SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्राप्यते व्याख्यैषाऽभिधानचिन्तामणिकोशस्य स्वोपज्ञटीकायाम्। तीर्थकरं ऋते न समर्थः कोऽपि जीव एतादृशमैश्वर्यं प्राप्तुमित्यतोऽतिशयाः । तीर्थकरस्याऽनुपस्थितौ एकत्रमीलिताः सर्वेऽपि देवा भगवदशोक वृक्षस्य सदृशमन्यदशोकवृक्षं कर्तुं न प्रभवन्ति । किन्तु एकोऽपि देवो भगवतः सांनिध्यप्रभावेण क्षणादेव अपूर्वमशोकवृक्षं विरचयति । एष एव भगवदतिशयः । अत्र चतुस्त्रिंशदतिशयाः त्रिभिः विभागैः वर्ण्यन्ते । तत्र प्रथमाः चत्वारोऽतिशयाः "सहजातिशयाः" कथ्यन्ते । जन्मन आरभ्यैवैते चत्वारोऽतिशया विद्यन्ते, अत: 'सहजाः' इत्यभिधीयन्ते । तद्यथा१. भगवतो रूपमद्भुतमनन्यसदृशं च भवति । तेषां देहोऽपि सुगन्धी निरामयः स्वेदविहीनो मलोज्झितश्च विद्यते। २. भगवतः श्वासोऽपि अब्जगन्धो भवति । ३. भगवतो रुधिरं गोक्षीरप्रवाहवत् श्वेतं तथा पललमपि विशदं दुर्गन्धविहीनं च भवति । ४. भगवत आहारनीहारविधिः चर्मचक्षुषां जीवानां दृग्गोचरो न भवति । अथ कर्मक्षयजा एकादशाऽतिशयाः सन्ति । तीर्थकरात्मा चरमभवे राज्यकुटुम्बवैभवसुखं विहाय संयममार्गमुररीकृत्य अपूर्ववीर्योल्लासद्वारा ज्ञानावरणीयदर्शनावरणीयमोहनीयअन्तरायरूपं घातिकर्मचतुष्कं यदा क्षीणं करोति, तदैव भगवत एते एकादशाऽतिशयाः प्रादुर्भवन्ति । अतः कर्मक्षयजा इति व्याख्यायन्ते । १. एकयोजनमात्रकेऽपि समवसरणे नृतिर्यग्देवानां कोटिकोटिः निराबाधं समाविशति । २. भगवतो देशना सर्वासु दिक्षु एकयोजनपर्यन्तं प्रसरति । ददाति अर्धमागध्यां भाषायां देशनां भगवान् । तथाऽपि सा देशना सर्वासु भाषासु परिणमति, ततो देवा मनुष्याः तिर्यञ्चः स्वस्वभाषायां श्रृण्वन्ति, श्रुत्वा च परमानन्दमाप्नुवन्ति । ३. भगवतो उत्तमाङ्गस्य पृष्ठेऽतिमनोज्ञं दीप्तिमच्च भामण्डलं विद्यते। दिवाकरमण्डलस्य कान्तेरप्यधिका कान्तिः वर्तते तस्य भामण्डलस्य । भामण्डलप्रभावादेव जीवाः सुखेन ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy