्राक्षादीनां पानमिव भगवद्वचनमपि नितरां स्नेहसमाकुलं माधुर्यप्रकर्षवच्च भवति, श्रोतॄणां चाऽतीव सुखद् भवति । उत्तमैर्गुणैर्युक्तत्वात् पण्डितजनैरप्युपगतश्लाघं तद् भवति । परेषां मर्मप्रकाशित्वेन मर्मवेधित्वेन चाऽत्यन्त - विरहितमेव प्रभोर्वचनं भवति । तुच्छतालेशेनाऽप्यसम्पृक्तं भगवद्वचनं सर्वदौदार्ययुक्तमेव भवति । धार्मिकेनाऽऽर्थिकेन च विषयेण सुप्रतिबद्धमेव तद् भवति न पुनस्तद्विरहितम् । कारक-काल-वचन-लिङ्ग- जात्यादीनां ५८ Page #72 -------------------------------------------------------------------------- ________________ (२६) विभ्रमादिदोषविमुक्तता (२७) चित्रकृत्त्वम् (२८) अद्भुतत्वम् (२९) अनतिविलम्बिता व्यत्ययात्मकैर्वचनदोषैनितरां विरहितमेव जिनवचनं भवति । विभ्रम-विक्षेप-किलिकिञ्चितादिभिर्मानसैर्दोषै रहितं तद् भवति । वक्तु र्मनसो भ्रान्तिविभ्रमः, कथयितव्येऽर्थे वक्तुरनासक्तिर्विक्षेपः, युगपद् विविक्तैर्वा रोष-भया-ऽभिलाषादिविकारैर्मनसो व्याकुलत्वं किलिकिञ्चिता कथ्यते ।) प्रतिपाद्यमानवस्तुस्वरूपे श्रोतृणां निरन्तरं कुतूहलं जनयद् भगवतां देशनावचनं भवति । श्रूयमाणं हि भगवद्वचनं पर्षदां 'अद्भुतं अद्भुतं' इत्युद्गारजनकं भवति । द्वयोः शब्दयोः पदयोर्वाक्ययोश्च मध्येऽतिविलम्बविरहितं जिनेन्द्रभाषितं भवति । (यतो यदि तत्राऽतिविलम्बो भवेत् तदा श्रोतृणां सम्यग् बोधो न भवेत् ।) विवक्षितवस्तुतत्त्वस्य वैचित्र्यवैविध्यसनाथैर्वर्णनैः श्रोतृन् रससागरे निमज्जयति जिनराजवचनम् । अन्येषां वक्तृवरेण्यानामपि वक्तव्यापेक्षया सर्वथा सर्वदा च वैशिष्टयावहं भवति जैनेन्द्रं वचनम् । सत्त्वगुणस्य प्राधान्य एव समादरशालिनी भवति तीर्थकरपरमात्मनां कथन श्रेणिः । वर्ण-पद-वाक्यानां समुच्चारणे यथोचितमन्तरमनुसृत्यैव विस्पष्टतया सम्भाष्यमाणं जिनोत्तमानां देशनावचनं भवति । (३०) अनेकजातिवैचित्र्यम् (३१) आरोपितविशेषता (३२) सत्त्वप्रधानता (३३) वर्ण-पद-वाक्यविविक्तता ५९ . Page #73 -------------------------------------------------------------------------- ________________ (३४) अव्युच्छित्तिः विवक्षितस्य वस्तुतत्त्वस्य यावत्कालं सम्पूर्णतया सिद्धिर्न भवेत् तावद् विविधैः प्रमाणैस्तदखण्डित वाक्प्रवाहेण साधयदर्हतां वाक्यरचनं भवति । (३५) अखेदित्वम् वचनविन्यासावसरे कथयितुः स्वल्पोऽपि खेदः श्रम आयासो वा यत्र न भवेत् तादृश्येव भवति जिनपुरन्दाराणां प्रवचनशैली ।। यद्यप्येतेभ्योऽन्यतमाः सर्वेऽपि वैते गुणा गणधराणां श्रुतकेवलिनामितरेषामपि च प्रवचनप्रभावकाणां महापुरुषाणां देशनायां संवेविद्यन्ते तथाऽपि परमपुण्यप्रकर्षशालिनां निष्कारणवत्सलानां जिनपुरन्दराणां निःश्रेयसनिःश्रेणिकल्पायां देशनायां त्वेते गुणाः परां काष्ठां प्राप्नुवन्तीति । एवंविधैरुदारैरुदात्तैश्च गुणश्रेष्ठैः समलङ्कृता श्रीमतां जिनेश्वराणां वाणी निःशेषमपि जगत् पवित्रयतु। कषायतापार्दितजन्तुनिर्वृतिः करोति यो जैनमुखाम्बुदोदगतः । स शुक्रमासोद्भववृष्टिसन्निभो दधातु तुष्टिं मयि विस्तरो गिराम् ॥ (सन्दर्भग्रन्थः गूर्जरभाषायां-मुनिश्रीतत्त्वानन्दविजयलिखितो 'देवाधिदेव-भगवान् महावीर' इति ।) विषमस्थलटिप्पणी प्रसरीसति अभीक्ष्णं प्रसरति । स्थावराः पृथ्वी-जल-वह्नि-वायु-वनस्पतिजीवाः । घातिकर्मचतुष्टयं जीवस्य ज्ञान-दर्शन-चारित्र-वीर्यगुणान् घातयन्ति-आवारयन्तीति घातिकर्माणि, तानि चत्वारि - ज्ञानावरणीयं दर्शनावरणीयं मोहनीयं अन्तरायं च । समूलकाषं कषित्वा मूलतो विनाश्य । देशना प्रवचनम्। प्रवरीवृत्यन्ते पुनः पुनः प्रवर्तन्ते । ६० Page #74 -------------------------------------------------------------------------- ________________ पेपीयमानपीयूषगडूषा एकदण्डन्यायः वारं वारं पीयमाना अमृतस्य गडूषा ('चूंट' इति भाषायाम्) । यथाऽऽभीरः एकेनैव दण्डखण्डेन सर्वानपि गो-महिषाज-मेषोष्ट्रादीन् पशून् चारयति तथा । भृशं संविद्यन्ते। जिनेश्वराणां देशनाभूमिः । संवेविद्यन्ते समवसरणं "रागोऽङ्गनासङ्गमतोऽनुमेयो द्वेषो द्विषद्दारणहेतिगम्यः । मोहः कुवृत्तागमदोषसाध्यो नो यस्य देवः स स चैवमर्हन् ।" Page #75 -------------------------------------------------------------------------- ________________ मगार चमगाभायावत्महावीरस्वामिनः साधनदृष्टान्ता डॉ. मदनलाल वर्मा ६८, 'सुमंगलम्', न्यू कोलोनी, (हनुमान् मन्दिरके पीछे) कुरुक्षेत्र-१३६११८ (हरियाणा) औपनिषदधर्मदौर्बल्यकारणेनाऽतिकर्मकाण्डप्रतिक्रियारूपेण च नैतिकप्रधानजैनधर्मस्योदयो विकासश्चाभूत्। धर्मस्याऽस्याधिष्ठाता श्रमणभगवन्महावीरस्वामी प्राचीनपरम्परागत पवित्राचरणस्यैव पुनरुद्धारं व्यदधात् । असावाध्यात्मिकत्वं व्यष्टेर्व्यक्तेर्वा क्रमिकनैतिकविकासदृशैवाद्राक्षीत् । अनया दृष्ट्या जैनधर्मः साधारणादतिसाधारणकोटिकमनुष्यायाऽप्यनुकूलो जातः । धर्मस्याऽस्यैकं मुख्यं वैशिष्ट्यं कस्यचिद् वादस्य विषये स्यादवादस्याऽहिंसायाश्च सिद्धान्तः । अस्य धर्मस्याऽऽश्रयः परसहिष्णुतायाः मौलिकसिद्धान्ते विद्यते भगवन्महावीरस्य च साधनायामप्यस्यैव सिद्धान्तस्य प्रामुख्यम् । तस्य न मरुस्थलं गृहमासीन्न च काननं गन्तव्यस्थानमवर्तत । यदा मनुष्याणां मनुष्येषु नित्यमत्याचाराः वृद्धिंगता आसन्, तदा मानवत्वस्य रक्षणहेतोरेकं नवीनज्योतिर्जागरणस्य लक्ष्यमादाय स महानुभावः प्रत्युद्गतवान् । साधकः कदाचिद् दुःखेभ्यो न मुह्यति । तस्य समक्षं परीक्षायाः कीदृशान्यपि कठिनानि क्षणान्यागच्छेयुस्तस्य नयने कदापि सजले न भविष्यतः । स्वमनसि यदा महावीर एवमेव चिन्तयति स्म, तदा तस्य मार्गेऽतिनिर्धन एको ब्राह्मणो हस्तं प्रसारयति । तिर्ह स तं विप्रं वदति - "भोः भूसुर ! अहं तु संन्यासी । मम पार्वे तु किमपि नास्ति ।" परं द्विजस्य पौनःपुन्येनाह्वयनं श्रमणचेतो दुःखीयति । तदा चासौ करुणासागरो निजशरीरस्याऽर्धवसनं विदीर्य तस्मै वक्त्रजाय प्रयच्छति । ___ 'कार' ग्रामस्य विस्तृतं वनम् । खगाः निजकुलायान् प्रतिगच्छन्ति स्म । दूरं तरूणां ६२ Page #76 -------------------------------------------------------------------------- ________________ पृष्ठतः प्रभाकरोऽस्तमेति स्म । एतावन्मध्ये सघनवृक्षस्यैकस्याऽधस्तात् करुणाकरो महावीरः स्थित एव ध्यानमग्नो भवति । अल्पकालानन्तरमकस्मादेको गोचरक आयाति कथयति च - "किंचित्कालाय मम वृषभाणामवधानं करणीयं भवद्भिः । अहं गच्छाम्यागच्छामि च । ममेषन्मानं कार्यं वर्तते ।" ____ करुणाकरस्तु चिन्तनस्य गाभीर्येषु लीनोऽवर्तत । तेन न बलीवर्दाः दृष्टाः न चैव गोपालकस्य कश्चनाभिप्रायः श्रुतः । यवसं खादन्तो भक्षयन्तस्तस्य ककुमन्तो दूरं निर्गच्छन्ति बाह्यतश्च कृष्णा शर्वरी संनिपतति । पशुचारक आगत्याद्राक्षीद्यत् सर्वे वृषाः लुप्ताः सन्ति । असावाकुलीभवति । वृषभानाकारयति । तानन्वेष्टुं प्रवर्तते । निश्चन्द्रा रजनी । प्रस्तराः, कण्टकानि, शार्दूलानां व्याघ्राणां च भीतिः । गोरक्षको गृहं प्रत्यागच्छत् । प्रातःकाले पुनरागमनस्याभिप्रायं मनसि संधार्य तेन सा निशा वामपार्श्वतो दक्षिणपार्श्वतो वा शयनं कुर्वता यापिता । यदा पूर्वस्यां दिशि लौहित्यं प्रसरति, तदाऽसौ विपिनं प्रतिष्ठति । अरण्यस्य भयावहानां स्थितीनां विषये विचित्त्य विचिन्त्य तस्य चेतो वित्रस्यति । परं महाश्रमणः पूर्ववद्ध्यानमग्नस्तादृश एव स्थितो मिलितस्तस्य च बलीवर्दाः महाश्रमणस्य पादयोरुपविष्टाः पुनश्चर्वणं विहिताः प्राप्ताः । गोचारकः क्रुध्यति, तस्य नेत्रे लोहिते भवतः । तस्य तनुमनसी दग्धुं प्रवर्तेते । असौ चिन्तयति -- ___ 'अयं न महात्मा, ध्रुवमेव कोऽपि कितवः । यद्यहं सत्वरं नागमिष्यं तद्देष मम वृषान् पलायितानकरिष्यत् । अयं यावद् दुःखं मह्यं सर्वनक्तं दत्तवानस्ति, सम्प्रति तं प्रत्यपकरोमि । परं तस्मिन्नेव काले महाश्रमणस्य दर्शनार्थं महाराजो नन्दीवर्धनः ससैन्य आव्रजति । पशुपालको बिभेति । पादयोश्च पतित्वा क्षमा याचते । महाश्रमणस्तं क्षम्यं विदधाति । नन्दीवर्धनो व्याहरति - "मुनिवर ! को भवते दुःखं दत्तवानस्ति ? वदतु भवान् । वने वने विचरणम्, एकाक्येकलो दुःखसहनं, किञ्चिन्न कथनम्-एतत्सर्वं नोचितम् । निशीथिनीषु ध्यानवास्थितिः , शीतलैः पवनैः साकं विग्रहणं, नग्नदेहो, मेघागमतितिक्षा । समुचितं जानीयाच्चेद् भवांस्तर्हि केचन Page #77 -------------------------------------------------------------------------- ________________ सैनिकाः केचिदधिकारिणः प्रेषणीयाः स्युः ।" उत्तरे वर्धमानो भाषते “भवान्मां भीरुं कथमवागच्छत् ? अहं तु हिंस्रजीवान् प्रीतिं शिक्षयितुमागतोऽस्मि । तमसि निमग्नेषु हृदयेषु दीपान् प्रज्वालयितुमायातोऽस्मि । हे राजन् ! स्वतन्त्रविचरणार्थमाज्ञापयतु भवान् । मां स्वकर्मणां फलं सोढुमादिशतु । " पुनश्च त्यागस्य तपसः पथि महावीरः पुरतो व्रजति । गिरयो मार्गं प्रयच्छन्ति । जलधारा तस्य पन्थानं रोद्धुं न शक्नोति । सायं प्रातर्महाश्रमणः प्रचलति सततम् । स्थाने स्थाने प्रकाश प्रसारयति । केभ्यश्चिद् दिनेम्य एकस्मिन्नाश्रमे स्थित्वा ध्यानमग्नो भवति, परं तूर्णमेवाग्रे प्रतिष्ठति । असौ विचिन्तयति - ‘यदा राजसिंहासनं प्रासादानन्तःपुरं च परित्यज्यागतोऽस्मि, तदाऽनेन पर्णकुटीरेणापि साकं कीदृशो मोह: ? ' एकस्मिन् दिने प्रचलनकाले निष्ठुरेणैकेन कंटगुल्मेन तस्य कलेवरात्तवस्त्रमप्याकर्षितं, यत्तस्यार्धनग्नस्य देहस्याऽऽश्रय आसीत् केवलम् । तदा सहसा क्षणे एव महाश्रमणो दिगम्बरो भवति । प्रत्येकस्य मोहस्य बन्धनं मनसो कायाच्चापि विच्छिन्नम् । एकदा यदा जास्तं वदन्ति यदेकस्मिन् विविक्ते स्थाने देवालये 'शूलपाणि 'रेको गुह्यको वसति । नरास्तत्र तस्य गुह्यकस्य कारणेन भीत्वा मनागायान्ति यान्ति, तदा महावीरः स्वमनसि तस्य गुह्यकस्य कल्याणस्य लक्ष्यं संधार्याऽहोरात्रसंयोगसमये तस्मिन् देवालये गत्वा ध्यानावस्थितो भवति। अल्पनिशीथिन्यां गतायां यक्ष आगच्छति । तेन किंचिन्नवीनत्वमनुभूयते । ईषद् गन्धोऽप्यनुभूयते । गुह्यक: स कर्कशरावं करोति भयानकं चाटट्हासं विदधाति । मन्दिरस्य भित्तयः कम्पन्ते । दूरं दूरं यावद् वनस्यानोकहा: वेपन्ते । परं करुणाकरः पद्भ्यां तिष्ठत्यनवरतं निश्चलः शान्तो मौनव्रती । निखिलं नक्तं यक्ष: 'शूलपाणि' महाश्रमणायाऽनेकानि कष्टानि प्रयच्छति । भूयो भूयो बहूनि मायाविरूपाणि धारयति भणति च - 44 'कोऽसि त्वम् ! किमर्थमागतोऽसि ? " असौ गुह्यक उग्रं प्रहरति, परन्त्वात्मस्वरूपलीनो महावीरो न स्तोकामपि पीडामनुभवति ६४ Page #78 -------------------------------------------------------------------------- ________________ न चैव त्रासम् । अन्ततः 'शूलपाणिः' पराजित्य महाश्रमणस्य पादयोर्निषण्णो भवति । तदैव महावीरस्वामिनो ध्यानभङ्गो जायते स च चरणयोरुपविष्टं गुह्यकं विलोक्य ब्रवीति "हे शूलपाणे ! स्वस्ति ते !" इत्थं प्रभोः साधनायाः लक्ष्यमात्मशुद्धिरासीदेकमेव च तस्य कार्यमवर्तत जनमंगलमिति । " न काव्यशक्तेर्न परस्परेjया न वीर ! कीर्तिप्रतिबोधनेच्छया। न केवलं श्राद्धतयैव नूयसे गुणज्ञपूज्योऽसि यतोऽयमादरः ॥ " (भगवान् श्रीसिद्धसेनदिवाकरसूरिभत्रिंशिकायाम् ॥) ६५ ation International Page #79 -------------------------------------------------------------------------- ________________ अहो ! अत्यद्भुतं भगवतो वीरस्य वात्सल्यम् ॥ - पूज्याचार्यश्रीमद्विजयदेवसूरीश्वरशिष्यः श्रीविजयहेमचन्द्रसूरिः। सुरासुरनरेन्द्रसम्पूजितः दिनकर इव भव्यात्मकमलवनं विबोधयन् सुरविरचितनवस्वर्णकमलविन्यस्तपदपङ्कजः करुणावरुणालयो भगवान् वीरवर्धमानः ग्रामानुग्रामं विहरन् सपरिवारः श्रावस्त्यां समवसृतः । तदानीं मंखलिपुत्रः गोशालोऽपि निजानुयायिवर्गसमेतः तत्र पुर्यां हालाहलकुम्भकारशालायामवस्थितः । प्राकृतजनैः न हि केवलं दुरनुष्ठेयमपि तु दुश्चिन्तनीयं षष्ठषष्ठेन तपःकर्म कुर्वन् गणभृद् श्रीगौतमस्वामी श्रावस्त्यां भिक्षार्थं गच्छन् प्रतिगृहं चर्च्यमाणां वार्तामिमामश्रृणोत् - यत्, सम्प्रति श्रावस्त्यां द्वौ जिनौ विहरत इति । ____ तां श्रुत्वा श्रीगौतमः प्रभुवीरसमीपे समागत्याऽपृच्छत् । भगवन् ! नगरे सर्वे जनाः परस्परं वार्तयन्ति यत् - अस्माकं नगर्यामधुना द्वौ जिनौ विहरत इति किमत्र तत्त्वम् ? भगवता कथितम् - गौतम ! न ह्येतत् सत्यम्, अयं तु मंखलिपुत्रः गोशालः अस्माकं शिष्याभासः अजिनोऽपि स्व जिनं ख्यापयन्नत्राऽऽगतोऽस्ति । ततः कर्णोपकर्णतः वार्तामिमां श्रुत्वा परिकुपितः गोशालः गोचरचर्यागतमानन्दनामकं भगवच्छिष्यं जगाद - भो आनन्द ! कीदृशः खलु तव धर्माचार्यः एतावत्या पर्षदाऽपि अपरितुष्टः मम कृते यद्वा तद्वा प्रलपति । ततोऽहं तत्राऽऽगच्छामि, यदि स मां सम्यक् न प्रतिचरिष्यति तर्हि तं तेजसा धक्ष्यामि । गोशालवचनं श्रुत्वा भयभीतः आनन्दः त्वरितत्वरितं भगवत्समीपे समागत्य तस्मै यथावस्थितं न्यवेदयत् । भगवता कथितम् - भो आनन्द ! त्वं शीघ्रं गौतमादीन् मुनीन् कथय, यदेष गोशाल: समागच्छति, सर्वेऽपि साधवः इतस्ततः अपसरन्तु, केनाऽपि तस्योत्तरो न देयः । तावताऽऽगतः गोशालः, रोषारुणनेत्रः भगवन्तमधिक्षिपन्नवोचत् – भो काश्यप ! किमिदं मम कृते उन्मत्तप्रलापवत् वक्षि, यदयं गोशालः मंखलिपुत्रोऽस्तीति, नाहं गोशालः, अहं तु कोऽप्यन्य एव, परीषहोपसर्गसहं तच्छरीरं विज्ञाय तदध्यास्य स्थितोऽस्मि । तव शिष्यः Page #80 -------------------------------------------------------------------------- ________________ गोशालस्तु कदापि मृत एव । तदा भगवता कथितम्, सत्यं त्वं गोशाल एवाऽसि, मुधा किमात्मानमपनुषे । यथाऽऽरक्षकदृष्टिपतितः कश्चिच्चौरः तृणाद्याच्छादनेन स्वमपह्नोतुं नैव समर्थो भवति, तथैव त्वमपि मिथ्याप्रलापेन स्वात्मानमपलपितुं कथं शक्तो भविष्यसि ? तदा भगवद्वचनेन स गोशालः भृशं परिकुपितः । तस्मिन् समये भगवद्वहुमानेन परिखिन्नौ सर्वानुभूति-सुनक्षत्रनामानौ भगवच्छिष्यौ गोशालकोपकटुविपाकं जानन्तावपि जीवितं तृणवद् गणयन्तौ तमधिक्षिपतः स्म । तस्मिन्नेव क्षणे गोशालमुक्ततेजोलेश्यया दग्धौ तौ समाधिभावेन कालं कृत्वा एकः सहस्रारकल्पे, अपरश्च अच्युतकल्पे समुत्पन्नौ । एतावताऽपि अनुपशान्तकोपानलः गोशालः अविचार्य निजाधमकर्तव्यविरसपरिणामं भगवदुपर्यपि तेजोलेश्यां मुक्तवान् । तीर्थकरातिशयेन अङ्गबङ्गदिषोडशदेशदहनसमर्थाऽपि सा भगवतः किमपि विप्रियं कर्तुं न शशाक । प्रत्युत भगवतः पार्कात् प्रतिनिवृत्य ऊर्ध्वमुत्पत्य गोशालशरीरे एवाऽनुप्रविष्टा । तया दग्धोऽपि स भगवदुपरि नैव मत्सरं तत्याज । रुष्टश्च स भगवन्तमाह - भो काश्यप ! एतत्तेजोलेश्याप्रभावेण त्वं षण्मासाभ्यन्तरे एव कालं करिष्यसि, दुःखमवाप्स्यसि च । तदा प्रभुणा भणितम् - रे गोशाल ! नाऽहं तव कथनानुसारेण कालं करिष्यामि, अहं तु ममावशिष्टं षोडशवर्षायुः पूर्णं कृत्वा केवलिपर्यायं च पालयित्वा पश्चान्मोक्षं गमिष्यामि । त्वं तु पुनः इतः सप्तदिनमध्ये एव निजतेजोलेश्यादग्धाङ्गः कालं करिष्यसि । ततः भगवदुक्तानुसारेण तस्य सर्वं जातम्, परमन्तसमये मिथ्यात्वक्षयोपशमतः प्रादुर्भूतसम्यक्तप्रभावेण तस्य सद्बुद्धिः समुत्पन्ना । तया सपदि स विचारयितुं लग्नः, अरे ! मोहमूढचित्तत्वेन मया कीदृगघटितमाचरितम्, प्रभोर्वीरस्य च महत्याशातना विहिता, अथ मम किं भविष्यति । क्वाऽस्म्यहं जिनः ? अहं मंखलिपुत्रः गोशालः महापापः श्रमणघातकः गुरुप्रत्यनीकश्च, जिनस्तु महावीर एव। स्वानुयायिवर्गमाहूय स्वचिन्तितं सर्वं कथयन्नाह-मया यत्पूर्वं युष्माकं सविधे कथितं तत्सर्वमलीकं मन्तव्यम्, नाऽहं जिनः, अहं तु पापात्मा गोशालः, जिनस्तु महावीर एव । ६७ Page #81 -------------------------------------------------------------------------- ________________ युष्माभिः सर्वैः मम दुश्चरितं सर्वत्रोद्घोषणीयम्, भवगतो महावीरस्य च तीर्थकरत्वादिगुणानामुत्कीर्तनं च कर्तव्यम् ।। __कथमस्माभिः स्वेष्टगुरोरेवमपमानादिकं सर्वजनसाक्षिकं क्रियते, तदाज्ञापालनलोपोऽपि कर्तुमनुचितः । ततः गेहाभ्यन्तरे एव नगरादिकल्पनां कृत्वा तदाज्ञामुच्चैरुद्घोष्य पश्चात् महता महेन तस्याऽग्निसंस्कारः कृतः । प्रभोर्वीरस्य च तया लोहखण्डवर्चपीडा समभवत्, शरीरकाय॑ च सञ्जातम् । सर्वे जनाः एवं कथयन्त आसन् यत् गोशालवचनं कदाचित् सफलमपि भवेत् । सिंहश्रमणविलापः, प्रभोः वात्सल्यं च । भगवदुपरि अत्युत्कटां भक्तिं दधानः सिंहानगारः सततं चिन्ताचान्तचेताः सञ्जातः । अन्ये साधुसाध्व्यः निखिला पर्षदपि भृशमुद्विग्नमानसाः समभवन् । नहि कस्मै किमपि रोचते । अत्रान्तरे भगवान् श्रावस्तीतः विहृत्य मिण्ढिकग्रामस्य बाह्योद्याने समवासरत् ।। वीरपरमात्मानमेव निजात्मनोऽप्यधिकतरं मन्यमानः सिंहानगारः भाव्यनर्थकल्पनाकदर्थितः क्षणमात्रमपि निर्वृतिमलभमानः ग्रामस्य बहिः अटव्यां क्वचननिर्जनप्रदेशे वृक्षाधस्तात् स्थितः रोरुदिति स्म । तस्यैवं रोदनध्वनिमाकर्ण्य न हि मानवपशुपक्षिण एवाऽपि तु समीपवर्तिवृक्षवनलतादयोऽपि निरुत्साहा निरानन्दा दुःखोद्विग्नाश्च समजायन्त । चुक्कस्खलित इव कोऽपि पथिकः तेन वर्त्मना गच्छन् दृष्टाऽनवरतं रुदन्तं सिंहमुनि परमां ग्लानिमुपागतः । ग्रामाभ्यन्तरे आगत्य कमपि धर्मात्मानमुपलक्ष्याऽकथयत् - रे भ्रातः ! ग्रामबहिर्भागे एको मुनिः अविश्रान्ततया रोदिति विलपति च, नाऽहं तदुःखवर्णनं कर्तुं शक्तः, इतः कोऽपि तत्र गच्छतु तं सान्त्वयतु च । किं भवतां मध्ये कोऽप्येतत् न हि जानाति । भगवान् महावीरश्च तज्ज्ञात्वा सिंहमुनेराह्वानाय मुनीन् प्रेषयति । मुनयः ग्रामबहिर्भागे गत्वा सिंहसाधुं कथयन्ति - 'रे! शब्दयति त्वां वीरः । सत्वरमागच्छ ।' 'किं मन्दभाग्यस्तत्राऽऽगत्य करोमि ? षण्मासाम्यन्तरे एव अस्माकं मध्यात् प्रभुः परलोकं प्राप्स्यति ।' ततः कथं कथमपि मनोऽधृति विमुच्य सिंहः भगवत्समीपे समागच्छत् । वात्सल्यामृतमहोदधिः भगवान् सुधामधुरया वाचा तं समाश्वासयत् । प्रभोः भवजलधिपोतायमानं ६८ Page #82 -------------------------------------------------------------------------- ________________ चरणकमलं प्रणमन्तं वन्दमानं शुश्रूषन्तं च सिंह रुदित्वा रुदित्वा सञ्जातरक्तलोचनं परमदैन्यमुपगतं वीक्ष्य वीरः परमवत्सलतया जगाद - भो सिंह ! किमु त्वं प्राकृतजन इवाऽधृतिं करोषि, गोशालवचनेन तव मनसि मम कृते एवंविधः विकल्पः समुत्पन्नोऽस्ति यदहं षण्मासाभ्यन्तरे एव कालं करिष्यामि, किन्तु नहि तत्सत्यम् । अहं तु अथाऽपि षोडशवर्षपर्यन्तं पृथ्वीतले विचरन् धर्मोपदेशं च ददन् जीविष्यामि । अतः त्यज खेदं, स्वस्थः शान्तः प्रसन्नश्च भव। गच्छ त्वं रेवतीश्राविकागृहे, तया स्वपरिवारकृते निर्मित, बीजपूरपाकौषधं च समानय । तन्निशम्य भृशं प्रीतिमनाः सिंहमुनिः झटिति गत: रेवतीश्राद्धीगृहे, याचितश्च बीजपूरपाकः प्रतिलाभितश्च तया परमया भक्त्या सः । तया पृष्टम् - 'कथमेतत् भवता विदितम् ?' मुनिना कथितम् – 'प्रभुवीरवचनत: । ' तत्सेवनेन प्रभोः वीरस्य उपशान्तो व्याधिः, दूरीभूता कृशता, जातं च शरीरं बलवत् तेजोराशिविराजितं च । तद्द्दृष्ट्वा चतुर्विधोऽपि श्रमणसंघः परमां प्रसत्तिमापत् । देवा देव्यश्च हर्षातिरेकेण गायन्ति नृत्यन्ति उत्पतन्ति स्म च । प्रवर्तितः सर्वत्र वीरप्रभोः जयजयरवः ॥ (6 भवबीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ " (महादेवस्तोत्रे कलिकालसर्वज्ञाः।।) ६९ For Private Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ - प्रसड़ाः प्रसिद्धा कथा अप्रसिद्धा घटना (१) चन्दना मुनिरत्नकीर्तिविजयः। कौशाम्बी नाम नगरी आसीत् । तां पराक्रमी शतानीको नाम राजा शास्ति स्म । तस्य भार्या मृगावती आसीत् । सा च चेटक महाराजस्य दुहिताऽधिगतधर्म परमार्था तीर्थकरचरणसेवनरक्ता आसीत् । राज्ञः कार्येषु निपुणः कुशलबुद्धिः सुगुप्तो नामाऽमात्यः आसीत् । तस्याऽपि जिनधर्मानुरागिणी नन्दाभिधाना पत्नी आसीत् । तस्यामेव च नगर्यां धनावहो नाम श्रेष्ठी स्वकीयया मूलानामभार्यया सह निवसति स्म । ___अथ ग्रामानुग्रामं विहरन् श्रमणो भगवान् महावीर एकदा कौशाम्बीनगरीमागतवान् । तत्र च पोषबहुलप्रतिपदि दिने तेन भगवता दुष्कर एकोऽभिग्रहो गृहीतः । तद्यथा - "यदि लोहनिगडनिबद्धचरणा, अपनीतशिरोरुहा, शोक भरावरुद्धकण्ठगद्गद्गिरं रुदती, राजकन्याकाऽपि भूत्वा परगृहे वासं प्रपन्ना, त्रीणि दिनानि अनशिता, गृहाभ्यन्तरनिक्षिप्तैकचरणा, द्वितीयचरणलङ्घितगृहद्वारदेशा काऽपि कन्या प्रतिनिवृत्तेषु सकलभिक्षाचरेषु शूर्पण कुल्माषान् दद्यात् ततः परमहं पारयामि'' इति । एवं गृहीताभिग्रहो भगवान् नित्यं यथाकालं भिक्षार्थमुच्चनीचादिकुलेषु परिभ्रमति किन्तु न किञ्चिदपि लभते । पौरा अपि भगवन्तं किमप्यगृहीत्वैव गृहाङ्गणात् प्रतिनिवर्तमानं दृष्टा ग्लानिमनुभवन्ति स्म । किन्तु किंकर्तव्यमूढा इव ते न किमपि कर्तुं शक्ता भवन्ति स्म । ___ एवमेव व्यतीतं मासचतुष्टयम् । अथ अभिग्रहानुरूपाहारानुपलब्धावपि अदीनमनाः भगवान् एकदा सुगुप्तमन्त्रिण आवासे भिक्षार्थमागतः । भगवन्तमुपलक्ष्य तस्य भार्याऽतीवप्रसन्नवदना जाता । धावन्ती इव भगवतः सम्मुखमागत्य भिक्षादिसामग्री च सज्जीकृत्य सा भगवन्तं निमन्त्रितवती । किन्तु ततोऽपि निराहार एव निर्गतो भगवान् । यथागतं निवृत्तं भगवन्तं ७० Page #84 -------------------------------------------------------------------------- ________________ निरीक्ष्य दूनमनाः साऽभूत् । सर्वान् गृहव्यापारान् त्यक्त्वा सा शोकमग्ना इव स्थिता । अत्रान्तरे समागतः सुगुप्तो मन्त्री । तादृशीं तां विलोकय उद्वेगस्य कारणं स पृष्टवान । सा उक्तवतीकिञ्चिदाक्रोशपूर्वकम्, यत्- 'बहुभ्यो दिनेम्यो भगवान् महावीरोऽन्नपानादिकमगृहीत्वैव सर्वस्थानेभ्यो निर्वतते । न जाने कोऽभिग्रहविशेषस्तेन भगवता स्वीकृत: ? भवान् अमात्यः, 'सुबुद्धि:' इति च ख्यातः, अतो यदि नाम भवानभिग्रहं न विजानीयात् तर्हि को लाभो बुद्धिविभवस्य तव ?' एतच्छ्रुत्वा मन्त्री अवोचत् - ' त्वं चिन्तां त्यज । श्वस्तथा करोमि यथाऽभिग्रहो ज्ञायेत ।' इतः कस्मादपि कारणवशात् मृगावतीराज्ञ्यः विजया नाम प्रतिहारी तत्र समागताऽऽसीत् । सर्व चेदं व्यतिकरं राज्ञीसमीपं गत्वा यथाश्रुतं सा निवेदितवती । राज्ञी अपि चिन्ताकुला जाताऽनेन व्यतिकरेण । नृपेण पृष्टा सा साक्रोशम्- 'राजा भूत्वाऽपि भवान् न जानाति यद् भगवान् क्व विहरति ? कथं वा भिक्षां प्राप्नोति ?' - इति उक्तवती । सर्वमपि वृत्तान्तं ज्ञात्वा तां च समाश्वास्य राजाऽपि सचिन्त आस्थामन्डपं गतवान् । मन्त्रिणं च समाहूय सोपालम्भमुक्तवान् यत् - ' अत्र विहरन्तमपि भगवन्तं भवान् न जानातीति न युक्तम् । चतुर्भिर्मासैः भगवता न किमपि अन्नपानादिकं गृहीतम्' इति । स व्याजहार - 'स्वामिन् ! ‘राज्याद्यपरापरकार्यव्यस्तत्वात् नैतद् ज्ञातं मया । इदानीं यथा भवानाज्ञापयेत तथा सम्पादयामि' । पश्चात् राज्ञा धर्मशास्त्रपाठक आकारितः । तं चाऽपृच्छन्नृपः - 'भवतो धर्मशास्त्रेषु विविधानामाचाराणां निरूपणमस्ति । ततो भगवता कोऽभिग्रहविशेषः प्रतिपन्नोऽस्ति इति कथयतु | अपरं च मन्त्रिन् ! भवानपि बुद्धिमान् अतोऽत्र कोऽप्युपायश्चिन्तनीयो भवताऽपि इति । क्षणं विचिन्त्य तावुक्तवन्तौ - 'अनेके द्रव्यक्षेत्र - कालभावभेदभिन्ना अभिग्रहा भवन्ति । अतो नैतत् निर्णेतुं शक्यं यत् कोऽभिग्रहो भगवता गृहीतः स्यात्' इति । कथनमेतत् तयोः श्रुत्वा, अभिग्रहाणां च भिन्नभिन्नप्रकारान् ज्ञात्वा राज्ञा नगर्यामुद्धोषणा कारिता यद्- ‘सर्वैः जनैरेवं भिन्नभिन्नप्रकारैः भगवान् निमन्त्रयितव्यः, येन तेषामभिग्रहपूर्तिः ७१ Page #85 -------------------------------------------------------------------------- ________________ स्यात् । जना अपि उपायानेव चिन्तयन्त आसन् । अतः पटहमेनं श्रुत्वा भक्तिभरहदयाः तथा कर्तुं प्रवृत्ताः । किन्तूपायशतैरपि भगवतोऽभिग्रहो न परिपूर्णो भवति । एवमेव च एकैकं कृत्वा दिनानि व्यतियन्ति । ___ अत्रान्तरे च कैश्चित् चारपुरुषैरागत्य राज्ञे - 'स्वामिन् ! भवतः पूर्ववैरी दधिवाहनो राजाऽधुनाऽल्पपरिकरः सन् प्रमत्तो वर्तते । यदि शीघ्रं तत्र गमिष्यामः तर्हि इष्टार्थसिद्धिर्भविष्यति' इति निवेदितम् । आकण्र्यैतद् निवेदनं राज्ञाऽपि द्रुतमेव सन्नाहभेरिः वादिता । सज्जीभूय च ससैन्यः शतानीकः चम्पापुरीं प्रति प्राचलत् । अत्र च शतानीकस्य सहसाऽऽगमनं ज्ञात्वा व्याक्षिप्तो दधिवाहनः किङ्कर्तव्यविमूढ इव सञ्जातः । तं तादृशं दृष्ट्वा मन्त्री उवाच - 'देव ! अधुना तु पलायनमेवोचितम् ।' सोऽपि सचिवस्य वचनमनुसृत्य ततः पलायितः ।। स्वामिविहीनां च नगरी प्रेक्ष्य शतानीक आदिष्टवान् स्वसैनिकान् - 'यथेच्छं यथारुचि च सर्वे गृह्णन्तु' इति । सैनिकैरपि निर्दयं तन्नगरं लुण्टितम् ।। अत्र प्रासादे, अचिन्त्यमेव उत्थितायाः स्थिते: असमञ्जसमनु भवन्ती दधिवाहनस्याऽग्रमहिषी धारिणीदेवी तथा तत्सुता वसुमती यावत् पलायितुं प्रवृत्ता तावदेकः शतानीकस्य सेवकपुरुषस्तत्राऽऽगतः । तेन ते उभे अपि गृहीते । गृहीत्वा च स स्वनगरी प्रति प्रस्थितः । धारिणीदेव्या रूपलावण्येन विमोहितः स मार्गे गच्छन् जनानां पुरत एवं वक्तुं प्रवृत्तः यद् - 'एषा मम पत्नी भविष्यति । एनां च कन्याकामहं विक्रेष्ये' इति । एतादृशं तस्योल्लापं श्रुत्वा भयभीता धारिणी शीलखण्डनभयात् जिह्वां चर्वयित्वा मरणं प्राप्तवती। एवंरीत्या तां मरणं प्राप्तां दृष्ट्वा व्याकुलितेन तेन सेवकेन चिन्तितं यद् - 'अहो ! मया दुष्टमुक्तं यदेषा मे पत्नी भविष्यति - इति, मम दुर्वचनैरेवाऽस्या ईदृशी दुःस्थितिः सञ्जाता। अत इदानीं न भणिष्यामि एवं किमपि दुर्वचनम् । यतः एषा कन्याऽप्येनं मागं मा गणातु' । एवं विचिन्त्य मधुरवचनैश्च तां समाश्वास्य कौशाम्बी नगरीमानीतवान् । तत्र च विक्रयनिमित्तं Page #86 -------------------------------------------------------------------------- ________________ राजमार्गे उपस्थितोऽभूत् । संयोगेन धनावहश्रेष्ठी तेनैव मार्गेण तदा गच्छन्नासीत् । सा कन्या तस्य दृष्टिपथमागता । तस्याश्च रूपलावण्यादिकं दृष्ट्वा - 'नेयं काऽपि सामान्यकन्या' - इति निश्चित्य येन केनाऽपि मूल्येनैषा ग्रहीतव्या एव, येन यस्य कस्याऽपि हस्तगता एषाऽनर्थपरम्परां मा प्राप्नुयात् - इति निर्णीय च तां गृहीतवान् । सस्नेहं तां स्वगृहमानीय - 'कस्य त्वं दुहिता? को वा तव स्वजनवर्गः ?' इत्यादि पृष्टवान् । साऽपि सकलं निजव्यतिकरमुक्तवती । श्रेष्ठिनाऽपि सा पुत्रीत्वेन प्रतिपन्ना । साऽपि स्वगृहमिव तत्र सुखेन निवसति । स्वकीयेन विनयेन वचनकौशल्येन च सा सर्वेषामानन्ददायिनी सञ्जाता । श्रेष्ठिनाऽपि चन्दनवत् शीतलस्वभावत्वात् तस्याः पूर्वं नामाऽपनीय 'चन्दना' इत्यपरं नाम स्थापितम् । अथ प्रतिदिनं वर्धमानां तस्या रूपसम्पदं दृष्ट्वा श्रेष्ठिपत्नी मूला मात्सर्यवती जाता । 'श्रेष्ठिनं परिणीय एषा मम स्थानं ग्रहीष्यति, एषैव च गृहस्वामिनी भविष्यति' इति विपरीतं चिन्तितुं लग्ना सा । एवमेव च मात्सर्यविमूढचित्ता छिद्रान्वेषणं कुर्वाणा सा कालं गमयति । एकदा मध्याह्नकाले श्रेष्ठी विपणितः स्वगृहमागतः । सूर्यस्य उग्रतापात् स क्लान्तदेहो जातः । किन्तुं तदा गृहे कोऽपि नाऽऽसीत् यः तस्य पादप्रक्षालनं कुर्यात् । तदा चन्दना स्वयं समुत्थाय जलं गृहीत्वा श्रेष्ठिना निवारिताऽपि पादक्षालनं कृतवती । तदा शिथिलबद्धस्तस्या दीर्घकुन्तलकलापो भूमौ निपतितः । 'एष मा कर्दमितो भूयादि'ति विचिन्त्य निर्दोषभावेन स्वहस्तेनैव ततः समुत्क्षिप्तो बद्धश्च । ___ मूलाया दृष्टिगोचराऽभवदेषा श्रेष्ठिनः चेष्टा । वात्सल्यभावेनैव केवलं कृतमेतच्चेष्टितमपि मात्सर्यानलदग्धाया मूलायाः चित्ते 'अग्नौ घृताहुति'रिव सञ्जातम् । 'मया यत्तर्कितं तत्तु सत्यमेवाऽद्य प्रतिभाति । अतोऽद्यैवाऽस्योपायः कर्तव्यो मया' इति निश्चितं तया । क्षणं विश्रम्य यदा श्रेष्ठी पुनः स्वकार्यार्थं बहिर्गतवान् तदा मूलयाऽऽकारिता चन्दना । बलात् तां स्नापयित्वा तस्या मस्तके मुण्डनमपि कारितम् । बहु च ताडयित्वा लोहनिगडैस्तस्याः चरणौ बद्धवाऽन्यस्मिन् गृहे प्रक्षिप्तवती मूला। 'यः कोऽप्येतं व्यतिकरं श्रेष्ठिने कथयिष्यति Page #87 -------------------------------------------------------------------------- ________________ तस्याऽप्येवमेव दण्डयिष्यामि' इत्येवं परिजनान् कथयित्वा सा स्वगृहं गतवती । - सन्ध्याकाले श्रेष्ठी समागतः । चन्दनां चाऽनुपस्थितां दृष्ट्वा स परिजनानपृच्छत् – 'क्व गता चन्दना ?' इति । किन्तु मूलाया भयेन न कोऽपि सत्यकथने प्रभवति । श्रेष्ठ 'प्रासादतले क्रीडन्ती भविष्यति' इति समाधानं कृतम् । अथ रात्रौ पृष्टे सत्यपि प्रत्युत्तरं न प्राप्तवान् सः । द्वितीयदिनेऽपि न दृष्टा चन्दना तेन । अतोऽत्यन्तं व्याकुलः स सञ्जातः । तृतीयस्मिन् दिने समुत्पन्नगाढकोपः स सर्वेभ्य उक्तवान्- 'अरे ! कथयतु मे चन्दनायाः प्रवृत्तिम् । क्व सा गता ? किं भूतं तस्याः ? यदि न कथयिष्यथ तर्हि मम हस्तेनैवाऽहं सर्वान् दण्डयिष्यामि' इति । एवं व्याकुलं श्रेष्ठिनं दृष्ट्वा एकया स्थविरया दास्या चिन्तितं यद् - 'अहं तु जरातुरा प्रत्यासन्नमरणा च । किं कर्तुमीशिष्यति मे सा मूला ? अतोऽहमेव सर्वं व्यतिकरं कथयेयम् ।' एवं च विचिन्त्य सर्वं यथाघटितं श्रेष्ठिने निवेदितवती सा वृद्धा । दर्शितं च तद्गृहं यत्र साऽवरुद्धाऽऽसीत् । --- श्रेष्ठिनाऽपि झटिति तद्गृहद्वारमुद्घाटितम् । कर्तितकेशां, निगडबद्धचरणां, क्षुधापिपासादिभिः क्लान्तदेहां म्लानमुखीं च चन्दनां दृष्ट्वा गलद्वाष्पलोचन: श्रेष्ठी - 'पुत्रि ! अहमागतोऽस्मि । विश्वस्ता भव' इति तां समाश्वास्य भोजनसामग्य्रर्थं महानसं गतवान् । किन्तु नाऽऽसीत् काऽपि भोजनसामग्री तत्र, केवलं कुल्माषा एव तत्र विद्यमाना आसन् । अतस्तानेव शूर्पकोणे गृहीत्वा चन्दनायै दत्तवान् । कथितं च- 'यावत्तव निगडभञ्जनार्थं लोहकारमहमानयेयम् तावद् भुङ्क्ष्व एतान् कुल्माषान् ।' एवमुक्त्वा श्रेष्ठी ततो निर्गतः । अथ चन्दनाऽपि शूर्पसहितान् कुल्माषान् हस्ते गृहीत्वा स्वकुलं चिन्तयितुं लग्ना । चिन्तनमध्ये एव तस्या: समुत्पन्नो विकल्प: यद - 'यदि आगच्छेत् कोऽप्यतिथिः तर्हि तस्मै दत्वा एव भोजनं कर्तुमुचितम्' इति । एवं च परिभावयन्ती सा गृहस्य द्वारदेशमागत्य बहिः प्रलोकयन्ती स्थिता । तदैव च श्रमणो भगवान् महावीरो विहरन् सन् तत्राऽऽगतवान् । स च तस्या ७४ Page #88 -------------------------------------------------------------------------- ________________ दृग्गोचरोऽभवत् । सा दृष्टवती यद् भगवान् तत्स्थानं प्रति एव आगच्छति । अतोऽप्रतिमरूपं भगवन्तं दृष्ट्वाऽत्यन्तमसारं कुल्माषभोजनं च निरीक्ष्य शोकभरावरुद्धकण्ठा सा गलदश्रुप्रवाहनयना सञ्जाता । तावद् भगवानपि तत्र समागतः । साश्रुलोचना सा उक्तवती - 'भगवन् ! यद्यपि अनुचितमेतद् तथाऽपि मम मन्दभाग्याया अनुग्रहार्थं गृह्णातु एतत् कुल्माषभोजनम्।' भगवताऽपि समग्राभिग्रहविशुद्धिं दृष्ट्वा प्रसारितं पाणिपात्रम् । तयाऽप्येकं चरणं गृहद्वारस्य बहिःप्रदेशेऽपरं च चरणं गृहस्याऽन्तः प्रदेशे संस्थाप्य शूर्पण कुल्माषाः प्रदत्ताः । अथ च जगद्गुरोरभिग्रहपूरणेन परितुष्टैः देवैः पञ्च दिव्यानि प्रकटीकृतानि । चन्दनाया लोहनिगडानि देवताप्रभावेण सुवर्णनूपुरत्वेन परिवर्तितानि । मस्तकोपरि कुन्तलकलापोऽपि पूर्ववत् सञ्जातः । अनेकाभरणैश्चाऽलङ्कतं सञ्जातं तस्याः शरीरम् । एवंविधे महोत्सवस्वरूपे वातावरणे सञ्जाते पुरजनाः सपरिकरश्च गजस्कन्धाधिरूढो नृपतिः शतानीकस्तत्राऽऽगतः । सुगुप्तोऽमात्योऽपि स्वभार्यया सह तत्रोपस्थितोऽभूत् । __ अत्रान्तरे शतानीकराज्ञा पूर्वं बद्ध्वाऽऽनीतो दधिवाहननृपतेः सम्पुलो नाम कञ्चुकी तत्क्षणं वसुमतीं दृष्ट्वा जातप्रत्यभिज्ञः तस्याः पादयोः पतित्वा रोदितुं लग्नः । तस्य तादृशं वर्तनं दृष्ट्वा राजाऽपृच्छत् - 'किमर्थं त्वं रोदिषि ?' तेन कथितम् - 'देव ! दधिवाहनराज्ञोऽग्रमहिष्या धारिणीदेव्या एषा पुत्री अस्ति । नृपतिकुलसम्भूताऽप्येषा अधुना निजजननीजनकरहिता परगृहे वसति । एतेन कारणेनाऽहं रोदिमि।' राजा यावत् तं सान्त्वयति तावत् मृगावती उक्तवती - 'यद्येषा धारिणीदुहिता तर्हि मे भगिन्या दुहिता भवति' इति । ____ अत्र प्रस्ताव स्वामिभावेन स्वं अधिकारिणं मन्वानः शतानीकः सार्धद्वादशकोटीसुवर्णवृष्टिं ग्रहीतुमारब्धः । किन्तु पुरन्दरस्तमुक्तवान् - 'भोः ! महाराजः नाऽत्र कोऽपि स्वामिकौटुम्बिकभावः, किन्तु यस्मै कस्मैचिदप्येषा कन्या स्वहस्तेनेदं द्रव्यं दास्यति तस्यैवैतद् भविष्यति' इति । एवमुक्त्वा पृष्टा च चन्दना - पुत्रि ! 'कस्मै एतद् देयम् ?' सा व्याजहार Page #89 -------------------------------------------------------------------------- ________________ 'किमत्र प्रष्टव्यम् ? एतस्मै निष्कारणवत्सलाय मम जीवितदायिने पित्रे धनावहश्रेष्ठिने एवैतद् दातव्यम्' इति । पुनः शक्र उवाच - ‘राजन ! एषा चरमशरीरा सांसारिकभोगादिभिः पराङ्मुखा श्रमणभगवन्महावीरस्य आर्याणां प्रथमा साध्वी भविष्यति । अतः सम्यग् रक्षणीया एषा ।' एवं कथयित्वा इन्द्रोऽप्यदृश्यत्वमुपागतः । सर्वे नागरा राजादयश्चाऽपि तां बहुमान्य स्वस्थानं गतवन्तः । कथानकं त्वेतद् सुप्रसिद्धमेव सर्वत्र जैनसमाजे । किन्तु कथनकाले जायमानां क्षति प्रति अङ्गलिनिर्देशार्थमत्र पुनरेतत् प्रस्तुतम् । एतत्कथानकं श्रीगुणचन्द्रगणिना रचितं प्राकृतभाषानिबद्धं 'सिरिमहावीर चरियं' इति ग्रन्थमाश्रित्याऽत्रोल्लिखितमस्ति । ___ कथानकमेतत्तु सम्पूर्णं यथातथमेव सर्वत्र वर्ण्यते। किन्तु चन्दनया भगवते महावीरस्वामिने यत् कुल्माषाणां दानं दत्तं तत्र कथनस्य बहुभिर्वर्षेः एका परम्परा प्रचलन्ती वर्तते । यद् - "चन्दना एकं पदं गृहद्वारस्य बहिः, अपरं चाऽन्तः न्यस्य हस्तयोः कुल्माषसहितं शूर्प गृहीत्वा कमप्यभ्यागतं प्रतीक्षमाणा स्थितवती । तावत् श्रमणो भगवान् महावीरो भिक्षार्थं भ्रमन् तत्र समागतः । तं तादृशमलौकिकरूपधारिणं तपश्चरणेन पूतदेहं भगवन्तं निरीक्ष्य दानार्थमुल्लसितमनाः साऽभूत् । भगवानपि भिक्षार्थं तत्समीपमागतवान् । द्रव्य-क्षेत्र-कालभावादिकमनुसृत्य स्वस्याऽभिग्रहविशेषस्य विशुद्धिं निरीक्षमाणेन भगवता तत्राऽश्रूणि न दृष्टानि । अतस्ततः प्रतिनिवृत्तो भगवान् । भगवन्तं पुनर्गच्छन्तं दृष्ट्वा सा रोदितुं लग्ना । रुदतीं च तामभिज्ञाय भगवान् पुनस्तत्राऽभिग्रहपूरणात् भिक्षार्थमागतवान्, भिक्षां च गृहीतवान्'इति । एतादृशमेव कथनं 'शुभवीर' इत्यपरनाम्ना ख्यातेन पण्डितश्रीवीरविजयगणिनाऽपि स्वरचिते गूर्जरगिरामये काव्ये कृतमस्ति ।। __ अत्र 'भगवतो महावीरस्य अश्रूणामभावं दृष्ट्वा निवर्तनम्, तस्माच्च चन्दनाया रोदनम्, तत्पश्चाच्च पुनर्भगवत आगमनम्' - इति न युक्तियुक्तं प्रतिभाति । यतः सर्वेऽपि तीर्थकरा लोकोत्तरमहापुरुषा भवन्ति । तादृशानां लोकोत्तरमहापुरुषाणामाचारस्त्वेतादृशः तुच्छप्रायो Page #90 -------------------------------------------------------------------------- ________________ भवितुं नाऽर्हति । अपूर्णेऽभिग्रहे तेषां गमनमपि तत्र न सम्भवेत् तर्हि निवर्तनं पुनर्वलनं च कथं स्यात् ? अतः श्रीगुणचन्द्रगणिवरेण यादृशं प्ररूपितं ग्रन्थे तदेवोचितं योग्यं च भाति । तावान् कथाभागोऽप्यत्र दीयते - "अह चिंतियमेयाए जइ एज्ज इमंमि कोई पत्थावे। अतिहि ता से दाउं जुज्जइ मह भोयणं काउं॥६॥ इति परिभाविऊण पलोईयं दुवाराभिमुहं, एत्थंतरे चुन्नियचामीयररेणुसुंदरेण कायकंतिपडलेण पूरयंतो व्व गयणयलंगणं, उवसंतकंतदिठ्ठिप्पहापीऊसवरिसेण निव्ववंतो व्व दुहसंतत्तपाणिगणं, नगनगरसिरिवच्छमच्छसोवत्थियलंछिएण चलणजुयलेण विचित्तचित्तंकियं व कुणमाणे महीयलं, सुहकम्मनिचओ व्व पच्चक्खो अहाणुपुव्वीए विहरमाणो समागओ तं पएसं भयवं महावीरजिणवरो, तयणंतरं अप्पिडिमरुवं भयवंतं दठ्ठण अच्चंतमसारं कुम्मासभोयणं च निरिक्खिऊण दूरमजुत्तमेयं इमस्स महामुणिस्स त्ति विभावमाणीए सोगभरगग्गरगिराए गलंतबाहप्पवाहाउललोयणाए भणियमणाए - भयवं ! जइवि अणुचिमेयं तहावि मम अधन्नाए अणुग्गहटुं गिण्हह कुम्मासभोयणं ति, भगवया वि धीरहियएण निरूविऊण समग्गाभिग्गहविसुद्धिं पसारियं पाणिपत्तं, तीए वि निबिडनिगडजडियं कह कह वि दुवारस्स बहिरुद्देसंमि काऊण चलणमेक्कमवरं च भवणब्भंतरंमि सुप्पेण पणामिया कुम्मासा।" इति ।। १ आवो आवो जशोदाना कंत, अम घर आवो रे, भक्तवत्सल भगवंत, नाथ शे नावो रे। एम चन्दनबाला बोलड़े, प्रभु आव्या रे, मुठी बाकुल माटे, पाछा वळीने बोलाव्या रे॥ Page #91 -------------------------------------------------------------------------- ________________ प्रसिद्धा कथा अप्रसिद्धा घटना (२) जीर्णश्रेष्ठी मुनिरत्नकीतिविजयः श्रमणो भगवान् महावीर: श्रामण्यं स्वीकृत्य वायुवन्निर्बन्धो मुक्तप्रतिबन्धश्च ग्रामानुग्राम विहरति स्म । दश वर्षाणि व्यतीतानि । एकादशमचतुर्मास्यर्थं भगवान् वैशालीनगरी प्राप्तवान् । त्रसादीजीवानामुपद्रवै रहिते स्त्री-पशु-नपुंसकादीनां संसर्गमुक्ते निर्दोषस्थले मासचतुष्टयोपवासान् अंगीकृत्य प्रतिमाध्यानेन अवातिष्ठत् । ___ तस्यामेव नगर्यामनेकैः सद्गुणैर्मण्डितो जीर्णश्रेष्ठी नाम श्रावको वसति स्म । अन्यश्च अभिनवाभिधोऽपि श्रेष्ठी तत्रैव वसति स्म । ___कार्यवशादेकदा जीर्णश्रेष्ठी नगर्या बहिरगच्छत् । तत्र च काञ्चनवर्णशरीरं सर्वैरुत्तमलक्षणैर्युक्तं भगवन्तं महावीरं कार्योत्सर्गपूर्वकं स्थितं स दृष्टवान् । भगवन्तमुपलक्ष्य तस्य मन आनन्दोदधौ निमग्नमिवाऽभूत् । हर्षवशात् रोमाञ्चितः स परमात्मानं वन्दितवान् । मनसि च – 'इदानीं भिक्षाकालं प्रवर्तते । तथाऽपि भगवान् तु कायोत्सर्गेणैव स्थितोऽस्ति, अतः स उपोषितोऽद्य इति ज्ञायते । यदि च श्वो मम गृहे पारणार्थेमेष अनुग्रहं कुर्यात् तर्हि अहं धन्यभाग्यो भवेयम्' - इति चिन्तयति । भिक्षाकाले व्यतीते भगवत उपवासं निश्चित्य स प्रत्यागतवान् स्वगृहम् । अपरस्मिन् दिने भिक्षाकालं प्राप्य तत्र पारणार्थं भगवन्तं विज्ञपयति स्म । कार्योत्सर्गेणैव स्थितं परमात्मानं दृष्ट्वा – 'अधुना कायोत्सर्ग पारयित्वा भगवान् भिक्षार्थं मम गृहमलंकरिष्यति' इति भावयित्वा भगवतश्च प्रतिवचनमप्रतीक्षमाण एव त्वरितं स्वगृमागत्य सर्वा अपि भिक्षायोग्याः सामग्री: सज्जीकृत्य गृहस्याऽग्रद्वारि एव - "अधुनैव भगवान् भिक्षार्थं सञ्चरिष्यति । मया विज्ञप्तो भगवान्, अतोऽनेनैव मार्गेण मम गृहे आगमिष्यति । उग्रं तपश्चरन् स मम सकाशात् स्वल्पमपि ७८ Page #92 -------------------------------------------------------------------------- ________________ यदि ग्रहीष्यति तर्हि अहमपि धन्यमेषु एको भविष्यामि । अहो ! कीदृशा धन्यास्ते ये जिनेश्वरं प्रतिलाभयन्ति ? अहं तु कदा तादृशो भविष्यामि?" इत्यादि भावयन् अनिमेषनयनाभ्यां प्रतीक्षते स्म स भिक्षाकालं यावत् । पश्चाच्च भिक्षाकाले व्यतीते - 'अद्याऽपि भगवान् उपोषित एव ज्ञायते' इति विचार्य स्वकार्ये युज्यते स्म । एवमेवाऽक्षुण्णमनाः स निरन्तरं भगवन्तं विज्ञपयति, स्वगृहं चाऽऽगत्य सर्वाः सामग्रीः सज्जीकृत्य भिक्षाकालपर्यन्तं प्रतीक्षते । एवं चतुर्मासी व्यतीता । स्वयं 'अद्य तु निश्चितं परमात्मा उपवासं पारयिष्यती' ति विचिन्त्य नित्यक्रमानुसारेण विज्ञप्तुं गतवान् । विज्ञप्य च झटित्येव स्वगृहं प्रतिन्यवर्तत । पूर्ववत् सर्वं सज्जीकृत्य गृहद्वारे स्थित्वा भक्तिभृतहृदयेन विचारयितुं लग्नः, यत् - 'त्रिलोकाधिपति परमात्मानमद्य दानं दत्वाऽहं धन्यः कृतपुण्यश्च भविष्यामि । मया लब्धमेतद् मनुष्यजन्माऽप्येतेनैव सफलं गणयिष्यते । अनेकभवपरम्परासु च निबिडाशुभकर्मभिर्बद्धोऽहमद्यैव मुक्तो भविष्यामि' । एवं भक्त्या भावनाया उत्कर्ष प्राप्तवान् सः। इतश्च भगवान् महावीरोऽपि कार्योत्सर्गं पूर्णीकृत्य भिक्षार्थं निर्गतः । अभिनवश्रेष्ठीनो गृहं च स प्राप्तवान्। स च श्रेष्ठी स्ववैभवेन गर्वोन्मत्त आसीत् । आगतं भगवन्तमनुपलक्ष्यैव दास्यै अचीकथत् - 'एष कोऽपि भिक्षुक आगतोऽस्ति । यद् विद्यते तद्दीयताम्'। भावशून्या सा दास्यपि कुल्माषान् दत्तवती । तेन च भगवता मासचतुष्टयोपवासानां पारणकं कृतम् । तत्सार्धमेव महिमार्थं देवैः पञ्च दिव्यानि प्रकटीकृतानि । गगने दुन्दुभिनादः, अहोदानमहो दानमित्युद्घोषणा, सार्धद्वादशकोटीसुवर्णद्रव्यवर्षणम्, चेलोत्क्षेपः, गन्धोदकवृष्टिः इति पञ्च दिव्यानि तत्र समुद्भूतानि । तादृशं नावीन्यं दृष्ट्वा सर्वे नागरिकास्तत्र समुपस्थिताः । राजाऽपि सपरिकरस्तत्राऽऽगतः । तत्स्वरूपं दृष्ट्वाऽऽश्चर्यचकितोऽभूत् । नृपेण जनैश्च जिज्ञास्या पृष्टः श्रेष्ठी उवाच, यद् ‘मयाऽस्मै परमान्नं- क्षीरं भिक्षायां दत्तम्, तत्प्रभावेणाऽहमेतादृशं वैभवं लब्धवानस्मि' इति । तस्य तादृशैः कपटवचनैरनभिज्ञा जनास्तत्संश्रुत्य हर्षिताः सन्तः तं प्रशंसमाना निजनिजगृहं जग्मुः । Page #93 -------------------------------------------------------------------------- ________________ इतश्च - शुभभावधारायां अधिकमधिकं आरोहन् स जीर्णश्रेष्ठी भावनायाः प्रकर्षस्य परां कोटिं यावत् प्राप्तवान् तावदेव तेन दुन्दुभिनादः श्रुतः । तत्सार्धमेव च तस्य भावधारा भग्ना, मनसि एव च - "किं भगवता पारणकं कृतम् ? हा ! हा ! कीदृशोऽहं मन्दभाग्यो येन विज्ञप्तोऽपि भगवान् महाङ्गणं न पावितवान् । अथवाऽलमेतेन । न हि निष्पुण्यकः कदाऽपि चिन्तामणिरत्नं प्राप्नोति । तथाऽहमपि निष्पुण्यकेषु प्रथमो येन भगवत्तुल्येन रत्नपात्रेण न लाभान्वितोऽभुवम्' - इत्यादि चिन्तयन् शोकमग्न इव बभूव । परमात्मा तु पारणकं कृत्वा पुनर्विहर्तुं प्रवृत्तः । ___अथ कियता कालेन च तस्यामेव वैशालीनगर्यां त्रयोविंशतीर्थकरस्य श्रीपार्श्वनाथभगवतः शिष्यः केवलज्ञानी आचार्यः समवसृतः । केवलज्ञानिमहात्मन आगमनं श्रुत्वा नगरजना नृपतिश्च आनन्दभरहृदया वन्दितुं तत्राऽऽगताः । केवलिनाऽपि धर्मदेशना प्रदत्ता । देशनां श्रुत्वा अमृतपानेनेव तुष्टा जना हस्तामलकवत् सर्वं प्रत्यक्षं पश्यन्तं केवलिभगवन्तं पप्रच्छुः, यद् – 'भगवन् ! अस्यां नगर्यां को धन्य आत्माऽस्ति ? केन च संसारो लघूकृतः ?' तदा जगाद केवली - 'अस्यां नगर्यां धन्यातिधन्योऽस्ति जीर्णश्रेष्ठी ।' तदाकर्ण्य राजा उवाच - भगवन् ! किमर्थं भवान् तमेव धन्यत्वेन ख्यापयति? किं तेन भगवतः पारणकं कारितमस्ति उत सार्धद्वादशकोटिसुवर्णस्य वृष्टिं तस्य गृहाङ्गणे पतिताऽस्ति, येन स धन्यः? केवली व्याजहार - "राजन् ! भावेन तु तेनैव पारणकं कारितं परमात्मनः । परमार्थतश्च वसुधारावृष्टिरपि तस्य गृहे एव पतिताऽस्ति । यतः स्वर्गस्य मोक्षसुखस्य चाऽपि स एव भाजनं जातोऽस्ति । यदि च क्षणमपि तेन दुन्दुभिनादः श्रुतो न स्यात् तर्हि भावधारायाः परां कोटिमारूढः स सर्वलोकालोकप्रकाशकं केवलज्ञानमपि प्राप्नुयादेव । अपरं च, भावशून्यवात् अभिनवश्रेष्ठिनस्तु सुवर्णद्रव्यमात्रस्य लाभो जातः, न कश्चिदन्यः । द्रव्यलाभस्तु अत्यन्तं स्थूलः । अतः भोः ! महाभागाः ! चारित्रं देवपूजा दानं च यदि भावशून्यानि तहि निष्फलान्येव गणयेयुः" इति । केवलिभगवतः सकाशात् जीर्णश्रेष्ठिनोऽनुमोदनं श्रुत्वा सर्वे नागरा भूपतिश्च प्रसन्नताभाजः ८० Page #94 -------------------------------------------------------------------------- ________________ सन्तस्तं जीर्णश्रेष्ठिं च प्रशंसन्तः प्रतिनिववृतिरे । केवली अपि यथाक्रममन्यत्र विजहार । कथानकं त्वेतदप्यत्यन्तं प्रसिद्धं जैन समाजे । भावनाया: प्रकर्षेण कीदृशो लाभो जायते इति ख्यापनार्थमेषा कथा बहुशः कथ्यते प्रवचनसभायां गुरुभगवद्भिः । अत्र "दुन्दुभिनादं श्रुत्वा श्रेष्ठिनो भावधारा त्रुटिता । क्षणमपि यदि तेन नादो न श्रुतः स्यात् तर्हि स केवलज्ञानं प्राप्नुयात्" इति तु कथ्यत एव, किन्तु सामान्यतः कथायाः श्रवणकाले प्रश्नोऽपि समुद्भूयते स्म यत् - 'स केवलज्ञानं प्राप्नुयात्' इति केन प्ररूपितम् ? भगवता महावीरेण तु न तादृशं कदापि कथितम्, तर्हि केन कथितम् ? समाधानं त्वस्य ग्रन्थस्य वाचनेन जातम् । किन्तु तत्समनन्तरमे वाऽन्योऽपि प्रश्नस्तत्रोपस्थितोऽभूत्, यद् - कोऽयं केवलज्ञानी महात्मा, य: त्रयोविंशतितमतीर्थकृतः श्रीपार्श्वनाथस्य शिष्यत्वेनाऽत्र वर्णित: ? प्रश्नस्याऽस्य प्रश्ने उपस्थितेऽस्माभिरेवं विचारितम् - पर्युषणपर्वणि नियमितरूपेण कल्पसूत्रनामक आगमग्रन्थो वाच्यते । तस्मिन् आग तीर्थकराणां चरित्राणि वर्णितानि । तत्र चरित्राणां पर्यवसाने प्रत्येकं तीर्थकराणां पर्यायान्तःकृद्भूमि: युगान्त:कृद्भूमिश्च कथिते स्तः । तत्र पर्यायान्तःकृद्भूमिर्नाम तीर्थकराणां केवलज्ञानप्राप्तेः पश्चात् यावता कालेन - केवलित्वपर्यायेण कोऽप्यात्मा सर्वकर्मक्षयं कृत्वा मोक्षमवाप्नोति मोक्षमार्गं चोट्घाटयति स कालः पर्यायान्तःकृद्भूमिरित्युच्यते। युगान्तःकृद्भूमिर्नाम तीर्थकराणां यावन्तः पट्टधरसाधवो मोक्षं प्राप्नुवन्ति सा युगान्तः कृद्भूमिः । तत्र श्रीपार्श्वनाथतीर्थकरस्य चतुर्थपट्टधरशिष्यपर्यन्तं मोक्षमार्ग: प्रवर्तित आसीत्, इत्येषा युगान्तः कृद्भूमिः तेषां प्ररूपितमस्ति । - अत्रैव तर्क्यते यद् - ‘अस्मिन् चरित्रग्रन्थे वर्णित: केवलज्ञानी भगवान् किं श्रीपार्श्वनाथभगवत: चतुर्थपट्टधरपुरुषः खलु ?' एष तर्क एतस्मात् सत्यं प्रतिभाति यत् श्रीपार्श्वनाथस्य निर्वाणस्य सार्धद्विशतवर्षेभ्यः पश्चात् श्रीमहावीरस्य निर्वाणं जातम् । भगवत: श्रीमहावीरास्यऽऽयुष्यं तु द्विसप्ततिवर्षमितमासीत्, अतोऽष्टसप्तत्यधिकशतवर्षेभ्यः तेषां जन्म ८१ Page #95 -------------------------------------------------------------------------- ________________ अभवत् पार्श्वनाथनिर्वाणात् । यदा च भगवान् महावीरः चारित्रं गृहीत्वान् तदा त्रिंशद्वर्षमित आसीत्, तत्पश्चात् एकादशर्षे एषा घटना प्रवर्तिता । अतः पार्श्वनाथस्य निर्वाणात् एकोनविंशत्यधिकद्विशतानि वर्षाणि व्यतीतानि भवेयुः । तस्मिन समये च भगवत: श्रीपार्श्वनाथस्य चतुर्थः पट्टधरः केवलज्ञानित्वेन विहरन् स्यात् इति तर्क्यतेऽस्माभिः । सत्यं तथ्यं वा तु ज्ञानिनामधीनत्वेन वर्तते । चरित्रग्रन्थस्य पाठ : गामागराईसु चिरं विहरिय पत्तंमि वरिसयालंमि । एक्कारसमे सामी वेसाली पुरीए गओ ||४|| 44 तसपाणबीयरहिए थीपसुपंडगविवज्जिए ठाणे । चाउम्मासियखमणं पडिवज्जित्ता ठिओ पडिमं ॥ ५ ॥ पृष्ठ २३३-१| अन्नंमिय पत्थावे समोसढो तत्थ पासजिणसिस्सो । सूरी केवलनाणप्पईवपायपडियपरमत्थो ||३३|| नाउं समोसढं तं नयरिजणो नरवई य हिट्ठमणो । वंदणवडियाए लहुं समागओ तस्स पासंमि ||३४|| वंदित्ता भत्तीए उचियद्वाणंमि सन्निसन्नो य । सुचिरं धम्मं सोउं पुच्छिउमेवं समादत्तो ॥ ३५ ॥ भयवं ! एत्थ पुरीए अणेगजणसंकुलाए को धन्नो । लहुईकयसंसारो य ? कहसु अइकोउगं मज्झ ||३६|| तो केवलिणा भणियं अइधन्नो एत्थ जुन्नसेट्ठित्ति । रन्ना वुत्तं किं नणु सामी पाराविओ तेण ? ||३७|| किं वा अद्धत्तेरस-सुवन्नकोडिप्पमाणवसुहारा । तमंदिरंमि पडिया ? अइधन्नो जेण सो जाओ ||३८|| तो केवलिणा भणियं भावेणं तेण तिहुयणेक्कपहू । ८२ Page #96 -------------------------------------------------------------------------- ________________ पाराविओ च्चिय तहा दाणत्थं कयपयत्तेण ॥३९॥ वसुहारा वि हु परमत्थओ परं तस्य मंदिरे पडिया । जं सग्गमोक्खसोक्खाण भायणं सो इहं जाओ ॥४०॥ . किं च - जई खणमेत्तं नो दुंदुहीए सदं तथा सुणितो सो। खवगस्सेणि आरुहिय केवलं ता लहु लहंतो ॥४१॥ पत्तपहाणत्तणओ कणगं मोत्तूण तेण उ न अन्नं । भाववित्तयलत्तणेण फलमहिणवसेट्ठिणा लद्धं ॥४२॥ इय भो देवाणुपिया ! चरणं दाणं च देवपूया य। कासकुसुमं व विहलं सव्वं चिय भावपरिहिणं ॥४३॥" पृष्ठ २३४ " यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया। वीतदोषकलुषः स चेद् भवान् एक एव भगवन् ! नमोऽस्तु ते ॥" (कलिकालसर्वज्ञाः अयोगव्यवच्छेदद्वात्रिंशिकायाम् ॥) Page #97 -------------------------------------------------------------------------- ________________ किं श्रेष्टम् ? जीवनं मरणं वा ? प्रसङ्गाः 1 प्रत्यूषस्य वेला आसीत् । बालतरणिर्मृदुलैर्निजकरैः समग्रमपि जीवलोकं प्रबोधयन् सविलासं सुरवर्त्मनि प्रस्थित: । राजगृहनगरमपि निद्रालिङ्गनं परिहृत्य जृम्भमाणमिव शनै: शनैर्जजागार । कुतोऽपि शङ्खनादः कुतश्च घण्टानादः कुतस्तु कुक्कुटरवः कुतश्चाऽपि केकारवः श्रूयते स्म । कुतश्चित् कालागुरुधूमः कुतश्चिच्च यज्ञधूमः कुतश्चिन्महानसधूमः कुतश्चिच्च तापनिकाधूमः प्रससार । केचित् काष्ठाहरणार्थं केचित्तु प्रातर्व्यायामार्थं केचिदश्वखेलनार्थं केचिच्च शस्त्राभ्यासार्थं प्रस्थिताः । काश्चिद् देवपूजायां काश्चिच्च पाकक्रियायां काश्चिद् जलानयने काश्चिच्च पुष्पचयने प्रवृत्ताः । कुत्रचित् कर्मकरै रथ्या वीथयश्च सम्मार्ज्यन्ते स्म कुत्रचित्तु राजपुरुषै रथा गजाश्च सन्नह्यन्ते स्म । कुत्रचिद् विपणिषु निषद्या आपणाश्चोद्धाट्यन्ते स्म कुत्रचिच्च गोकुलेषु गावो महिष्यश्च दुह्यन्ते स्म । केषुचिद् गृहेषु जननीभिर्मधुरतन्द्रायां निर्भरं प्रसुप्ता: शिशव उत्थाप्यन्ते स्म केषुचिच्च गृहेषु समुत्थितानां बालानां हृद्यः कलकलः श्रूयते स्म । केषुचित् क्षेत्रेषु कर्षका लाङ्गलैर्भूमिं खेटयन्ति स्म केषुच्चि क्षेत्रेषु गोप्यो मञ्जुलं गायन्ति स्म । • मुनिकल्याणकीर्तिविजय: एवंविधे रुचिरे प्रभाते नगराद् बहिःस्थे गुणशीलचैत्योद्याने विविधशाखि शाखोद्गतानि फलानि पुष्पाणि च निरीक्षमाणस्योद्यानपालकस्य नासापुटे सहसा तीव्र: परिमल आस्फालितः, कर्णयोः सुमधुरो दिव्यध्वान उच्छलितो, नेत्रयुग्मं चाऽधरीकृतसूर्यत्विड्भिः प्रभाभिर्निमीलितम् । अनेन विस्मयापन्नः स विस्फारितदृष्ट्या इतस्ततो विलोकितवान् तावद् दूरतस्तेन गगनाङ्गणे नृत्यन्नमरीविसरो जयजयारावं कुर्वन् निर्जरनिकरश्च दृष्टः । एतेन चमत्कृतचित्तः स क्षणार्धं स्तब्ध इवाऽभवत् । तदनु " अहो ! एतत् तु बहुशो ऽनुभूतपूर्व्यह" मिति चिन्तयित्वा लब्धमहानिधान इवाऽत्यन्तं हृष्टः स झटिति नगरं प्रति धावितः । धावं धावं स राजमहालयं प्राप्तः । ८४ - Page #98 -------------------------------------------------------------------------- ________________ अतिवेगेन तमागच्छन्तं दृष्ट्वा विस्मितेन द्वारपालेन पृष्टं - 'भोः ! किमिति त्वमेवं वेगेनाऽऽगतोऽसि ? अनिष्टं तु किञ्चिन्न दृष्टम् ?' तेनोक्तं 'यदि मम पक्षद्वयमभविष्यत् तर्हि उड्डीय एव आगमिष्यम् । त्वं झटिति महाराजपादान् निवेद्य मामन्तः प्रवेशय । अतीवाऽऽवश्यक समाचारं दातुमहमागतोऽस्मि ।' ___एतन्निशम्य महाराजाज्ञां लब्ध्वा द्वारपालस्तं सभान्तः प्रावेशयत् । सोऽपि मध्येसभं गत्वा 'परमभट्टारक-निःशेषनराधिपमृगमृगाधिप-राजाधिराज-श्रीश्रीश्रीश्रेणिकबिंबिसारमहाराजपादाः सर्वदा विजयन्तेतराम्' इत्युक्त्वा सविनयं महाराजं प्राणमत् । उच्चैः श्वासोच्छासयन्तं हर्षोत्फुल्ललोचनं च । तं दृष्ट्वा श्रेणिकेन राज्ञा साश्चर्यं स पृष्टः 'भो उद्यानपालक ! केन हेतुना त्वमेतावता वेगेनाऽत्राऽऽगतोऽसि ? अत्यन्तं प्रसन्नश्च कथं दृश्यसे?' __ "कृपालवः ! किं वदामि ? हर्षेण मम हृदयं सम्पूरितं वर्तते । अद्यतनो दिवसः सौवर्णो दिवसः । अद्य जगत्पूज्या जगद्गुरवस्त्रिभुवनजनप्रतिपालका ज्ञातकुलनभोमणयश्चरमतीर्थाधिपतयः श्रीमन्तो वर्धमानमहावीरस्वामिनो ग्रामाकरनगरपुरपृथु पृथिवीं पवित्रयन्तोऽसङ्ख्येयसुरासुरैः परिकरिता गुणशीलचैत्योद्याने समुपागता विराजन्ते । अत इमं जनमानसानन्दनं समाचारं भवद्भ्यः सन्देशयितुकामोऽहं धावं धावमागतोऽस्मि ।" इत्यु द्यानपालके न तेन कथितमात्रे राजा निजसिंहासनात् सहसोत्थाय हर्षगद्गदस्वरोऽकथयदुच्चैः "किं स्वामिनः समवसृता अद्य राजगृहे ? नूनं धन्योऽहं, धन्यानि मम भागधेयानि, धन्यं चेदं राजगृहं नगरं यत्र जिनाधिपानां पादन्यासमिषेण कृपाधाराधरा ववर्षुः । विशेषेण त्वहं तवैव धन्यमानी येन सर्वप्राथम्येन प्रभूणां दर्शनं कृत्वा निजात्मा पावनीकृतः ।' इत्युक्त्वा तस्मै राजचिह्नवर्जानि सर्वाण्यपि हारप्रभृतीनि विभूषणानि प्रभूतं च धनं प्रदाय विसृष्टः सः । स्वयं च गुणशीलचैत्योद्यानदिशि स्थित्वा परमवैनयिकपूर्वं भगवत्पादान् नमस्याञ्चकार । तदनु प्रतीहारमाहूय सर्वत्र नगरे घोषयामास यत्-'अद्य महोत्सवदिनमस्ति । सर्वैरपि पौरै रमणीयाभरणनेपथ्यशालिशरीरैः सम्भूय गुणशीलचैत्योद्याने जननजरामृतिप्रभृति Page #99 -------------------------------------------------------------------------- ________________ दुःखसन्ततिछिदुराणां कर्ममर्मभिदुराणां श्रीमतां महावीरस्वामिपरमात्मनां वन्दन - पूजनार्थं समागन्तव्यम् देशनाश्रवणार्थं - इति महाराजाधिराज - परमभट्टारक- श्री श्रेणिक बिम्बिसार आज्ञापयति ।' घोषणानन्तरमेव नृपतिरपि परिहितमहार्घ्यपट्टांशुकोऽलङ्कृतश्चोत्तमैराभरणैः सेचनकवरगन्धगजारूढो महता सैन्येन महता बलेन महताऽन्तः पुरेण महता परिजनेन महता स्वजनसन्दोहेन महताऽमात्य-सामन्तादिपरिच्छदेन महता नागर-नर-नारीसमुदयेन महता - ऽऽडम्बरेण च सह जयजयनादं कुर्वाणेषु बन्दिजनेषु झटिति गुणशीलचैत्यमुद्यानं प्राप्तः । स्वल्पदूरत एव गजस्कन्धादवरुह्य पादचारेण प्रभोर्देशनाभूमिं समवसरणं समारुह्य यावत् जिनराजमुखं ददर्श तावत् तस्य रोमकण्टका विकस्वरीभूताः आनन्दाश्रुबाष्पनिवहैरक्षिणी आर्द्रीभूते, मुखाच्च सहसा 'नमो जिणाणं' इति निःसृतम् । एतावता च द्वादशाऽपि पर्षदः समवसरणमध्ये समाविविशुः । ततः सौधर्मेन्द्रेणाऽष्टोत्तरशतस्तुतिकाव्यैर्वीरपरमात्मनां स्तवनं कृतम् । यथा 'जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलस्त्रासविरहितस्त्रिभुवनचूडामणिर्वीरः ॥ १ ॥ इत्यादि । तदनु श्रेणिकेनाऽपि नरेशेन परमात्मनां गुणोत्कीर्तनं कृतम् । यथा 'लहश-वश- नमिल-शुल- शिल- विअलिद - मन्दाल-लायिदंहि-युगे । वीलयिणे पक्खालदु मम शयलमवय्ययम्बालं ॥ १ ॥ इत्यादि । ततः सर्वेष्वपि निजनिजासनसमासीनेषु भगवद्भिर्जनमनोगतसन्देहनाशिनी दुस्तरसंसारसरस्वत्समु तारणतरीकल्पा जनितघृतमधुपानाधिकमाधुर्या क्रोधाद्यान्तररिपुमर्मवेधनी धर्मदेशना समारब्धा । यथा 'जरा जाव न पीलेति वाही जाव न वड्डति । १. मागधी भाषायां पद्यमिदम् । संस्कृतच्छायाऽस्यैवम् रभसवशनम्रसुरशिरोविगलितमन्दारराजितांह्रियुगः । वीरजिन: प्रक्षालयतु मम सकलमवद्यजम्बालम् ॥ २. किल महावीरपरमात्मभिरर्धमागधीभाषायां देशना दत्तेति पद्यमिदं तस्यामेव, स्पष्टं च । - ८६ Page #100 -------------------------------------------------------------------------- ________________ जाविदिया न हायंति ताव धम्मं समायरे ।। इत्यादि । एवं तावत् प्रवर्तमाने जिनाधीशप्रवचने साञ्जलिपुटं सबहुमानं च शृण्वतीषु पर्षत्सु कुतश्चिदेकः शटितकरचरणाङ्गलिः कुत्थितनासिकौष्ठपुटो विकृतमुखलावण्यः सर्वाङ्गैर्गलत्कुष्ठः कुष्ठिकः समागतः । स तु सर्वा अपि पर्षदः समुल्लङ्घ्य भगवत्सन्निधावुपविष्टः स्वशरीरनिःसृतपूत्या च भगवतां चरणयोर्विलेपनं कर्तुमारेभे । अनेन जुगुप्साप्रेरकप्रसङ्गेन सर्वेऽपि स्तब्धा इवाऽऽकुलीभूतचित्तवृत्तयस्तमेव निनिमेषदृष्ट्याऽवलोकितवन्तः । श्रेणिकराजोऽपि रोषाविष्टमानसश्चिन्तयामास - 'अहो ! क एष दुराचारो गलत्कुष्ठकुत्थिततनुनिःसृष्टेन पूतिगन्धेन सर्वा अपि पर्षदो व्यथयन् भुवनैकबान्धवानां तीर्थकराणां एवमाशातनां विराधनां च कुरुते? अथवा करोतु किमपि तावत्, उत्थितायां पुन: धर्मदेशनायां मयाऽवश्यं निग्रहीतव्योऽयमिति ।' । अथैवंविधैर्विकल्पशतैः समाकुलमानसो यावत् तिष्ठति तावत् तेन सहसा क्षुतम् । तस्य क्षुतं श्रुत्वा कुष्ठिनोच्चैर्भणितं - 'भोः श्रेणिक ! त्वं चिराय जीव' इति । मुहूर्तान्तरं तु श्रेणिकस्य पुत्रेण महामात्यभूतेनाऽभयकुमारेण क्षुतम् । इदानीमपि कुष्ठिना भणितं - 'अभयकुमार ! त्वं जीव वा म्रियस्व वा' इति । - अथ क्षणान्तरेण तत्र स्थितेन कालसौकरिकनामसौनिकेन क्षुतम् । कुष्ठिना पुनर्भणितं - 'भोः कालसौकरिक ! त्वं मा जीव मा म्रियस्व' । समतिक्रान्तेषु च कतिचित् क्षणेषु जगद्गुरुभिरपि क्षुतम् । अनेन पुनरेकदोच्चैः कथितं 'भगवन्तः ! मियध्वम्' इति । एतच्छ्रुत्वाऽत्यन्तं जिननाथचरणभक्ततया विजृम्भितप्रबलकोपानलेन राज्ञा निजाङ्गरक्षा समादिष्टाः – 'अरे ! एनं दुराचारं प्रभुप्रत्यनीकं समाप्तायां धर्मदेशनायां निगडबन्धं बद्धवा मदन्तिके आनयथ येन दर्शयामि तस्य दुर्विनयफलमिति ।' अङ्गरक्षैस्तदङ्गीकृतम्। अथ समाप्तायां प्रहरमितायां देशनायां स्वस्थानं प्रतिष्ठत्सु च सुरनरतिर्यक्समुदायेषु सोऽपि कुष्ठी जगतो गुरून् परमादरेण प्रणम्य गन्तुकामः प्रस्थितः । ते च राजपुरुषा नृपादेशमनुसरन्तस्तं ग्रहीतुमुधुक्ता बभूवुः । यावत् ते तत्समीपं प्राप्तास्तावत् ‘एष स कुष्ठी गच्छती'ति वदतामेव ८७ Page #101 -------------------------------------------------------------------------- ________________ तेषां मरुदेशे मरीचिकाजलमिवाऽदृश्यतां गतः सः । एतेन विलक्षीभूतमानसास्ते राजानमागत्येदं निवेदयाञ्चक्रुः । राजाऽपि श्रुत्वेदमतीव विस्मितः। __अथद्वितीयदिवसे परमकौतूहलान्वितेन राज्ञा प्रस्तावे पृष्टाः परमात्मानः 'भगवन्तः ! ह्यो यौष्माकीणचरणाग्रे निषण्णोऽविभावनीयस्वरूपः कुष्ठविकृतकायः पुरुषः क आसीत् ? भगवत्पादानाशातयन्तं तं दृष्ट्वाऽहं कोपानलज्वालाभिर्दग्ध एव' इति । __ भगवद्भिरुक्तम् - 'राजन् ! स तु देव आसीत् । साम्प्रतमेव स दर्दुराङ्कनामधेये देवविमाने समुत्पन्नः ।' पुना राज्ञा पृष्टम् – 'कथङ्कारं स देवो बभूव ?' भगवद्भिरभिहितम् – 'शृणु तावत् । अस्ति कौशाम्बी नाम नगरी वत्सविषये । तत्र च शतानीको राजा प्रजाः पालयति । अथ तत्रैव नगरे सेडुकनामा द्विजोऽवात्सीत् । स च जन्मप्राप्त्यनन्तरमेव रौद्रदौर्गत्योपद्रवविद्रुतः कथं कथमपि कणवृत्त्या समयाकरोति । यौवने स खरमुखीनाम्न्या ब्राह्मण्या परिणायितः पितृभ्याम् । अथाऽन्यदा चाऽऽपन्नसत्त्वया तद्भार्यया भणितः सः - 'भोः स्वामिन् ! आसन्नः प्रसूतिकालः, गृहे च घृत-तण्डुलादीनि आवश्यकवस्तूनि न सन्ति । त्वं च सर्वथा विगतचिन्तो दृश्यसे । कमप्युद्यमं कृत्वाऽऽनय किञ्चित्' इति । तेनोक्तम् – 'भद्रे ! प्रतिदिनं भिक्षाभ्रमणेन प्रणष्टा मे बुद्धिः । किमत्र कर्तव्यमिति नैव जानेऽहम् । त्वमेव कथय मां यत् कोऽत्राऽवसरे द्रव्यार्जनस्योपायः ?' तया भणितम् - 'त्वं राजकुले गत्वा सर्वादरेण नृपति सेवस्व । तद् विनाऽस्माकं दारिद्यग्रहो नैवाऽपनेष्यति ।' श्रुत्वेदं सोऽपि तद्वचनानुवर्तितया प्रतिदिनं पुष्पप्रकरहस्तः पार्थिवं भजति । अथैकदा दैवानुकूल्येन तद्विनयेन तुष्टो राजा कथितवान् – 'भो विप्र ! प्रसन्नोऽस्मि त्वयि, मार्गयस्व यथेच्छम्' इति । "ब्राह्मणीनिर्दिष्टोपायेनैवाऽद्य मे भाग्योदयोऽभूद् ; अतस्तामेव पृष्ट्वा मार्गयिष्ये' इति विचिन्त्य तेन निवेदितो राजा - 'देव ! भार्यामापृच्छ्यऽऽगच्छामि यद्यनुमन्येथाः ।' राज्ञाऽपि Page #102 -------------------------------------------------------------------------- ________________ सोऽनुमत औदार्येण । गतो गृहम् । पृष्टा पत्नी - ‘भद्रे ! राजा तुष्टोऽस्ति । कथय किमहं प्रार्थये ततः?' ___'यदि धन-कनकादिकं लब्धाऽयं तर्हि मां विहायाऽन्यामपि परिणेष्यति' इति चिन्तयित्वा तया कथितः स यत् 'प्रतिदिनं राजमहालये भोजनं दीनारमेकं च दक्षिणायां प्रार्थयस्व, एतावन्मात्रेणैव तव प्रयोजनं सरिष्यति किमन्येन क्लेशायासैकहेतुनाऽधिकारादिना?' तद्वचनं प्रतिश्रुत्य गतः स राज्ञोऽन्तिके । निवेदितं यथातथम् । प्रतिपन्नं च सहर्षं राज्ञा । एवं प्रतिदिनं नृपगृहे भुञ्जानो दीनारं च लभमानो स महर्द्धिको जातः । इतो राजानुवृत्तितो मन्त्रि-सामन्तादिभिरन्यैरपि प्रधानजनैः स भोजनार्थमामन्त्र्यते । स च दक्षिणालोभेनैकत्र भुक्तवानपि गलेऽङ्गुलिं प्रक्षिप्य पूर्वभुक्तं वमति पुनः पुनश्चाऽपरापरगृहं गत्वा भुङ्क्ते । एवं बहुशः करणेन स कुष्ठव्याधिना जगृहे। विकृताः सर्वेऽपि तस्याऽवयवाः । ततश्च दुर्दर्शनोऽयमिति प्रतिषिद्धो राजगेहे । तत्स्थाने च तस्य ज्येष्ठपुत्रः प्रतिष्ठितः । सोऽपि प्रतिदिनं राजकुले भोजनं लभते । इतोऽयं च वेलायां भोजनमात्रमपि न लभते । पुत्रादिभिरेकान्तस्थाने परित्यक्तः स पराभूतम्मन्योऽमर्षेण चिन्तयितुमारब्धः - 'अहो ! अकृतज्ञः शाठ्यपरिपूर्णश्च मम पुत्रादिकः परिजनः यो मामेवं पराभवति । ततः करोमि तथा यथैतेषामपि मादृशी दुरवस्था स्यात् ।' ततोऽनेनाऽऽहूतो निजज्येष्ठपुत्रः । कथितं च - 'वत्स ! बहुरोगभरविधुरितस्य यौष्माकमुखकमलप्रलोकनेऽप्यसमर्थस्य मम क्षणमपि जीवितुं न युक्तम् । केवलं वत्स ! आस्माकीनकुले एष समाचारो यत् - पशुं चिरमभिमन्त्र्य विविधैर्मन्त्रैः, कुटुम्बस्य भक्षणार्थं स समर्प्यते । पश्चादात्मा उपसंहियते । एवं कृते पुत्रादिसन्ततेः कल्याणं भवति । ततः सम्पादयेर्मे एकं पशुं येनाऽहं मन्त्रजातैस्तमभिमन्त्रये ।' एतच्छ्रुत्वा प्रसन्नचित्तेन पुत्रेणाऽऽनीत एकोऽजः। इत: सेडुकेनाऽपि घृतादिना स्वकायमभ्यञ्ज्य ततो निःसृतेन पूतिना यवसादिकं मेलयित्वा प्रत्यहं स भोजितः । एवंकरणेन कुष्ठव्याधिः संचारितस्तस्य देहे । क्रमेण कुष्ठसम्भिन्नगात्रं तं छागं ज्ञात्वाऽऽहूतस्तेन ज्येष्ठपुत्रः । भणितश्च – 'पुत्र ! एष छागो मयाऽभिमन्त्रितो वर्तते । Page #103 -------------------------------------------------------------------------- ________________ अती भवान् सस्वजनपरिजन एतन्मांसं भक्षयतु येन कल्याणभागी भविष्यसि । इतोऽहमपि देहत्यागं करोमि ।' पुत्रेणाऽपि तद्वचनमनुसृत्य परिवारजनयुतेन छागमांसं भक्षितम् । तेन च सपरिवारस्याऽपि तस्य कुष्ठरोगः सङ्क्रान्तः । अनेन प्रहृष्टहृदयः सोऽपि नगरान्निष्क्रान्तः । प्राप्तः क्रमेण महाटवीम् । तत्र ग्रीष्मर्तुवशात् क्लान्तदेहस्तृषाशुष्ककण्टश्च जलान्वेषणार्थमितस्ततो बभ्राम । ददशैकं गिरिनिकुञ्ज, तत्र च विचित्रकषायतरुविशेषाणां पत्रपुष्पफलादिभ्यो निर्गतै रसैः पक्वं पानीयं दृष्टवान् । तत् तेनाऽऽकण्ठं पीतम् । तद्वशेन जातोऽस्य विरेकः । एतेन कुष्ठरोगकारीणि कृमिजालानि बहिः निपतितानि । शरीरं शुद्धीभवितुमारब्धम् । एतद् दृष्ट्वा स तत्रैव उषित्वा प्रतिदिनं तत्पानं चकार । क्रमेण प्रणष्टकुष्ठव्याधिः ससुवर्णवर्णशरीरो जातः । __ ततो निवर्त्य गतः स्वगृहम् । तत्र च गलत्कुष्ठविनष्टशरीरं स्वजनवर्गं प्रेक्ष्य सामर्षमुपालब्धवान् - 'अरे ! दृष्टं निजदुविलसितस्य कटुफलम् ? एषोऽहं नीरोगो जातः, भवन्तश्च व्याधिग्रस्ताः !' इति । ततः सर्वोऽपि पूर्ववृत्तान्तस्तेन कथितः । एतदाकर्ण्य जातक्रोधास्ते तमाचुकुशुः, यथा - 'रे पाप ! निघृण ! किरातजनसमशील ! ईदृशमसमञ्जसं कृत्वाऽपि कथं निजवदनं दर्शयितुमत्राऽऽगतोऽसि त्वम् ? चाण्डालानामपि अनुचितमिदं कर्म आचरता त्वया निजवंशो मलिनीकृतः, कुलं च नरके पातितम् । स्वकरवधितो विषतरुरपि उच्छेत्तुं न युक्तः इति प्रवादोऽपि न सम्भावितस्त्वया ?' इत्येवं गृहजनेन बहुविधैर्दुर्वचनैः सन्तप्तो विप्रस्तत्क्षणमेव नगरान्निष्क्रम्य सम्प्राप्त इदं नगरम् । क्षुधाभिहतत्वात् स नगरद्वारपालान्तिकं गत्वा भोजनमयाचत । तेनाऽपि किञ्चिद् भोज्यजातं दत्त्वा कथितं - 'भो द्विज ! त्वमत्रैव द्वारदेवतायतने तिष्ठ यावदहं भगवन्तं श्रीमहावीरस्वामिनं प्रणम्याऽऽगच्छामि' । 'भवतु' इति तेनोक्ते द्वारपालोऽत्र मम वन्दनार्थमागतः।। इतोऽयं नगरद्वारदेवतामन्दिरे यावदुपविष्टस्तावत् पर्वविशेषदिनत्वात् पौरनार्य आगत्य बलिनैवेद्यादिकैर्देवतां पूजयाञ्चक्रुः । तद् दृष्ट्वा क्षुधितेन तेनाऽऽहारलोलुपतया मात्रातिरिक्तं भुक्तम् । ततः समुत्पन्नतृष्णो जलमन्विष्य यावत् पिबति तावत् अतिभृतत्वादुदरस्य जलं Page #104 -------------------------------------------------------------------------- ________________ वान्तिपथेन बहिरागतं तस्य च कुक्षिशूलं समुत्पन्नम् । स च तृषापीडितकण्ठो जलस्यैव चिन्तनं कुर्वाणोऽसहिष्णुत्वादुदरशूलस्य समाप्तत्वाच्चाऽऽयुषोऽपध्यानेन मृति प्राप्तः । ततोऽस्मिन्नव नगरपरिसरे प्रचुरजलापूर्णायां वाप्यां दर्दुरत्वेन समुत्पन्नः । जातमात्रोऽपि स उत्प्लुत्य यावद् बहिरागतस्तावत् तेन जलाहरणार्थमागतानां वनितानां परस्परोल्लापाः श्रुता यथा – 'हले ! हले ! द्रुतं मे मार्ग प्रयच्छ येन कृतकर्तव्याऽहं झटिति भगवन्तं महावीरं वन्दितुं गच्छेयम्' इति । एतच्छ्रुत्वा 'मया क्वचिदेष शब्दः श्रुतपूर्वः । किन्तु क्व श्रुतः ?' इत्यादि चिन्तयत ऊहापोहं च कुर्वतस्तस्य मण्डूकस्य पूर्वजन्मनः स्मृतिरुत्पन्ना । जातिस्मरणेन च पूर्वभवस्य सर्वोऽपि वृत्तान्तो ज्ञातः । चिन्तितं च 'अहो ! अकृतसुकृतकर्माऽहं तदा जलाध्यवसाये एव मृत्वाऽधुना मण्डूकत्वेन समुत्पन्नोऽस्मि । अतोऽद्य किञ्चित् पुण्यमुपार्जयामि भगवत्पादान् वन्दयित्वा' इति । ___ ततस्तत्क्षणमेव सोऽपूर्वभक्तिसमुल्लसितमानसो वाप्या निःसृत्याऽत्राऽऽगन्तुं राजमार्गेण यावत् प्रवृत्तः तावत् तव तरलतुरङ्गमस्य खरखुरप्रहारेण जर्जरितशरीरो नितरां शुभाध्यवसायवशेन मृतः । मृत्वा च सम्प्रति दर्दुराङ्कनाम्नि देवविमाने देवत्वेनोत्पन्नोऽस्ति । स दिव्यज्ञानेन पूर्वव्यतिकरं ज्ञात्वा सहसा कुष्ठिरूपं धारयित्वा मम वन्दनार्थमागतो गोशीर्षचन्दनेन च मदीयं देहं विलिलेप।' ___ एतच्छ्रुत्वा सन्तुष्टेन श्रेणिकेन पुनरपि पृष्टम् – 'किन्तु भगवन्तः ! यदाऽस्माभिश्चतुर्भिः क्षुतं तदा तेन किमर्थमेवमसमञ्जसतया प्रलपितम् ? महत् कुतूहलं मेऽस्य रहस्यं श्रोतुम्' इति। ___ परमात्मभिरुदीरितं - 'नाऽत्र किमप्यसमञ्जसम् । शृणु कारणमेतस्याऽपि । त्वं हि जीवन् विपुलं राज्यसुखमनुभवसि किन्तु यदा त्वं मरिष्यसि तदा नरकं गमिष्यसि । अत इदमेव मनस्याधाय क्षुते त्वया तेन देवेन - "चिराय जीव' इति भणितं, यतो मरणानन्तरं त्वया भृशं दुःखं सोढव्यम् । अत्र जीवता हि सुखमेव भोक्तव्यम् । अभयकुमारेण क्षुते तेन देवेन ‘जीव वा म्रियस्व वा' इति यदुक्तं तत्रेदं निमित्तम् । ९१ Page #105 -------------------------------------------------------------------------- ________________ अभयकुमारस्तु इह धर्मनिरतः पापविरतश्चाऽस्ति । अतो जीवतस्तस्याऽत्र राज्यलक्ष्मीभोगो मरणानन्तरं च निर्वाणम् । कालसौकरिकः सौनिकस्तु जीवताऽपीह प्रत्यहमनेकनिरपराधप्राणिगणं घातयन् बहु पापमर्जयति, मृतः पुनर्नियमेन नरके उत्पद्य दुरन्तदुःखानि सहिष्यते । अतस्तेन क्षुते देवेन करुणया 'मा जीव माऽपि म्रियस्व' इति भणितम् । यच्च मया क्षुते तेन भणितं 'म्रियस्व' इति तत्राऽपि कारणमिदं यत् - भगवान् ! भवान् इह विविधविपत्तिविसंस्थुले मर्त्यलोके किमिति वसति ? मानुषं शरीरं त्यक्त्वा किमर्थं शाश्वतमेकान्तसुखं च मोक्षं न गच्छति ?' इति । ___ 'अतः केषाञ्चिज्जीवितं श्रेष्ठं, केषाञ्चित् तु मरणं श्रेष्ठम् । केषाञ्चित् तूभयमपि श्रेष्ठं तथा केषाञ्चिदुभयमपि कनिष्ठम् ।' भगवतां श्रीमुखादिदं स्पष्टीकरणं श्रुत्वा सञ्जातसन्तोषोऽपि श्रेणिको नृपः स्वीयनरकगामित्वं विज्ञाय गाढमुद्विवेज शोकावेगेन च भणितवान् - 'भगवन् ! समग्रभुवनत्रयरक्षावबद्धलक्ष्ये भवति मम स्वामिन्यपि मया नरके गन्तव्यम् ? नूनं निरर्थकं मम जीवितं यस्य मन्दभाग्यशिरोमणेरीदृशीसामग्रीसत्त्वेऽपि दुर्गतिर्भविष्यति अतो धिङ् माम् ।' शोकाकुलस्य तस्य नृपतेर्वचनानि श्रुत्वा करुणाभरमन्थरनेत्रेण भणितं भगवता - 'भो महानुभाव ! किमिति सन्तापमुद्वहसि ? यद्यपि त्वं नरके निपतिष्यसि तथाऽपि भवेऽत्र कृताया उत्तमायास्तीर्थकरभक्त्याः प्रभावेण नरकादुद्वाऽऽगामिन्यामुत्सर्पिण्यां त्वं पद्मनाभो नाम प्रथमतीर्थकरो भविष्यसि । अतोऽलं शोकेन' इति । एतन्निशम्य प्रहृष्टो राजा नरकपातदुःखानि विस्मृत्य भगवतां भावसारां स्तुतिं कृत्वा नगरं प्रतिनिवृत्तः। इतो भगवन्तोऽपि बहून् जनान् मोक्षमार्गमुपदिश्य प्रतिबोधयित्वा दीक्षयित्वा च क्रमेणाऽन्यत्र विहृताः। (आधारग्रन्थः - सिरिगुणचंदगणिविरइयं सिरिवीरजिणचरियं ।) ९२ Page #106 -------------------------------------------------------------------------- ________________ “भगवतो महावीरस्य सप्तविंशतेर्भवानां विश्लेषणम्" सा. युगन्धराश्री महावीरस्वामिभगवतां सप्तविंशतेर्भवेभ्यो देवस्य दश भवाः, मनुजस्य चतुर्दश भवाः, तिरश्चः एको भवः, नारकस्य द्वौ भवौ एवं सप्तविंशतिभवाः सन्ति । तत्र देवस्य दशभवा ईदृशाः सन्ति । (१) द्वितीयभवे प्रथमः सौधर्मदेवलोकः । (२) चतुर्थभवे पञ्चमः ब्रह्मलोकः । (३) सप्तमभवे प्रथमः सौधर्मदेवलोकः । (४) नवमभवे द्वितीयः ईशानदेवलोकः । (५) एकादशभवे तृतीयः सनत्कुमारदेवलोकः । (६) त्रयोदशभवे चतुर्थो माहेन्द्रदेवलोकः । (७) पञ्चदशभवे पञ्चमो ब्रह्मलोकः । (८) सप्तदशभवे सप्तमो महाशुक्रदेवलोकः । (९) चतुर्विंशतितमभवे सप्तमो महाशुक्रदेवलोकः । (१०) षड्विशतितमभवे दशमः प्राणतदेवलोकः । मानुषस्य चतुर्दशभ्यो भवेभ्यः षड् भवाः ब्राह्मणकुलेऽभवन्, ते भवा ईदृशाः सन्ति । (१) पञ्चमे भवे कौशिको ब्राह्मणः । (२) षष्ठे भवे पुष्यमित्रो ब्राह्मणः । (३) अष्टमे भवे अग्निद्योतो ब्राह्मणः । (४) दशमे भवे अग्निभूतिः ब्राह्मणः । ९३ Page #107 -------------------------------------------------------------------------- ________________ - (५) द्वाद्वशे भवे भारद्वाजो ब्राह्मणः । (६) चतुर्दशे भवे स्थावरो ब्राह्मणः । मनुष्यस्य चतुर्दशभ्यो भवेभ्यः षड्भवेषु दीक्षां गृहीतवान् प्रभुजीवः । (१) तृतीयो मरीचिनाम राजकुमारस्य भवः । (२) षोडशो विश्वभूतिराजकुमारस्य भवः । (३) द्वाविंशो विमलकुमारनृपस्य भवः । (४) त्रयोविंशो प्रियमित्रचक्रवतिनो भवः । (५) पञ्चविंशो नन्दनराजकुमारस्य भवः । (६) सप्तविंशो तीर्थकरमहावीरस्वामिनो भवः । शेषौ द्वौ भवौ। (१) प्रथमो नयसारस्य भवः । (२) अष्टादशः त्रिपृष्ठवासुदेवस्य भवः । तिरश्चः एको भव एवास्ति । (१) विंशतितमो भवो सिंहस्य । नरकस्य द्वौ भवौ ईदृशौ। (१) नवदशे भवे सप्तमनरकः । (२) एकविंशे भवे चतुर्थनरकः । Page #108 -------------------------------------------------------------------------- ________________ पत्रम् सहृदय - मित्रमुनिवरं प्रति अनुवन्दनम् ! किं कुशली भवान् ? देव - गुरु- धर्मप्रसादतो वयमत्र सर्वे ससातं वर्तामहे । विहारयात्राऽपि सुखपूर्वकं प्रवर्तमानाऽस्ति । भगवता महावीरेण प्ररूपितानां आचाराणां यदा विचारः क्रियते तदा तु शिर: सबहुमानं तस्य भगवतः चरणयोः नुतिं विधत्ते । कीदृशा धन्याः स्मो वयं यदीदृशः आचारधर्मः प्राप्तोऽस्माभिः इत्येव विचारः प्रवर्तते सततम् । संयमजीवनस्य आराधकाः स्मो वयं सर्वे । मुनिरत्नकीर्तिविजयः चारित्रस्य आराधकानां अस्माकं कृते एतद् वर्ष चिन्तनस्य अवसररूपमस्ति । नाऽत्र कर्तव्या भगवतो महावीरस्य साधनया सहाऽस्माकं साधनयाः तुलना । भगवत उपदेशेनैव सार्द्धं केवलमस्माकं आचारः परीक्षणीयः । भगवतो महावीरस्य शासनं केवलं क्रियाप्रधानं यथा नास्ति तथा केवलं ज्ञानप्रधानमपि तन्नास्ति । उभयोरपि तत्र प्राधान्यं वर्तते । उक्तमपि "ज्ञानक्रियाभ्यां मोक्षः" इति । ज्ञानयोगो यदा साधकं क्रियायोगे प्रवर्तयेत् - क्रियायोगश्च तस्य साधकस्य ज्ञानयोगं अधिकतरं निर्मलं यदि कुर्यात् तर्ह्येव स मोक्षमार्गो भवति । ज्ञानरहिता क्रिया कायक्लेशस्वरूपमादधाति, क्रियाशून्यं च ज्ञानं दम्भाहङ्कारजाड्यदिकं प्रति नयति । ज्ञानं यदि प्रकाशः तर्हि क्रिया तु मार्गः । प्रकाशं विना मार्गः अकिञ्चित्करः, मार्गं विना च प्रकाशोऽपि तादृश एव । अन्यदृष्ट्या तु, ज्ञानं यदि मार्गः तर्हि क्रिया तु गतिरूपा अस्ति । सन्मार्गशून्या एकाकिनी गतिर्यथा लक्ष्यं न प्रापयति तथा गतिविहिन एकाकिनः सन्मार्गोऽपि लक्ष्यं न प्रापयति । 1 ९५ Page #109 -------------------------------------------------------------------------- ________________ ज्ञानक्रिययोः उभयोरपि अद्भुतः समन्वयः कृतो भगवता महावीरेण । किन्तु वर्तमानकाले अत्यन्तं अल्पप्रमाणं स अस्मासु दृश्यते । ज्ञानं चिन्तने - विचारे प्रेरकं भवति । आचरणं तु श्रद्धासंवर्धकं भवति । चिन्तनं यदि बुद्धेः परीक्षकं तदा आचरणं श्रद्धायाः परीक्षकम् । किं लक्ष्यमस्माकं ज्ञानस्य चिन्तनस्य विचाराणां वा? इत्यस्योपरि अवलम्बते अस्माकं ज्ञानस्य साधनाजीवनस्याऽऽधारः । सत्यस्य पक्षपाति अपि चिन्तनं केवलं अभिव्यक्तिलक्षि सञ्जायते किन्तु यदि अनुभूतौ न तत् प्रेरकं भवति तदा प्रभूतं विनाशयामः । भगवतो महावीरस्य आज्ञायाः प्रधानो ध्वनिरपि प्रथमं आचरणस्य अनुभूतेर्वा अस्ति, अभिव्यक्तिस्तु तत्र गौणत्वं भजते । शोभनानामपि विचाराणां अभिव्यक्तिः अन्येषां लाभकारिणी भवेदपि कदाचित् तथापि ततो मम को लाभविशेषः समुत्पन्नः ? इति तु मया एव विचारणीयम् । मार्गस्य एकप्रदेशे स्थित्वा - अन्ये जना मार्गे प्रवर्तिव्या मया च तत्रैव स्थातव्यम् - इत्यत्र किं चातुर्यम् ? चातुर्यं तु तत्र यदाऽहं सर्वेभ्यो मम अनुसरणे प्रेरयेयम्, मयाऽपि गन्तव्यम् अन्यैः सर्वैरपि गन्तव्यम् । ___ अत्र चिन्तनं यदि अनुभूतिलक्षि भवेत् तद्येव एषा स्थितिः सञ्जायेत किन्तु अभिव्यक्तिलक्षि एव यदि तत् स्यात् तर्हि मार्गस्य एकस्मिन् प्रदेशे स्थित्वा मार्गदर्शनमिव सङ्घटेत । किमस्मभ्यं रोचते ? अथवा तु किमत्र अस्माभिः चयनीयम् ? भगवतोऽप्येषा एव उक्तिर्यद् - "भवान् स्वयमेव परिपूर्णो भवतु पश्चाच्च अन्येभ्यो मार्ग दर्शयतु, अथवा तु यद् भवान् विचारयति तन्मार्गेण स्वयं गच्छतु सार्धमेव चाऽन्यानपि प्रेरयतु । केवलमभिव्यक्त्या तु 'किञ्चित् मया कृतम्' इति मिथ्याभिमान एव पुष्यते किन्तु न लक्ष्य प्राप्तिं भवति । लक्ष्यंतु गत्या एव प्राप्तुं शक्यम् ।" विचाराणां गगनविहारात् वास्तविक एकोऽपि पदन्यासः अत्यन्तं दुष्करो भवति । प्रत्येकं अवस्थया वा स्थित्या वाऽनुरूपं विचाराणां आन्दोलनं प्रवर्तत एव मनुष्येषु । तेभ्य एव आन्दोलनेभ्यो जीवनं सृज्यते । तादृशे सर्जने किन्तु प्रबलः पुरुषार्थः अनिवार्यः । पुरुषार्थं विना केवलं विचारा न जीवनस्य सुष्ठ सर्जने समर्था भवन्ति । विचारास्तु पुरुषार्थे यदि ९६ Page #110 -------------------------------------------------------------------------- ________________ प्रेरका भवेयुः तदैव वास्तविकी उन्नतिः सिद्ध्यति । ___ नास्ति किञ्चिदपि मूल्यं भौतिकोन्नतेः अस्मिन् त्यागप्रधाने जीवने । बहुश एवं भवति यत् कुत्र विचाराः क्व च जीवनम्? समत्वमेव तत्र विधातुं न शक्यते। विचाराणां आचाररूपेण परिवर्तनस्य पूर्वमेव काचित् परिस्थिति: मनोऽधीनयति । पश्चाच्च तत्परिस्थितेः विचाराणां च मध्ये सङ्घर्षः समुत्पद्यते । कस्तत्र जयति ? तत्तु प्रतीतमेवाऽस्माकं सर्वेषां अनुभवेन । विचाराणां आचारे परिवर्तनं त्वत्यन्तं सङ्घर्षपूर्णा घटना । यश्च तत्कर्तुं प्रभवति स एवाऽस्य साधनाजीवनस्य वास्तविकं लाभं प्राप्नोति । स एव च महान् भवति । यश्च पुनः जीयते तत्र सङ्घर्षे तदर्थं तु जीवनस्य पुनरावर्तनमेवाऽवशिष्यते, यच्च वयं कुर्महे एव। __ भृशं रुचिकारिणी भवति वैचारिकी सृष्टिः । तत्र विहरणमपि अस्माकं सर्वेषामर्थे प्रीतिपदं भवति । किन्तु सावधानेन तत्र स्थातव्यम्, यतः सा यावती रुचिकारिणी भवति तावती भ्रमकारिण्यपि भवत्येव । कदा साऽस्माकं आत्मश्लाघायाः, कीर्तेरभिलाषस्य, दम्भस्य, अहङ्कारस्य वा गर्तायां पातयेत् इति तु न निश्चितम् । प्रथममेव उक्तं यत् ज्ञानं चिन्तने विचारेषु च प्रेरयति । पश्चाच्च तस्य द्वे एव गती भवतः- एकाऽभिव्यक्तिः - उच्चारणम्, अपरा चाऽनुभूतिः - आचरणम्, इति । ज्ञानेन विचारक्षेत्रे प्रकाशितं सत्यं यावन्न आचारत्वेन प्रवर्तते न तावत् तत् सम्पूर्णमपि भवति सम्पूर्णं च फलमपि न तद्ददाति । ज्ञानेन चित्ते प्रकाशितस्य सत्यस्य आचारे परिणमनमेव साधुजीवनं खलु । ___ अभिव्यक्तिः भौतिकताऽस्ति, अनुभूतिस्तु पुनरध्यात्मम् । भौतिकताया मोह : अध्यात्मपथात् च्यावयति । पश्चादुच्चारणे एव प्रवर्तनं भवति नाऽऽचरणे । साधुजीवनं नाम साधनाजीवनम् । तत्तु कर्तव्यप्रधानं जीवनं न तु वक्तव्यप्रधानम् । साधना कदापि वाचाला न भवति । तत्तु दूषणं साधनाजीवस्य । साधना यदा कदाचिदपि यदि वाचाला भवेत् तदा ततः आध्यात्मिकताया हासो भवति, गते काले च सा साधना केवलं श्रमरूपा अज्ञानकष्टरूपा वा एव संतिष्ठते ; यस्याः फलश्रुतिस्तु स्वल्पाया भौतिकप्राप्त्या अधिकी न काऽपि विद्यते । अत्र न कोऽपि निषेधः कृतोऽभिव्यक्तेः किन्तु सा अनुभूतिगर्भा यदि स्यात् तदैव ९७ Page #111 -------------------------------------------------------------------------- ________________ स्वपरोभयकल्याणकारिणी च स्यात् । तदेव चाऽस्माकं सर्वेषां कर्तव्यमपि । ___ एतत् सर्व विचार्य स्वयं स्वः एवाऽत्र संशोधनीयः यत्, 'कुत्राऽस्म्यहम् ? एतादृशः कोऽपि भौतिकताया मोहो मयि उत्थितः किम् ?' स मोहः संशोधनीयः पश्चात् स्वीकरणीयः अन्ततोगत्वा च विमोचनीयोऽपि । अस्मासु सर्वेष्वपि केनाऽप्यंशेन एष मोहो विद्यते एव । सर्व अन्तश्चित्ते स्पष्टमेव दृश्यते । यद् विचार्यते यच्च उच्यते तत् स्वस्यार्थे किं न ज्ञायते ? ज्ञायत एव । अस्त्यस्माकं पार्वे भगवता महावीरेण प्रदत्तं सम्यग् ज्ञानम्, तस्य माध्यमेन उद्भवन् विचाराणां प्रकाशः सर्वानपि मार्गान् प्रकाशयत्येव । केवलं सत्यमुपलक्ष्य तन्मार्गे पुरुषार्थ एव विधेयोऽस्माभिरधुना । अद्य सङ्कल्पः करणीयोऽस्माभिः - "केवलं अभिव्यक्तेः क्षणजीविनं तुच्छं च मोहं चित्तादपसार्य अनुभूतिं सम्प्राप्य ज्ञानक्रिययोः समन्वयः साधयिष्यामः" इति। प्रभूतं लिखितं, अधुना विरमामि । Page #112 -------------------------------------------------------------------------- ________________ मुनिधर्मकीर्तिविजयः। भय नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । तव कुशलं कामये । अत्र सर्वेऽपि मुनिवराः कुशलाः सन्ति । गतपत्रे मनसः स्थैर्यार्थमुपायाः प्रदर्शिताः । त्वयाऽऽनन्दः प्राप्त इति ज्ञात्वाऽतीव प्रफुल्लितमभूत् मेऽपि चित्तम् । साम्प्रतं त्वया पृष्टं यन्मनो लाभदायि वाऽलाभदायि? बन्धो ! एतत्तु निश्चितमेव यन्निखिलसंसारपरिभ्रमणस्य मूलं मन एव नान्यत् यतो, मन एव तर्ककुतर्कवितकाद्यकुशलविकल्पजालं निरन्तरं रचयति । तत्कुशलाकुशलयोगात् शुभमशुभं वा कर्म बध्नाति । तत्कर्मणः फलानुसारेण जीवाः संसारचक्रे भ्रमन्ति । अशुभकर्मोदयात् कदाचिन्नरकगतौ कदाचित् तिर्यग्गतौ च प्रसरन्ति जीवाः । तथैव शुभकर्मवशाद्देवमनुजगत्योः जीवा गच्छन्ति । मनुजगतिमवाप्य प्रकृष्टधर्मसाधनाद्वारेण कर्मावलिं क्षपयित्वा शिवमपि संगच्छन्ते सुलभबोधिजीवाः । एवं भिन्न-भिन्नापेक्षया मनो लाभदायि अलाभदायि चाऽपि । मन एव मनुष्याणां बन्धमोक्षयोः कारणमिति शास्त्रेष्वपि वर्णितम्। इदमप्यत्र ज्ञेयं यद् वस्तुतस्तु आत्मा विशुद्धस्फटिकवन्निर्मल एवाऽस्ति । तथाऽपि यथा स्फटिकस्याने स्थापितस्य नीलवस्तुनः प्रभावात् श्वेतस्फटिकमपि नीलं तथा रक्तपुष्पस्य संपर्कात् रक्तस्फटिकं दृश्यते खलु । अत्रात्मनोऽपि ज्ञेयमेवमेव यदात्मा निर्मल एवाऽस्ति, किन्तु मनस्युद्भवद्भिः प्रशस्तैरप्रशस्तैश्च भावैः कुशलमकुशलं कर्मवृन्दं बध्नाति । ततः तत्कर्मणो वशादात्मनि रागद्वेषयोः परिणतिः प्रजायते । ___ एतेन ज्ञायते यदशुभालम्बनेन चित्तं कालुष्यमवाप्नोति तथा शुभालम्बनेन मनो निर्मलतां प्राप्नोति । एवमार्तरौद्रध्यानाभ्यां कलुषितं चित्तमलाभदायि तथा धर्मशुक्लध्यानाभ्यां विशुद्धमानसं लाभदायि भवति । ९९ Page #113 -------------------------------------------------------------------------- ________________ किञ्च-सामर्थ्यमचिन्त्यं चित्तस्य । अशक्यमस्मादृशैः जीवैः तज्ज्ञातुम् । ततः प्रतिक्षणं सावधानेन स्थातव्यम् । मित्र ! त्वं त्वतीव क्रिकेटरसिकोऽसि, ततस्त्वया दृष्टैव भवेत् क्रिकेटक्रीडा। भवेयुः कीदृशा अवधानान्विताः क्रिकेटक्रीडकाः। सर्वसमयं सावधानाःस्युः । प्रतिगेन्दुकं खेलयितुं कियदेकाग्यं ते रचयेरन् । गेन्दुको दक्षिणदिशः (on ofside) आगमिष्यति, वामदिशः (on the legside) आगमिष्यति, उपरिष्टात् (Bouncer) आगमिष्यति अथवा पुरस्तात् (Fultoss, Yorker) आगमिष्यतीति ज्ञातुं क्रीडका अतीव सावधानं भवन्ति; यतो यदि किञ्चिदप्यनवहितं कृतं स्यात्तर्हि किक्रेटक्षेत्राबहिरेव तेन गन्तव्यं स्यात् । तथैव जीवेनाऽपि प्रतिक्षणं अवधानयुक्ते न स्थातव्यम् । प्रतिक्षणमस्माकं समक्षमपि नै कानि दुष्टनिमित्तान्यागच्छन्ति । कदाचिद्रागस्य मोहस्य द्वेषस्य कषायस्य च निमित्तानि, एवमनेकानि दुष्टान्यालम्बनानि प्राप्यन्ते एव । यदि जीवः तादृशे दुष्टनिमित्तजाले मुहयेत् तर्हि दुर्गतौ एव स गच्छेत् । प्रियवर ! मनसो मायापाशे न केवलं प्राकृतजना अपि तु प्राज्ञपुरुषा उत्तमजनाः साधुवरा अपि वेष्टिता भवन्ति दैववशात् कदाचित् । एकदाऽप्यशुभमानसस्य विकल्पपाशे पतितैः जनैः ततो बहिर्निर्गन्तुं दुःशक्यं भवति, यथा मक्षिकाभिः श्लेष्मणः । ततो दुष्टालम्बनेभ्यो दूर वसनमेव हितकरं प्रशंसनीयं चास्ति । येनाऽनवधानं कृतं क्षणमपि तस्य का गतिः भूतेति ज्ञातुमनेके प्रसङ्गाः सन्ति, परंतु इदानीं त्रैलोक्याधिपतिश्रीमहावीरजिनेश्वरस्य षड्विंशतिशततमं जन्मवर्ष प्रचलति, अत: तस्यैवाऽन्तेवासिनः श्रीप्रसन्नचन्द्रराजर्षेः प्रसङ्गोऽवलोकनीयः । आसीत् प्रसन्नचन्द्रो राजपुत्रः । तस्य पित्रा ज्येष्ठभ्रात्रा चाङ्गीकृता तापसदीक्षा। अतः स एव राज्यस्याऽधिपतिरासीत् । यौवने प्राप्ते सति राजकन्यया सह पाणिग्रहणं कृतम् । राज्यसुखं कामसुखं भोगविलासं चाऽनुभवतः तस्य राज्या यथाकालमजनिष्ट एकः पुत्रः । एकदा घटिता घटना विचित्रा । तद्वशात् तस्य मनः संसारसुखाद् विरक्तं जातम् । चित्ते वैराग्यभावना प्रजाता। अभूदुत्सुकं तस्य चित्तं संयम स्वीकर्तुम् । ततस्तेन स्वयमेवाऽल्पवयस्कं निजबालकं राजसिंहासने स्थापयित्वा अशरण्यजीवानां शरणदातुः श्रीमहावीरस्वामिनः १०० Page #114 -------------------------------------------------------------------------- ________________ शरणमुररीकृतम्। तत्पश्चात् स्वाध्याये तपसि भक्तौ शुभध्याने कठोरसंयमाराधानायां च निमग्नो बभूव स राजर्षिः । एवं कियत्कालादेव निर्मलसंयमजीवनाराधनया योग्यतामवाप्य झटिति क्लिष्टकर्मक्षयार्थं गुर्वाज्ञया श्मशाने गतवान् राजर्षिः । तत्रगत्वाऽतीव घोरं तपो ध्यानं चादृतं तेन । पादस्योपरि पाद आरोहितः, द्वावपि हस्तौ ऊर्वीकृतौ तथा दिनकरं प्रति दृष्टिः स्थिरीकृता, एतादृश्यां परिस्थित्यां स राजर्षिः कायोत्सर्गध्याने स्थितः । न केनाऽपि सह वदति, न हसति, न पश्यति, न मनागपि चलति, एवं निजशरीरस्य समस्तामपि क्रियां विस्मृत्य केवलं धर्मध्यानशुक्लध्यानयोरेव रममाणोऽभवत् । एवं कियान् कालो व्यतीतः । अत्रान्तरं सपरिकरो मगधराज्याधिपतिः श्रीश्रेणिकमहाराजो जगन्नाथश्रीवीरविभोः वन्दनार्थं मधुरदेशनाश्रवणार्थं च निर्गच्छन्नासीत् । तदा तस्य दृष्टिपथे एष राजर्षिः आगतवान् । राजर्षेः प्रशान्तरसनिमग्नं वदनारविन्दं अपूर्वतेजोन्वितं देहमेतादृशीं परमोत्कृष्टां साधनावस्थां च निरीक्ष्य तस्य श्रीश्रेणिकमहाराजस्य चित्ते साश्चर्यमानन्द उद्भूतः । मनस्यहोभावश्च संजातः । कायोत्सर्गे स्थितं तं राजर्षि पुनः पुनः नमस्कृत्य तूष्णीभावेन स्थितः कियत्क्षणम् । पश्चादेतन्मुनेः प्रवरसाधनाया अनुमोदनां कुर्वता तेन श्रेणिकमहाराजेन श्रीमहावीरविभोः सुखदायिसांनिध्यं प्राप्तम् । प्रभोः पापकलङ्कनाशिनीं मधुरां वैराग्यदेशनां च श्रुतवान् । . प्रान्ते तेन राज्ञा पृष्टम् – भो ! भो ! विभो ! दृष्टो यो राजर्षिः मया मार्गे उत्कृष्टसाधनायां लीनः इदानीं यदि स म्रियेत तर्हि कुत्रोत्पद्येत? प्रभुराह- भो ! श्रेणिक ! अधुना यदि स म्रियेत तर्हि सप्तमे नरके उत्पद्येत । आश्चर्योत्पन्नकारकं प्रभोरेतादृग्वचनं निशम्य स्तब्धीभूतेन राज्ञा पुनः पृष्टम्-प्रभो ! कथमेवम् ? भगवता गदितं – राजन् ! श्रृणु । एतेन राजर्षिणा निखिलमपि संसारं विहाय दीक्षा कक्षीकृता । शनैः शनैः स परम साधनायाः मार्गमारूढः । कर्मक्षयार्थं कायोत्सर्गे स्थित आसीत् स राजर्षिः । साम्प्रतं यदा त्वं ससैन्यं वन्दनार्थमागच्छेः तदैतं मुनि निरीक्ष्य सुमुखनामकः चमूपतिरुवाच- अहो ! खलु एष मुनिः धन्यवादार्हः, योवनवयस्येव राज्यं कुटुम्बं १०१ Page #115 -------------------------------------------------------------------------- ________________ कामसुखादिकं च विसृज्य संयमः स्वीचकार, सत्यमेव खलु स्वजन्म यथार्थं कृतमनेन निजदेहस्याऽपि ममतां विहाय कर्मनिर्जरार्थं निर्जनं वनमागत्य एतादृशी परमोत्कृष्टसाधनाऽऽदृता इति । ___तदाऽन्यो दुर्मुखनामकाधिपतिरवदत्-त्वं कथमालजालं वदसि, एष मुनिस्तु निर्लज्जो दयाविहीनश्चाऽस्ति । एष तु स्वार्थपरायणो महाधूर्तोऽस्ति, यतः तेन राज्यस्य महानपराधः कृतः । स्वस्य बालकं राज्यं परिवारं च निराधारं विमुच्यतेन दीक्षा स्वीकृता । ततो नाथविहीने राज्ये सर्वेऽपि प्रधानाधिकारिणो 'ऽहंराजा अहं देशरक्षकः' इति मत्वा परस्परं कलहं कुर्वन्ति । अतो राज्यकार्यं मन्दं विज्ञाय अन्येऽपि राजानो मन्त्रिणश्च सर्वमपि राज्यं बालकं चात्मसात् करिष्यन्तीत्यतोऽनेन न सम्यक् कृतम् । __ पतितं कर्णपथे राजर्षेः दुर्मुखस्यैतादृशं वचनं, श्रुत्वा चाभूत् तस्य चित्तं क्षुब्धम्, आन्तरे मनसि कोलाहल: संजातः, मनस्येव कल्पितं क्रूरं युद्धं प्रचलतीतिदृष्टम्, छिद्यमानं राज्यं निरीक्षितं तेन, 'मां रक्षतु मां रक्षतु' इति प्रतिध्वनिः श्रुतिपथमागतः । अरे ! एते दुष्टा मे बालकं राज्यं च बन्दीकुर्वन्ति, इत्यनेकेऽशुभविकल्पाः तस्य राजर्षेः चित्ते रममाणा अभवन् । प्रान्ते मनस्येव तेन स्वयमेव परिपन्थिभिः सत्रा घोरं युद्धं प्रारब्धम् । मनसैवाऽनेकानां जीवानां हत्या कृता । एवं मनसः शुभभावधाराऽपि दुष्टालम्बनेन खण्डिता भूता । अधुना तस्य बाह्यचेष्टा तथा केवलं देह एव साधनायां स्थितः, अपि तु तस्य चेतः साधनायाः प्रतिपक्षीभूतायां सांसारिकचेष्टायां विद्यते । तस्य स्वान्तस्य परिणतिरतिसङ्क्लिष्टाऽस्ति । ततः तेनाऽतिसङ्क्लिष्टाध्यवसायवशेनेदानीं यदि स राजर्षिः म्रियेत तर्हि सप्तमे नरकेऽनुसरेत् । विभोरेतादृशं वचन संश्रुत्य श्रेणिकमहाराजस्य मानसे कौतुकं प्रजातम् । ततः क्षणानन्तरं पुनस्तेनाऽपृष्टम् - भगवन् ! अथ अधुना स म्रियेत तर्हि व गच्छेत् ? मधुरगिरा भगवता व्याकृतं राजन् ! अधुना म्रियेत तहि स सर्वार्थसिद्धविमानमनुसरेत् । स्वामिनः पूर्वस्माद्विधानकादेतादृशं विरुद्धं कथनं निशम्य श्रेणिकमहाराजस्य चित्तं सन्देहयुक्तं जातम्, कुतूहलमपि चाऽवाप्तं, ततो निजसंशयनिवारणार्थं तेन पृष्टम्- प्रभो ! क्षणपूर्वं सप्तमं नरकं गमिष्यति इति कथितं, क्षणानन्तरेण सर्वार्थसिद्धविमानं यास्यतीति १०२ Page #116 -------------------------------------------------------------------------- ________________ भवानेव कथयति, कथमेवं वैचित्र्यम् ? तदा तस्य राज्ञो मनः समाधातुं भगवानाह - पूर्वं दुर्मुखस्य वचनं संश्रुत्य राजर्षेः आन्तरिकपरिणतिः संक्लिष्टा जाता, चित्ते कोप: संजातः, तेन कारणेन मनस्येव प्रविदारणमारभ्याऽनेकजीवानां हत्याऽपि कृता, अन्ते आयुधाभावात् शत्रुराजं हन्तुं चरमशस्त्रस्वरूपं शिरस्त्राणं ग्रहीतुं यदा मस्तकस्योपरि हस्तः स्पृष्टः तदैव तत् मुण्डं ज्ञात्वा तस्य चेतः जागृतं सावधानं च भूतम् । अहो ! मया किं कृतं, अहं तु भिक्षुः, जिनप्ररूपितधर्मस्याऽऽराधकोऽहम्, सर्वमपि संत्याज्य जैनी दीक्षोररीकृता, अधुना मम राज्येन पुत्रेण च सह कः संबन्धः । पुत्रमोहान्मया महाननर्थ आचरितः, संयमस्य विराधना कृता, प्रभोराज्ञाविरुद्धं कृतम्, एवं मानसेऽपूर्वः पश्चात्तापो जातः । पुनः क्लिष्टकर्मक्षयार्थं मनसि उद्वेगः हृदये पश्चात्तापः तेन सह शुभभावनाधारायामारूढः । इत्यादिविशुद्धभावनाभिः चेतः संशुद्धं जातं तस्य । प्रतिक्षणं शुभपरिणतिधारोलमारोहति । एभिः पश्चात्तापधाराभिः क्षणपूर्वं यामशुभकर्मावलिमबघ्नात् तां कर्मावलिं शनैः शनैः क्षयपति स्म स राजर्षिः। अतो 'यद्यधुना राजर्षिः म्रियेत तर्हि सर्वार्थसिद्धविमानं यात्' इति कथितं मया । यावद्विभुः एवं वदति तावत्तु गगने दुन्दुभिनादः श्रुतः । दुन्दुभिनादं श्रुत्वा राज्ञा पृष्टम्-कथमेष दुन्दुभिनादोऽभवत् । तदा भगवता प्रोक्तम्-एतेनराजर्षिणा समस्तमपि कर्मरजोवृन्दं क्षपयित्वाऽनुत्तरं केवलज्ञानं प्राप्तम् । एवं भगवद्वचनं निशम्य श्रेणिकमहाराजस्य चित्तेऽपूर्वः सन्तोषो जातः । बन्धो ! एतेन कथानकेन ज्ञायते यन्मनः किमपि कर्तुं शक्तिमत् । क्षणादेव चित्तं जीवानूर्ध्वमपि नयति तथैवाऽधोऽपि नयति क्षणादेव । वयं सर्वेऽपि जानीमहे यद् यदि चेत् स्वान्तं स्वाधीनं भवेत् तर्हि मिथ्यात्वनिबिडान्धकारान्वितगर्तायामालुठन् जनोऽपि प्रकाशमय चिदानन्दमयमोक्षशममवाप्नोति, तथैव यदि चेत् चित्तमस्वायत्तं भवेत् तर्हि गुणसंपन्नो जीवोऽपि अधःपतति । ततो दुष्टालम्बनात् दूरमेव स्थातव्यम् । तथा तेन सहैतदपि ज्ञेयं यन्न कदाऽपि त्यक्तव्यं शुभालम्बनम् । अशुभालम्बनेन चित्ते दुष्टभावाः संजाताः, तेन क्षणं संयमाच्चुयतः, तथाऽपि द्रव्यचारित्रवशात् पुनः संयममार्गे आरूढः स राजर्षिः । यदि चेत् संयमवेषमुण्डनादिद्रव्यचारित्रस्वरूपावलम्बनं न भवेत् तर्हि शुभमार्गमनुसृत्य कथं प्राप्नुयात् १०३ Page #117 -------------------------------------------------------------------------- ________________ परमपदं स राजर्षिः ? अतो न कदापि शुभालम्बनं त्यक्तव्यम् । प्रान्ते यादृशी मनःपरिणतिः तादृश्येव फलावाप्तिः । एवमपेक्षया शुभभावान्वितं चेतो लाभदायि तथाऽशुभपरिणामयुक्तं मनोऽलाभदायीति ज्ञेयम् । अतोऽस्माभिः सदा मानसं विशुद्धमेव विधेयम्। सर्वेभ्यो मित्रेभ्यो मे धर्मलाभः त्वया कथयितव्यः । कठिनशब्दानामर्थाः। सुलभबोधिः सुलभः बोधिः (धर्मबीज) यस्य सः । प्रशस्त: शुभः परिणतिः मनसो भावः। आर्तरौद्रध्यानं एतन्नामके अशुभे ध्याने धर्मशुक्लध्यानं एतन्नामके शुभे ध्याने कायोत्सर्गः कायस्य व्युत्सर्जनम्। दीक्षा संसारत्यागः। अध्यवसाय: मनसो भावः। मिथ्यात्वम् धर्मस्याऽरुचिः । १०४ Page #118 -------------------------------------------------------------------------- ________________ - Jumpti जीवानास्या सिद्धान्ता: मुनिधर्मकीर्तिविजयः। जीवनं यथार्थं जीवितुं जीवनं सफलीकर्तुं च केचन्नियमाः सन्ति । ये नियमा न केष्वपि शास्त्रेषु नियमस्वरूपेण विद्यन्ते । तथाऽपि सुज्ञाः सुविवेकिजनाश्च जीवाः तान् नियमानात्मनः सहज स्वभावरूपेण जीवनस्य महत्तमकार्यरूपेण स्वीकुर्वन्ति । १ स्वयं स्वेच्छया कार्यं न कुर्यात्, अपि तु मान्यैः जनैः कथितं वचनमनुसृत्य प्रशान्तचित्तेनाऽवधार्य च, तत्कथनगततथ्य-हितकरपदार्थः उररीकर्तव्यः, न तत्र लज्जाऽनुभवनीया। यदि सामान्यजनैः विरोधिजनैरपि वा भाषितं वचनं शोभनं हितकरं च भूयेत तदा तद्वचनमवश्यमेव प्रतिपत्तव्यम् । ‘हितकारि-सत्यकथनं येन प्ररूपित, तं प्रति कदापि क्रोधं न कुर्यात् । मम को हितकारी कश्चाहितकारीति स्वबुद्धयैव निर्णेतव्यम् । ये सदा सर्वेषां प्रशंसामेव कुर्वन्ति, तादृशजनेभ्यः सर्वदा सावधानेन स्थातव्यम् । "क्रोधाविष्टस्वभावात् आग्रहबद्धस्वभावात् अहङकारिस्वभावाच्च आत्मनो हितकारकाः उपकारिजनाश्च दूरीभवन्ति, उन्मानसाः भवन्ति" इति विचार्य सदा जागृतिपूर्वकं सर्वैः सह व्यवहारः कर्तव्यः । स्वजीवने महत्तायां प्रतिष्ठायां च लिप्सवो जीवाः एतान् नियमान् अमूल्यान् सुवर्णहारनिभान् मन्यन्ताम् । (अनूदितम्) m03 १०५ Page #119 -------------------------------------------------------------------------- ________________ २ दशधा सत्यम् । मुनिभव्य श्रमणविजयः। सदिति प्राणी वा मुनिर्वा, तेषां हितकृदिति सत्यस्य व्याख्या शास्त्रे कृता । तत् सत्यं दशधा शास्त्रे वर्णितम्। १. जनपदसत्यम् - तस्मिन् देशे तस्मिन् विषयेऽर्थस्य प्रतिपादकं वचनं जनपदसत्यम् । यथा कोकणदेशे जलं पिच्चसंज्ञेनोपलक्ष्यते तज्जनपदसत्यम् । सम्मतसत्यम्। कुमुदान्यपि पङ्के जायन्ते तथाऽपि पङ्कजत्वेन न व्यवहियते, किन्तु मूलसंज्ञयाऽरविन्दत्वेनैव आबालगोपालकैरविन्दमेव पङ्कजत्वेन कथ्यते, तस्मात् पङ्कजशब्दः कुमुदे नोपयोज्यः । यदि सः कुमुदार्थे उपयोज्यते तर्हि तदसत्यं भवति । अतः पङ्कजशब्दः तत्राऽयोग्यः इति सम्मतसत्यम् । ३. स्थापनासत्यम्। पाषाणनिर्मिता तीर्थकरादिप्रतिमा साक्षात् तीर्थकरत्वबुद्धया यदुपलक्ष्यते पूज्यते च तत् स्थापनासत्यम् । नामसत्यम् । नामानुरूपाणां गुणानामभावे सत्यपि तन्नाम्नैव यो व्यवहारः क्रियते तन्नामसत्यम् । यथा-कुलवर्धनमिति कस्यचिन्नामाऽस्तु । यद्यपि स न कुलवृद्धि करोति तथाऽपि स तेन नाम्नैवाऽऽहूयते तन्नामसत्यम् । रूपसत्यम् - कश्चिद् गुणरहितः स्यात् तथाऽप्याकारमात्रेणोपलक्ष्यते तद् रूपसत्यम् । यथा साध्वाचारेण भ्रष्टः कोऽपि कुसाधुः व्रतप्रत्याख्यानादिकं न करोति तथापि १०६ Page #120 -------------------------------------------------------------------------- ________________ साधुवेषेणैव स साधुरिति कथ्यते, तद् रूपसत्यम् । अपेक्षासत्यम् - एकमेव वस्तु अन्यवस्तुनोऽपेक्षया लघुकमस्ति तथैव गुरुकमप्यस्ति, तदपेक्षासत्यम् । यथा अनामिका अङ्गुली मध्यमाऽपेक्षया लघ्वी तथा च कनिष्ठाऽपेक्षया बृहत्यस्ति, तदपेक्षासत्यम् । व्यवहारसत्यम् - व्यवहारे यत् सत्यरूपेणोच्यते तद् व्यवहार सत्यम् । यथा घटे भृतं जलं क्षरति तदा घटः क्षरतीति शब्दप्रयोगो लोके भवति, तद् व्यवहार सत्यम् । भावसत्यम् - वर्णादिभावमाश्रित्य यः प्रयोगः क्रियते तद् भावसत्यम् । यथा व्याघ्रः पीतवर्णवान् । अत्र व्याघ्रो न संपूर्णतया पीतवर्णवान्, किन्तु कस्मिँश्चिद् देहभागेऽन्येऽपि वर्णाः सन्ति; तथाऽपि भावप्रधानतया स पीतवर्णवानिति व्यवह्रियते तद् भावसत्यम् । योगसत्यम् - केषाञ्चित् पदार्थानां संबन्धेन जायमानो व्यवहारो योगसत्यम् । यथा दण्डयोगेन दण्डी कथ्यते, छत्रयोगेन छत्रवान् कथ्यते तद् योगसत्यम्।। १०. उपमासत्यम् - उपमया यत् सत्यं तदुपमासत्यम् । यथा कञ्चित्तडागं दृष्ट्वा अहो ! अयं तडागस्तु समुद्रेण तुल्योऽस्ति । एवं कस्याऽपि पुरुषस्यापूर्वं शौर्यं दृष्टवा, अहो ! अयं सिंहोऽस्तीति व्यवहारः, तदुपमासत्यम् । अयमधिकारोऽनुयोगद्वारे वर्णितः । भगवतः शासनस्य विशालता ज्ञानवैभवश्चैतेन ज्ञायते । एतत्तु सत्यमेव यत् , अस्य शासनस्य प्राप्तिः परमपुरूषाणामेव भवतीति न शङ्कनीयः । १०७ Page #121 -------------------------------------------------------------------------- ________________ सेनल्था विजयशीलचन्द्रसूरिः आसीदेको 'ध्यान'गुरुः । तत्समीपमागत्य एकेन विदुषा विज्ञप्तम्- अहं 'ध्यान' बोद्भुमिच्छामि, बोधयतु माम् । गुरुणा त्वरितमेकं 'चाय' भृतं कच्चोलकं गृहीत्वा पुनरपि तत्र 'चाय'संज्ञकं पेयं प्रक्षेसुमारब्धम् । तत्तु तत्र अवकाशमलब्ध्वा बहिः प्रवहितुं लग्नम् । तद् दृष्ट्वा खिन्नेन विदुषा कथितं - अरे अरे, किं कुरुथ इदम् ? कच्चोलकमिदं भृतपूर्वमेवाऽस्ति, तथापि तत्रैव पुनः पेयप्रक्षेपः किमर्थम् ? इदं तु प्रवहति ! मन्दं स्मित्वा गुरुणोक्तम् - अहमप्येतदेव कथयितुमिच्छामि । भवतां मानसं नैकैर्विकल्पजालैर्बाढं भृतं वर्तते, विकल्पाश्च सततं बहिः प्रवहन्ति । अतस्तत्र 'ध्यान'स्य बोधो यदि प्रक्षिप्येत, तर्हि सोऽपि एतत्पेयवन्नीचैर्वहेत् । अतः प्रथमं मनः रिक्तं करोतु भवान्; पश्चादेव तत्र 'ध्यान' बोधः स्थिरीभवितुमर्हति । १०८ Page #122 -------------------------------------------------------------------------- ________________ ARTMERMITT I HARITTARAMETER किंनिमित्ताः भूकम्पाः ? ___ -हिन्दीमूलं - डॉ. नेमिचंद जैन - सं.अनुवादः -मुनिकल्याणकीर्तिविजयः सामान्यतः भूमेः अन्तस्तले सम्भूतैः शिलासङ्घट्टनैः ज्वालामुखीयविस्फोटैर्वा भुवः कम्पनं भवतीति जनसाधारणो बोधः । ऐस्वीये १८५६ तमे संवति भारतीयभूकम्पपरम्पराया अनुसन्धाने W.T. ब्लैण्डफोर्ड - फान्सिस फेडन - एड्यूअर्ड स्यूस - अल्फेड वेजनर - T. ओल्धम - R.D. ओल्धम - इत्यादिभिर्वैज्ञानिकैः भूकम्पतरङ्गाणां तलस्पर्शि अध्ययनं कृतम् । चार्ल्स फ्रान्सिस रिक्टर इत्यनेन च भूकम्पस्य तीव्रतां मातुं रिक्टर-स्कैल-इत्याख्यं तीव्रतामापकं प्रमाणमपि विकासितम्। किन्तु एतैर्वैज्ञानिकैः केवलं भौतिका निष्कर्षा एव जगतः समक्षं प्रसिद्धीकृताः । शेषा निष्कर्षाः उपपत्तयश्च जनैनँव ज्ञाताः वैज्ञानिकैर्वा नैव प्रकटिताः कदाऽपि । परन्तु चिन्तनीयं अत्र यद् - भूकम्पनस्य न ह्येकमेव कारणं अथवा तदेव कारणजातं यत् प्रत्यक्षतः दृश्यते - अनुमीयते वा, अपि तु नैकानि अन्यानि कारणानि विद्यन्ते यानि अध्ययनविशेषैरेव ज्ञातुं शक्यानि । विज्ञानस्य हीदं वैशिष्ट्यं यत् - कुत्राऽपि कदाचिदपि कस्याञ्चिदपि परिस्थितौ कतमदपि संशोधनं अध्ययनं वा केनाऽपि क्रियते तदेव अन्तिम सत्यं इति विज्ञानं कदाऽपि न प्रतिद्यते अपि तु भाविनीनां सम्भावनानां कृते स्वीयद्वाराणि सदैव उद्घाटितान्येव स्थापयति । अतो यदा वयं भूकम्पविषयाणि अध्ययनानि समीक्षामहे तदा ज्ञायते यत् तानि एकपक्षीयान्येव सन्ति । तेषु केवलं पार्थिवपक्षस्य भौतिकपक्षस्य चैव विचारणानि कृतानि, तदितरासां परिस्थितीनां तु अभौतिकत्वाद् आधिभौतिकत्वाद् बिजातीयत्वाद् वा अध्ययनं विचारणं वा सर्वथा उपेक्षितं तत्र च गजनिमीलिका एवाऽवलम्बिता । परं ऐस्वीये १९९५ तमे संवति दिल्लीविश्वविद्यालयीयैः त्रिभिरध्येतृभिः डॉ. मदनमोहन १०९ Page #123 -------------------------------------------------------------------------- ________________ बजाज - M.S.M. इब्राहिम - विजयराजसिंह इत्यभिधै: रूसदेशस्थिते सूजडलप्रदेशे 'शिलासु वधशाला-जनित-भूरैखिक- प्रत्यस्थ- पीडातरङ्गाणां पारस्परिकप्रभाव: (INTERACTION OF ABATTIOR-GENERATED NON-LINEAR ELASTIC PAIN- WAVES IN ROCKS)' इति विषये प्रयोगशालासु नाना प्रयोगाः कृताः । जगतः समक्षं चैका नूतना धारणा प्रस्तुता - प्रस्थापिता च यत्-भूकम्पा: हिंसा-क्रूरता - हत्या - वधशाला - युद्धादिभिरेव जन्यन्ते । यदि एते हिंसादयः सर्वथा निरुध्येरन् अल्पीक्रियेरन् वा तदा भूकम्पाः सीमिता भवेयुस्तेषां तीव्रता वा मन्दीभवेत् । अध्येतॄणां ह्येतेषां उपपत्तिरियं न काल्पनिका सांवृतिका वा किन्तु तत्पूर्वगामिनां, भूकम्पप्रक्रियां च प्रति सततं सावधानानां सर्वेषां वैज्ञानिकामपि अयमेव निष्कर्षः । किञ्च ये पीडा-तरङ्गा (PAIN-WAVES) जगद्विश्रुतस्य वैज्ञानिकस्य आल्बर्ट आइन्स्टाईनइत्यस्य नाम्नाऽभिहितास्ते जगतः पीडायाः सर्वोच्चतीव्रतां धीरयन्ति । एते हि तरङ्गास्तदैवाऽनुभूयन्ते यदैव क्वचित् कदाचिदपि कस्यचित् प्राणिनो हिंसा वधो वा भवेत् । एते तरङ्गा धरित्र्या मौलिकी - संरचनायाः सन्तुलनं विकृतयित्वा तां ध्वंसं प्रति हठात् नयन्ति । बहूनां भूकम्पाध्ययननिरतानां विदुषां वैज्ञानिकानां च साग्रहं सूचनं यत्-उत्कनिष्कर्षविषये गभीरतया विचारणं कृत्वा शीघ्रमेव इमान् तरङ्गान् नियन्त्रयितुं यतनीयमिति । अस्मिन् विषये उपर्युक्तैस्त्रिभिरपि विद्वद्भिः लिखितं ETIOLOGY OF EARTHQUAKES - A NEW APPROACH - इति पुस्तकमपि एकं नूतनमध्यायं प्रकाशयति । यदि एतस्मिन् पुस्तके उल्लिखितानां बहुमूल्यानां संशोधनानां निष्कर्षाणां च शासनेन उपेक्षा क्रियेत परीक्षणं वा न क्रियेत तदा भूकम्पानां दुष्परिणामार्थं शासनस्यैव उत्तरदायित्वं आगमिष्यति । यदा देशस्य प्रमुखैः समाचारपत्रैः अयं निष्कर्ष: स्वीयपत्रेषु रेखाङ्कितः प्रकाशितश्च तदा केनचिदपि, विशेषतो नागरिकैः इमां निष्पत्तिं प्रति उदासीनै: स्थातुं कथमपि न योग्यम् । - वैज्ञानिकवर्य-वैकस्टरेण डॉ. जगदीशचन्द्रबसुना च THE SECRET LIFE OF PLANTS (PENGUIN 1973) इति पुस्तके 'ब्रह्माण्डे सर्वमपि वस्तु परस्परं सघनतया सम्बद्धम्' इति सिद्धान्त: सदृष्टान्तो विवृतोऽस्ति । पुनश्च डॉ. वसुना स्वीय संशोधनैरेतदपि साधितं यत् ११० . Page #124 -------------------------------------------------------------------------- ________________ धरित्र्यास्तलमध्ये यत् किमपि अस्ति तत् सर्वं अत्यन्तं संवेदनशीलमस्ति, अतो नैतत् शक्यं यद् एकस्य वस्तुनः घटनाया वा द्वितीयस्मिन् वस्तुनि घटनायां वा प्रभावो न दृश्येत ।। न केवलं जडा भौतिक्यो वा घटना एव ब्रह्माण्डं प्रभावयति किन्तु ताः समस्ता अपि घटनाः ब्रह्माण्डं प्रभावयति या जीवधारिभिः पशुभिर्मानवैर्वा सम्बद्धाः ।। ततश्च कथमिदं सम्भवि यत्-विश्वस्मिन् विश्वे यदा कोटिशो जीवान् प्रकृतिप्रदत्तजीवनाद् वञ्चयित्वा निर्दयतया अकालमरणं प्रापयत्सु अस्मासु ब्रह्माण्डे काऽपि प्रतिक्रिया न भवेत् ? युद्धेषु वधशालासु च जनिताभिरन्यादृशीभिश्च हिंसाभिः नूनं जगतो लये विघ्ना उपतिष्ठन्ति । एतत् तु अन्यत् यत् वयं तान् विघ्नान् अनुभवितुं असमर्थास्तादृशसाधनहीनाश्च । ब्रह्माण्डं तु कणशः कणशः सूक्ष्मैः संवेदनैः सर्वदा अनुप्राणितमस्ति । अतस्तत् पीडातरङ्गैः सर्वथा प्रभावितं भवत्येव । नाऽस्त्यत्र काऽपि संशीतिः । ऐस्वीये १९८९ तमे संवति कृतेन सर्वेक्षणेन ज्ञातं यत् भारते प्रतिवर्ष १५ कोटिमिताः पशवः मांसार्थं मार्यन्ते (प्रतिदिनं ४, १०, ९८६ पशवः) । अद्यत्वे तु प्रायस्ततो द्विगुणितां हिंसां कर्तुं निर्णीतमस्ति शासनेन (प्रतिदिनं ९, ८६, ३६६ पशवः) । किमिदं शक्यं यत्यदा इयन्तः पशवः केवलं मांसार्थं मार्यन्ते तदा तज्जनितैः पीडातरङ्गैरस्य देशस्य विश्वस्य वा भूमिरप्रभाविता वर्तेत? एतदपि नाऽऽवश्यकं यत् यत्रैव हिंसा युद्धं वा सम्भूतं तत्रैव पीडातरङ्गाणां प्रभावो दृश्येत । [जबलपुरे घटितस्य भूकम्पस्य कारणतया इरानदेशे घटितो भूकम्पोऽनुमितोऽस्ति अध्येतृभिः (२२ मई - १९९७)] । प्रकृतेः स्वाभाविके लये वधशालाः युद्धानि हिंसाश्च मनुष्यकृताः अन्तरायाः । एतैरन्तरायैरस्माकं वर्तमानं तु अभिशप्तमेव अनागता सन्ततिरपि अस्य कालिम्ना कलुषिता भविष्यति । __उत्तरकाश्यां (१९३१) लातूरे (१९९३) जबलपुरे (१९९७) तथा गूजराते (२००१) घटितानां भूकम्पानां कारणजातं प्रति जनजागरणं जनसावधापनं चैवाऽस्य लेखस्य प्रयोजनम् । येन जनाः स्वयमेव जगतः स्थितं प्रसमीक्ष्य अहिंसामूलकमानवीयसंवेदनशीलतया प्रफुल्लितां Page #125 -------------------------------------------------------------------------- ________________ समाजरचनां विरचय्य देशस्य विश्वस्य च पर्यावरणं स्वच्छतया संरक्षितुं यथाशीघ्रं प्रयतेरन् । आश्चर्यजनकं त्विदमेव यत्-ब्रिटनदेशस्य शासनेन गतेषु वर्षेषु स्वदेशे प्रवर्तमानाभ्यो वधशालाभ्यः चतुर्थांशमिता वधशालाः स्थगिताः निरुद्धाश्च । अस्मद्देशे तु नगरस्थानां वधशालानां ग्रामीणवधशालातया रूपान्तरणं कर्तुं एकं सुव्यवस्थितं समायोजनं विरच्यते शासनेन, येन देशस्य प्राकृतिक संरचनं संरक्षणं च छिन्न भिन्नं च भूत्वा दुष्काल-दुर्भिक्षभूकम्प-अतिवृष्टिप्रभृतिभिः विनष्टं भवेत् !! Page #126 -------------------------------------------------------------------------- ________________ मर्म - नर्म पत्युः असदृशवर्तनेन पत्नी त्रस्ता आसीत् । सायंकाले नित्यं क्षेत्रकार्यात् निवृत्य गृहमागत्य पतिः साक्रोशं 'पानीयमुष्णं । कृतं न वा? खाद्यसामग्री सज्जीकृता न वा?' - इत्यादि व्यवहरति स्म । एकदा तस्या माता तद्गृहमागता । सा सर्वमपि जनन्यै उक्तवती । तया तस्याः कर्णे किमपि कथितं येन सा तुष्टा जाता। अथ च- सायंकाले यथाक्रमं तस्याः पतिः गृहमागतवान् । सानोशं च - 'स्नानार्थं जलमुष्णं करोषि नवा ? अन्यथा .....!' इति द्वित्रिवारमुक्तवान् । तदा पत्नी अपि उच्चैरुवाच - अन्यथा ? अन्यथा किं करिष्यसि ? पति : (शान्त्या) - शीतेनैव जलेन स्नास्यामि । कनिष्ठः पुत्रः (मातरं प्रति) - मातर् ! किमर्थं भगिनी रोदिति ? माता - तस्या विवाहः सञ्जायते, अतः । पुत्र : - तर्हि तस्याः पतिः किमर्थं न रोदिति ? तस्याऽपि किं विवाहो न सञ्जायते? माता - वत्स ! अद्य भगिनी रोदिति किन्तु श्वस्तः स एव नित्यं रोत्स्यति । -मुनिरत्नकीर्तिविजय : Page #127 -------------------------------------------------------------------------- ________________ मर्म - नर्म धम्ऽऽऽ धम्ऽऽऽ धम्ऽऽऽ सशब्दं किञ्चित् पतितं निःश्रेण्याम् । महानसात् गृहिणी उवाच - किं भूतम् ? । पतिः - न.... न किमपि । केवलं वस्त्राणि पतितानि । गृहिणी - केवलं वस्त्राणां पतनेन कथमेतावान् महान् शब्दो जायेत ? पतिः - अहमप्यासं तत्र वस्त्राणां मध्ये .... अतः ... ! -मुनिरत्नकीर्तिविजय : (अपराधिनमुद्दिश्य) कथय, तवाऽन्तिमेच्छा ? ( जाम्बवभक्षणस्य स्पृहाऽस्ति । ) अधिवक्ता अपराधी इदानीं वर्षाकाले न प्राप्यते जम्बूः। तर्हि नास्ति ममाऽपि त्वरा । अधिवक्ता अपराधी -मुनिधर्मकीर्तिविजयः Page #128 -------------------------------------------------------------------------- ________________ मर्म - नर्म समीर: विनीत ! अधुनाऽस्माकं ग्रामे महान् सांवत्सर आगतोऽस्तीति किं न श्रुतम् ? मयाऽपि श्रुतं, ततोऽहमपि तत्रैव गच्छामि । (दैवज्ञं निरीक्ष्य) विनीत: नमोऽस्तु ते नमोऽस्तु ते । विनीतः दैवज्ञः विनीतः दैवज्ञः विनीतः दैवज्ञः स्वागतं स्वागतम् । पण्डितवर्य ! अस्य बालकस्य भविष्यत् किं ? यत एष मम पुत्रः सदा मृत्तिकामेवाऽत्ति । श्रेष्ठिन् ! आगामिनि काले एष बालको गृहं, प्रासादं, जलसंग्राहिकां, मार्गं, सेतुं प्रणालिं च भक्षयिष्यति । कोऽर्थ : ? एष देशनेता भविष्यति । भिक्षुकः भो श्रेष्ठिन् ! देहि रुप्यकं भगवन्नाम्ना, तव कल्याणं भविष्यति । नास्ति मम समीपमेकमपि रुप्यकम् । श्रेष्ठी भिक्षुकः तर्हि देह्यर्धरुप्यकम् । श्रेष्ठी भिक्षुकः श्रेष्ठी क्षमस्व! क्षमस्व! एतदपि नास्ति । तर्हि दशनाणकं देहि । (दण्डं गृहीत्वा ) इतो दूरं गच्छ, एतदपि । नास्ति । भिक्षुकः यदि किमपि नास्ति तर्हि मया सह भिक्षार्थं चल, दास्याम्यहं भोजनम् । ११५ --मुनिधर्मकीर्तिविजयः Page #129 -------------------------------------------------------------------------- ________________ Page #130 -------------------------------------------------------------------------- ________________